सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

३० सभाष्ये पाशुपतसूत्रे
यः स्नानमाचरेन्नित्यमाग्नेयं संयतेन्द्रियः ।
कुलैकविंशमुद्धृत्य स गच्छेत् परमां गतिम् ॥”
एवमन्यत्रापि प्रसिद्धं भस्मना गात्रशौचम् । तस्माद् युक्तं
वक्तुं प्रसिद्धा यमा अहिंसादय इति ।
तथोपस्पर्शनप्राणायामजप्यैः (अ० १, सू० १५-१७) अकलुष-
मतिर्भवतीति भावशौचं तन्त्रे सिद्धम् ।
“भावमन्तर्गतं दुष्टं न स्नानमपकर्षति ।
भावशुद्धिः परा शुद्धिः शेषं शृङ्गारमार्जनम् ॥
मृत्तिकानां सहस्रेण जलकुम्भशतेन च ।
न शुद्ध्यन्ति दुरात्मानः पापोपहतचेतसः ॥
सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः ।
सर्वभूतदया शौचमद्भिः शौचं तु पञ्चमम् ॥
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा ।
प्रतिग्रहे तथारम्भे इन्द्रियाणां च गोचरे ॥”
यस्मादाह—
“सर्वस्वमपि यो दद्यात् कलुषेणान्तरात्मना ।
न तेन धर्मभाग् भवति भाव एवात्र कारणम् ॥
यथा यथा हि पुरुषः कल्याणीं कुरुते मतिम् ।
तथा तथास्य सिध्यन्ति सर्वार्था नात्र संशयः ॥”
इत्येवं भावशौचं तन्त्रे सिद्धम् ।
तथात्मशौचं तन्त्रे सिद्धम् । कस्मात् ? । यस्मादवमानपरिभव-
परिवादाद्यैरपहतपाप्मा भवति (अ० ३, सू० ३—७) इत्यात्मशौचं
तन्त्रे सिद्धम् । यस्मादन्यैरप्युक्तं—

प्रथमोऽध्यायः । ३१
“कृत्स्नां महीं पर्यटतः सशैलवनकाननाम् ।
अपमानात् परं नास्ति साधनं मनुरब्रवीत् ॥”
इत्येवं शौचं तन्त्रे सिद्धम् ।
९. तथा आहारलाघवं तन्त्रे सिद्धम् । कस्मात् ? ।
भैक्ष-(अ० ५, सू० १४) उत्सृष्ट-(अ० ४, सू० ७) यथालब्धोपदेशात्
(अ० ५, सू० ३२) । स्वल्पमपि अनुपायतोऽर्जितमलघु, प्रभूतमपि
उपायतोऽर्जितं लघ्वेव द्रष्टव्यम् । उक्तं हि—
“चरेन्माधुकरीं वृत्तिं वल्मीकनिचयोपमाम् ।
अक्रुद्धश्चाप्रहृष्टश्च तपस्तद्धि सनातनम् ॥
यश्चरेत् सर्वभोज्येषु भैक्ष्यं च व्यवहारतः ।
भुञ्जीत प्रतिगृह्णीयात् प्रशस्तानां स्वकर्मसु ॥
चातुर्वर्ण्यं चरेद् भैक्ष्यं पतितांस्तु विवर्जयेत् ।
पयश्चापञ्च भैक्ष्यं च सममेतन्न संशयः ॥
भैक्ष्यशेषं तु यो भिक्षुर्यदि किञ्चित् समुत्सृजेत् ।
ग्रासे ग्रासे तु कर्तव्याः प्राणायामास्त्रयस्त्रयः ॥
सन्निधानं न कुर्वीत सर्वावस्थोऽपि योगवित् ।
सन्निधानकृतैर्दोषैर्यतिः सञ्जायते कृमिः ॥
माधूकरमसङ्कल्पं प्राक्प्रवृत्तमयाचितम् ।
तत्तत्कालोपपन्नं च भैक्ष्यं पञ्चविधं स्मृतम् ॥
गृहाद् गृहं पर्यटंस्तु न गृहं परिवर्जयेत् ।
परस्य वचनं श्रुत्वा दुष्टवेश्म विवर्जयेत् ॥
१. 'यदॄच्छया चोपपन्नम्' इति पाठान्तरम्.

