प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 181, कुल 532 में से
संदर्भ में पढ़ेंप्रत्यक्षपरिच्छेदः १५५
अतीतमपदृष्टान्तमलिङ्गं चार्थवेदनम् ।
सिद्धं तत्केन तस्मिन् हि न प्रत्यक्षं न लैङ्गिकम् ॥ १८० ॥
तत्स्वरूपावभासिन्या बुद्ध्यानन्तरया यदि ।
रूपादिरिव गृह्येत;
न स्यात् तत्पूर्वधीग्रहः ॥ १८१ ॥
सोऽविकल्पः स्वविषयो विज्ञानानुभवो यथा ।
परिच्छेदेन परोक्षबुद्धिविकल्पात्मकेनाभिन्नरूपा तथात्वेन स्वबुद्धिधीः
स्यात् । अस्ति च परबुद्धिप्रतीतिविलक्षणस्वबुद्ध्यनुभवः । तस्मादविकल्प
एवासौ ॥ १७९ ॥
किञ्च--सविकल्पकप्रत्यक्षवादिना निर्विकल्पस्याप्यस्वसंवेदनवादिनो १
मतेऽतीतमर्थवेदनं न केवलमध्यक्षतो वर्तमानविषयत्वान्न सिध्यति,
किन्त्वनुमानादपि; यस्मादलिङ्गं लिङ्गरहितम् । तथा हि--धर्मिणो ज्ञानस्यासि-
द्धत्वात् लिङ्गमाश्रयासिद्धम् । अनुमानात् ज्ञानसिद्धिवादिनः कस्यचिज्ज्ञानस्या-
ध्यक्षासिद्धत्वात् अनुमानसिद्धावनवस्थानाद् अपदृष्टान्तम् । दृष्टान्तासिद्धौ न व्याप्ति-
सिद्धिरिति लिङ्गरहितमेवातीतं रूपादिदर्शनम् । तत् तस्मात् केन प्रमाणेन सिद्धम् !
तस्मिन् हि रूपादिदर्शने न प्रत्यक्षमभिमतत्वादस्ति । न च लैङ्गिकमनुमान-
मुक्तक्रमादिति सकलमप्रतिपत्तिकमन्धमूकं जगत् प्राप्तमिति ॥ १८० ॥
अथ तत्स्वरूपावभासिन्याऽतीतरूपादिबुद्धिरूपप्रतिभासिन्या तज्जन्यया-
ऽनन्तरया २ धियाऽतीतबुद्धिर्यदि गृह्यते सौत्रान्तिकमते रूपादिरिव तदनु-
कारिण्या तदनन्तरया धिया, तदा को दोषः ? इत्याह--यदा चिरं बहुषु विषयेषु
ज्ञानानि प्रवर्त्तन्ते, तदा तस्मादन्त्यात् ज्ञानात् याः पूर्वाः धियस्तासां ग्रहो न
स्यादिति दोषः । अन्त्यबुद्धिजनितया हि धिया सैव गृह्यते, न त्वन्या इति
स्यात् । अस्ति चानुभवस्तासाम्, यद्बलेन 'चिरमहमद्राक्षम्' इति भवति द्रष्टुः ।
तस्मात् स्वविषयः स्वरूपालम्बनतो विज्ञानानां पूर्वभाविनामनुभवोऽविकल्पः,
१. वैशेषिकस्येति शेषः ।
२. ऽनन्तया--रा० ।