प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 185, कुल 532 में से
संदर्भ में पढ़ेंप्रत्यक्षपरिच्छेदः १५९
ततो लिंगस्वभावोऽत्र व्यपदेशे नियोज्यताम् ।
निवर्त्तते व्यापकस्य स्वभावस्य निवृत्तितः ॥ १९३ ॥
सञ्चितः समुदायः स सामान्यं तत्र चाक्षधीः ।
सामान्यबुद्धिश्चावश्यं विकल्पेनानुबध्यते ? ॥ १९४ ॥
अर्थान्तराभिसम्बन्धाज्जायन्ते येऽणवोऽपरे ।
उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मनः ॥ १९५ ॥
अणूनां स विशेषश्च नान्तरेणापरानणून् ।
तदेकानियमाज्ज्ञानमुक्तं सामान्यगोचरम् ॥ १९६ ॥
ततो व्यापकाभावात् व्यपदेशे धर्मिणि अत्र गमकत्वे साध्ये नियोज्यतां
लिङ्गम् । प्रतिविषयमिति व्यपदेशात् व्यापकस्य गमकत्वस्य निवृत्तितो
निवर्त्तते नियोज्यतेति व्यापकानुपलब्ध्या तत्र नियोज्यत्वाभावः सिद्धः ॥१९३॥
ननु ‘सञ्चितालम्बनाः पञ्च विज्ञानकायाः’ इति सिद्धान्तः । “तत्रानेकार्थ-
जन्यत्वात् स्वार्थे सामान्यगोचरम्” ( प्र० समु० १.४ ) इति चोक्तम् । तथा च
परमाणूनां समुदायः सञ्चित इत्युच्यते । स एव च सामान्यं मतः । तत्र
च सामान्येऽक्षधीर्जायते । सामान्यबुद्धिश्चावश्यं विकल्पेनानुबध्यते अनु-
सीव्यते, तत् कथमविकल्पं प्रत्यक्षमुच्यते ? ॥ १९४ ॥
अत्राह—अर्थान्तराणां परमाण्वन्तराणामभिसम्बन्धात् सन्निधानविशे-
षेणोपसर्पणप्रत्ययेभ्यः पूर्वकेभ्यः परमसन्निहितेभ्योऽपरेऽन्ये येऽणवो जायन्ते
ते सञ्चिता उक्ताः “सञ्चितालम्बना विज्ञानकायाः” इत्यादौ । ज्ञानजन्मनस्त
एव हि निमित्तमुक्ताः “तत्रानेकार्थजन्यत्वात्” इत्यादिना ॥ १९५ ॥
अणूनां स च ज्ञानजननसामर्थ्यलक्षणो विशेषोऽपरानणून्यवधान-
वर्त्तिनोऽन्तरेण विना न भवति । न हि प्रत्येकमणवो दृश्याः, किन्तु सहिता
एव । तत् तस्मादेकस्मिन्नर्थे परमाणौ ज्ञानस्यानियमात् सामान्यगोचरं
सञ्चितपरमाणुसंघातविषयं ज्ञानमुक्तं तत्त्ववादिना, न तु परमाण्वतिरिक्त-
सामान्यविषयम्, तत् कथं सामान्यविषयत्वात् सविकल्पत्वप्रसङ्गः ॥ १९६ ॥