१२ सभाष्ये पाशुपतसूत्रे
अदुष्टापतितं साधुं भिक्षुको यो व्यतिक्रमेत् ।
स तस्य सुकृतं दत्त्वा दुष्कृतं प्रतिपद्यते ॥
तथैव च गृहस्थस्य निराशो भिक्षुको व्रजेत् ।
स तस्येष्टं च पूर्तं च भिक्षुरादाय गच्छति ॥
अकृते वैश्वदेवे तु भिक्षुके गृहमागते ।
उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत् ॥
वैश्वदेवकृतान् दोषान् शक्तो भिक्षुर्व्यपोहितुम् ।
नहि भिक्षुकृतान् दोषान् वैश्वदेवो व्यपोहति ॥
दशाहं द्वादशाहं वा यत्र भिक्षा न लभ्यते ।
तद् गृहं वर्जयेद् भिक्षुरूषराणीव कर्षकः ॥
चतुरक्षरसंयुक्तां भिक्षां तु समुदाहरेत् ।
एष प्रव्रजिनां धर्मः शेषस्तु क्रयविक्रयः ॥
न हसेन्न चाभिप्रैक्षेत भिक्षामिच्छंस्तु भिक्षुकः ।
गोदोहमात्रं सन्तिष्ठेन्नोपत्तिष्ठेत् कदाचन ॥
जरामरणगर्भभ्यो भीतस्य नरकादपि ।
भयात् क्षपयते यस्मात् तस्माद् भैक्ष्यमिति स्मृतम् ॥
दधिभक्षाः पयोभक्षा येन््ये यावकभाक्षिणः ।
सर्वे ते भैक्ष्यभक्षस्य कलां नार्हन्ति षोडशीम् ॥
तप्तकाञ्चनवर्णेन गवां मूत्रेण यावकम् ।
पिबेद् द्वादश वर्षाणि न तद् भैक्ष्यसमं भवेत् ॥

प्रथमोऽध्यायः । ३३
मासि मासि कुशाग्रेण यः पिबेत् सोममग्रजः ।
भैक्ष्यं चाव्यवहारेण तुल्यं भवति वा न वा ॥
भैक्ष्यमन्नं परं श्रेयो भैक्ष्यमन्नं परं शुचि ।
भैक्ष्यं हि व्रतिनां श्रेष्ठं भैक्ष्यमेव परा गतिः ॥
यद्यज्जलं निर्धमनेष्वपेयं
नदीगतं तत् पुनरेव पेयम् ।
तथान्नपानं विधिपूर्वमागतं
द्विजातिपात्रान्तरितं न दुष्यति ॥
लवणमलवणं वा स्निग्धमस्नेहिकं वा
सहरसविरसं वा शुष्कमन्नं द्रवं वा ।
यदि इह निरवद्यं भुञ्जते भैक्ष्यमन्नं
स खलु भवति भिक्षुर्भिक्षुधर्मादलुप्तः ॥”
तथोत्सृष्टं यथालब्धं च तत्रैवावसरप्राप्तत्वात् प्रतितन्त्रसिद्धान्त-
सिद्धं, सूत्रतोऽर्थनिर्देशं करिष्यामः। इत्येवमाहारलाघवं तन्त्रे सिद्धम् ।
१०. तथा अप्रमादस्तन्त्रे सिद्धः । कस्मात् ? । अप्रमादो-
पदेशात् (अ० २, सू० १२) जप्योपदेशाच्च (अ० १, सू० ८) । इह
नित्यं यमेष्वप्रमत्तेनोपस्थितस्मृतिना भवितव्यम् । उक्तं हि -
“अप्रमादो दमस्त्यागो ब्राह्मणस्य हयाः स्मृताः ।
शीलरश्मिसमायुक्तैर्धेयात्मा मानसे रथे (?) ॥
तं ब्रह्मरथमारुह्य गर्भजन्मजरायुतान् ।
छिन्दन् मृत्युभयान् पाशान् ब्रह्मभूतोऽवतिष्ठते ॥”
इत्येवमप्रमादस्तन्त्रे सिद्धः । एवं प्रसिद्धा यमा अहिंसादयः ।
5

: ॥ १० ॥
Line 17: अत्र एकम् इति संख्या। वास इत्याच्छादने भवति। तस्य
Line 18: वासः पञ्चविधम्। अण्डजं वोड(?ढृ)जं वालजं वल्कलजं चर्मजं वा।
Line 19: यत् कुशलेनाभ्युपायैनोपपद्यते तदेकपटलमनेकपटलं वा ग्राम्यादिभ्यो
Line 20: निष्परिग्रहं कौपीनप्रच्छादनमात्रं लज्जाप्रतीकारार्थं चैकं वासो ग्राह्यम्।
Line 21: १. विशुद्धमुनि has composed 21 slokas closely following the
Line 22: भाष्य. See गणकारिका pages 24 and 25.

Everything looks completely accurate and matches the image exactly.३४ सभाष्ये पाशुपतसूत्रे
आह—अविशेषदोषान्न प्रसिद्धा यमाः। इहान्येषामप्यहिंसादीनि
धर्मसाधनानि। इहापि च शास्त्रे तान्येव। तस्मात् साध्य-
साधननिष्ठास्वप्यविशेषः। उच्यते—न। अतिप्रसङ्गादनेकान्ताच्च।
यदि धर्मसाधनास्तित्वमात्रसाधर्म्यादहिंसादीनां त्यागः क्रियते
[

द्वितीय एवं तृतीय अध्याय: कारण (पशुपति) एवं योग-विधान

प्रथमोऽध्यायः । ३५
अस्यैव च सूत्रस्य सामर्थ्यात् सर्वद्रव्यपरित्यागे कृते एकवासोमात्र-
परिग्रहः संस्कर्त्तव्यः शिष्यः । आह—लज्जाविनिवृत्तिरस्य कदा
भवतीति ? । उच्यते—ज्ञानाकलुषाभ्याम् । अत्र यदा प्राप्तज्ञानः
क्षीणकलुषश्च भवति तदा तस्य लज्जानिवृत्तिः ॥ १० ॥
आह—किं विनिवृत्तायामपि लज्जायां नियतमेवैकं वासो
ग्राह्यम्, आहोस्विदनियतमिति ? । उच्यते—अनियतम् । यस्मादाह—
अवासा वा ॥ ११ ॥
अत्र अकारो वासःप्रतिषेधे वर्तते । अवाससा नग्नेन यथा-
जातेन निष्परिग्रहेण भवितव्यम् । आह—अवासस्त्वे किं ते
प्रयोजनम् ? । तद् वाच्यम् एकवासस्त्ववत् । तदुच्यते—निष्परिग्रहार्थम्
अमङ्गलख्यापनार्थं चेति, प्रयोजनद्वयं द्रष्टव्यम् । वाशब्दः शक्त्य-
शक्त्योर्विचारणे । यद्यशक्तस्तदा अनयेनैकवाससा भाव्यम् । यदि
शक्तस्तदा अवाससा नग्नेन यथाजातेन निष्परिग्रहेण भवितव्यमित्यर्थः ।
न तु वा विकल्पे । विकल्पार्थासम्भवादित्यर्थः ॥ ११ ॥
आह—तस्मिन्नायतने प्रतिवसता किमा देहपातादनिर्गच्छतैव
स्थेयं ध्यानैकनिष्ठेन शिलावद्, आहोस्वित् दृष्टोऽस्यायतनान्निर्गमः
भस्मभैक्ष्योदकार्जनादिनिमित्तं, ग्रामादिप्रवेशो वा ? । उच्यते—दृष्टः ।
यस्मात्—
मूत्रपुरीषं नावेक्षेत ॥ १२ ॥
अत्र मूत्रं च पुरीषं च मूत्रपुरीषम् । चार्थे द्वन्द्वसमासः ।
अत्र मूत्रं नाम—यदेतदुदरपर्युषितं निस्सरति बहिः स्रवति तन्मूत्रम् ।

मोचनान्मूत्रम् । मूत्रत्वाभिसम्बन्धाद्धि मूत्रं; लोकादिप्रसिद्धमित्यर्थः ।
पुरीषं नाम—यदेतत् पीतखादितावलीढानामाहारविशेषाणामध्यात्मिकेन
अग्निना परिपक्कमपानेन स्खलति तत् पुरीषम् । पुरान्निर्गतत्वात्
पुरीषत्वाभिसम्बन्धाद् वा पुरीषं, लोकादिप्रसिद्धमित्यर्थः । नकारो
दर्शनप्रतिषेधे । न द्रष्टव्यम् इत्यर्थः । अव इति अपवर्जनं नाम-
प्रतिषेधे जातिग्रहणेन्द्रियान्तरप्रतिषेधे चेत्यर्थः । ईक्ष दर्शने । यदेतन्निजं
बुद्धीन्द्रियं चक्षुरनेन चक्षुषा अनया बुद्ध्या मनुष्यादीनां मूत्रपुरीषं
न द्रष्टव्यम् । न तु गवादीनामित्यर्थः ॥ १२ ॥
आह—किं मूत्रपुरीषसन्दर्शनमात्रमेवास्य प्रतिषिध्यते ? ।
उच्यते—न । यस्मादाह—
स्त्रीशूद्रं नाभिभाषेत् ॥ १३ ॥
अत्र स्त्री च शूद्रश्च स्त्रीशूद्रम् । चार्थे द्वन्द्वसमासः । अत्र
स्त्री नाम सेयं लोकप्रसिद्धा स्तनजघनकेशवती हावभावविलासयुक्ता
पुरुषभावस्वभाविका दिव्या मानुषा अतिरतिरसो विषयमूर्तिरिति
कृत्वा प्रतिषिध्यते । अनुभाषणपूर्विका चास्याः प्राप्तिर्भविष्यतीत्यतः
स्त्री नाभिभाषितव्येत्यर्थः । शूद्रो नामायं लोकादिप्रसिद्धस्त्रिवर्ण-
परिचारकः । शोचनाद् द्रोहाच्च शूद्रः । स खल्वदयालुरिति
कृत्वा प्रतिषिध्यते । किमर्थम् ? । तेनाक्रुष्टश्चाभिहतश्च वा
क्रुद्धस्तद्वधार्थं प्रवर्तते । अतो जातिज्ञानतपःश्रुतहानिर्भवति ।
सूचिते चावमानाद्यभावेऽवमानाद्यभावात् सूचितैर्द्वयोरभावः (?) ।
१. मनुस्मृतिः ४—७७.

प्रथमोऽध्यायः । १७
अंकलुषसूत्रे (अ० १, सू० १८) चास्य दोषनिर्देशं करिष्यामः ।
नकारो भाषणप्रतिषेधे । नाभिभाषितव्यमित्यर्थः । अभिशब्दः
प्रसङ्ग इति । प्रतिषेधे जातिग्रहणे चेतरप्रतिषेधे चेत्यर्थः । भाष
व्यक्तायां वाचि । यदेतत् कर्मेन्द्रियं वाग् अनया वाण्या इति ।
अतः स्त्रीशूद्रं नाभिभाषितव्यमित्यर्थः ॥ १३ ॥
आह—नावेक्षेन्नाभिभाषेदित्युक्तेऽथ किमनेन साधकेनान्धमूक-
वदवस्थातव्यमिति ? । उच्यते—न । यस्मादाह—
यद्यवेक्षेद् यद्यभिभाषेत् ॥ १४ ॥
अत्र यदि यदि इत्याशङ्कायाम् । नाभिभाषेदिति वचना-
न्निषिद्धेऽप्यर्थे गुर्वर्थमात्मार्थं वा भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादीन्
प्रविष्टस्य विण्मूत्रयोः स्त्रीशूद्रयोश्च दर्शनमभिभाषणं च भविष्यतीति
कृत्वा । अत एतदुक्तं सर्वज्ञेन भगवता यद्यवेक्षेद् यद्यभिभाषेद् इति ।
अवश्यं भवेदित्यर्थः ॥ १४ ॥
आह—दृष्टे चाभिभाषिते चोपहतेन निर्घातनं किं कर्तव्यम् ? ।
तदुच्यते—उपस्पर्शनम् । यस्मात्—
उपस्पृश्य ॥ १५ ॥
अत्र उप इत्यभ्युपगमे । अभ्युपगमनेन कलुषमतिनेत्यर्थः ।
स्पृश्य इति भस्मद्रव्यगात्रसंयोजनमेव । उपस्पृश्येति स्नानपर्यायः ।
सचैलोदकस्पर्शनवत् । स च भस्मना कर्तव्यः, नाद्भिः । कस्मात् ? ।
पूर्वोत्तरव्याघातात् । स्नानस्याप्रसङ्गाच्च । उपस्पृश्येति निष्ठा ॥ १५ ॥

आह—उपस्पृश्य यदि कलुषं न क्षीणं स्यात्, ततो निर्घातनं
किं कर्तव्यम् ? । तदुच्यते—साकाङ्क्षत्वान्निष्ठाशब्दस्य प्राणायामः
कर्तव्यः । यस्मादाह—
प्राणायामं कृत्वा ॥ १६ ॥
अत्र प्राणो नाम—य एष मुखनासिकाभ्यां निस्सरति वायुरेष
प्राणः । तस्य आयामो निग्रहो निरोधः स प्राणायामः । स च
पुरुषवृत्तिर्द्रष्टव्यः । कस्मात् ? । ज्ञानेच्छाप्रयत्नपूर्वकत्वात् प्राणायामस्य
च । एकोद्घातो द्विरुद्धातो वा । तथा विंशतिमात्रश्चतुर्विंशतिमात्र-
स्त्रिशन्मात्रो वा । मात्रा त्वक्षिनिमेषकालः । स यथाशक्ति यथाबलं
कर्तव्यः । तस्मादुपस्पृश्य पद्मकस्वस्तिकोपस्थाञ्जलिकाधर्चन्द्रपीठकदण्डा-
यतसर्वतोभद्रादीनामन्यतमेनासनबन्धेन प्राङ्मुख उदङ्मुखो वा
उपविश्यैतान्यङ्गानि कृत्वा ग्रीवामुन्नाम्य पूरणपूर्वको वा रेचकपूर्वको
वा तावत् कर्तव्यो यावन्निगृहीता वायवो, ध्यानीभूतश्च भवति । तत्र
ध्यानीभूतो नाम यदा दन्तिवदन्तःशरीरं पूर्णं भवति । निगृहीतानां
तु लक्षणं—यदा कूर्मवदन्तःशरीरे उच्छ्वासप्रत्युच्छ्वासा वर्तन्ते स्वच्छे-
न्द्रियश्च भवति, तदा मन्तव्या निगृहीता वायव इति । ततः
शनैः शनैर्मोक्तव्या नासिकया, यथोत्पलपत्रमपि नासापुटस्थं न
कम्पयति । तदत्र प्रभ्राँ³क्रान्तौ क्रमेणाक्रमितव्यः, अन्तर्भावेऽन्तरे
१. उद्घातः—Breathing exercise.
२. 'इयं हि निर्वृतिः पूर्वा संसारादियमुत्तरा' इति बुद्धचरिते.
३. Health restoration.

प्रथमोऽध्यायः । ३९
वायवो भावयितव्याः । अन प्राणने । आङिति आसनबन्ध-
निभृतनिगृहीतकलुषक्षपणविसर्गादिमर्यादामधिकुरुते । यमु बन्धने ।
बन्धयितव्याः । डुकृञ् करणे द्रष्टव्यः । त्वा इति कर्मनिष्ठायाम् ।
विच्छेदवदित्यर्थः ॥ १६ ॥
आह—अथ कृते प्राणायामे यदि कलुषं न क्षीणं स्यात्
ततोऽनेन किं कर्तव्यम् ? । तदुच्यते—जप्यम् । यस्मादाह—
रौद्रीं गायत्रीं बहुरूपीं वा जपेत् ॥ १७ ॥
अत्र त्वाशब्दसामर्थ्याद् गम्यते प्राणसंयमेन समं जप्यं
कर्तव्यम् । उपस्पर्शनवत् । तस्मादत्र रौद्री नाम तत्पुरुषा । रौद्री
च कस्मात् ? । रुद्रस्योपस्थापकत्वाद् रौद्री । रुद्रो वास्यां
चिन्त्यते, रुद्रप्रापकत्वाद् वा रौद्री । आह—सद्योजातादि-
बहुप्रकारा, तत्र का सा रौद्री ? । तदुच्यते—गायत्री ।
अत्र या रौद्री सा गायत्री । गायत्री च कस्मात् ? । गीता
गातारं त्रायत इति । गायत्रे वा छन्दसि वर्तत इति गायत्री ।
अत्र रौद्रीग्रहणाद् वैदिक्यादिगायत्रीप्रतिषेधः । इह तु गायत्री-
ग्रहणात् सद्योजातादीनां प्रतिषेधः । गायत्रीमिति कर्म । बहुरूपी
नामाघोरा । बहुरूपी च कस्मात् ? । बहुरूपस्योक्तपरिग्रहेष्वाकारेषु
वर्तत इति बहुरूपी । बहुरूपो वा अस्यां चिन्त्यत इति, बहु-
रूपप्रापकत्वाद् बहुरूपी । बहुरूपीमिति कर्म । वा इति विकल्पे ।
उभयोरपि ब्रह्मत्वम् उभयोरपि तुल्यार्थसाधकत्वम् उभे अपि
महेश्वरपरिगृहीते इत्यत एकामनेकां वा उपस्पृश्य जपेदिति मानसी
क्रियेत्यर्थः ॥ १७ ॥

४० सभाष्य पाशुपतसूत्रे
आह—उपस्पर्शनप्राणायामजप्याधिकृतस्य का कार्यनिष्पत्तिः ? ।
तदुच्यते—अकलुषत्वम् । यस्मादाह—
अकलुषमतेः ॥ १८ ॥
इति । अत्र अकलुषा यस्य मतिः सोऽयम् अकलुषमतिः ।
बहुव्रीहिसमासः । अत्राकारः कलुषप्रतिषेधे । भावकालुष्यमेवात्र
कालुष्यम् । कथं गम्यते ? । प्राक्सिद्धत्वात् । इह च
पुरस्तादुक्तम् । नावेक्षेद् नाभिभाषेद् (अ० १, सू० १२ & १३)
इत्युक्ते अर्थादापन्नं दृष्टे चाभिभाषिते च द्वेषेच्छाक्रोधा उत्पद्यन्ते ।
ते चोत्पन्ना मतावभिव्यज्यन्ते । कालतिलकादिदर्शनवत्¹ ।
अभिव्यक्तेश्चोच्यते कलुषितोऽहं व्याहतोऽहं मलिनीकृतोऽहमिति ।
अतो द्वेषेच्छाक्रोधनिमित्तत्वान्मूत्रपुरीषस्त्रीशूद्रप्रतिषेधः क्रियते । यदा
त्वेते द्वेषादयो भावा बीजक्षये² सति नोत्पद्यन्ते, तदा परं
भावशौचं प्रत्यवगन्तव्यम् । कलुषमतेरिति । नैमित्तिकं च
कलुषं । न च निमित्तानित्यत्वान्नमित्तिकं नित्यं भवति ।
बीजक्षयेऽङ्कुरवत् । न च यत्रैव कलुषमुत्पद्यते तत्रैवो पस्पर्शनादीनि
कर्तव्यानि । आयतने तु कर्तव्यानि । अथापि कलुषमुत्पन्नं
प्रध्वस्तं स्यात्, तथापि तदर्थं न कर्तव्यानि । यदा तु तदव-
स्थितं- संभवति शिरोरोगादिवत् तदा कर्तव्यानि । अत्र मतिरिति
बुद्धिरित्यनर्थान्तरम् । अत्रापि करणव्यपदेशेनात्मशौचं व्याख्यायत
इत्यर्थः ॥ १८ ॥


१. Black skin diseases.
२. 'तच्चाकलुषत्वं द्विविधम्—परमपरं च । तत्र कलुषत्वबीजसद्भावेऽप्युत्पन्नकलुषत्व-
निरोधि यावदनागतं कलुषं नोत्पद्यते तावत्कालं यदकलुषत्वं तदपरम् । यद्बीजक्षयादत्यन्त-
निमित्तसद्भावेऽपि कलुषं नोत्पद्यते तत् परम्.' गणकारिकाव्याख्या page 6.

आह—अकलुषमतिना साधकेन किं कर्तव्यम् ? । तदुच्यते—
चरितव्यम् । यस्मादाह—
चरतः ॥ १९ ॥
अत्र चरतः इति धर्मार्जनमधिकुरुते । भैक्ष्यचरणवत्
तपश्चरितव्यं, विहर्तव्यं तपसोऽर्जनं कर्तव्यं, न स्थेयमित्यर्थः ।
चरत इति वर्तमानकालः ॥ १९ ॥
अकलुषमतेश्चरतो वा अस्य का कार्यनिष्पत्तिः ? । तदुच्यते—
ततोऽस्य योगः प्रवर्तते ॥ २० ॥
अत्र ततः इति चर्यापदेशे । ततः चर्याभिनिवेशादनन्तरं
तज्जन्यधर्मादित्यर्थः । अस्य इति साधकापदेशे । योऽयमकलुष-
मतिश्चरति तस्येत्यर्थः । आह—किं भवतीति ? । तदुच्यते—योगः
प्रवर्तते । अध्ययनध्यानादिलक्षणः क्रियायोगश्चरतः प्रवर्तत इत्यर्थः ।
अत्रात्मेश्वरसंयोगो योगः प्रत्येतव्यः । प्र इति आदिकर्मणि, आरम्भे
भवति । यदा अकलुषमतिश्चरति तदा प्रवर्तत इत्यर्थात् । तत्र यतः
प्रवर्तते ? । विषयेभ्यः । प्रत्याहृतचित्तस्य यत् प्रवर्तते तद्योगः (१) ।
यथा प्रवर्तते ? । क्रमशः । येन प्रवर्तते ? । तपसा प्रवर्तते । (यस्य प्रवर्तते) ? ।
आत्मनः साधकस्य । यस्मिन् प्रवर्तते ? । योऽयमात्मन्यात्मभावः,
स महेश्वरे प्रवृतेत इत्यर्थः ॥ २० ॥
एवं यस्माद् द्रव्यावस्थानकालदेशक्रियाप्रयोगोच्चावचप्रयोजनयम-
नियमवृत्तित्सवत्यर्थप्राणायामप्रत्याहारनिमित्तप्रतिषेधसंशयनिर्यातनशौच-
नियोगफलोपायाश्च व्याख्याताः, अतोऽत्रायतनप्रकरणं समाप्तम् ॥
6

४२ सभाष्ये पाशुपतसूत्रे
अत्राह—किं प्रयोजननिष्ठं तन्त्रम् ? । उच्यते—न । योग-
निष्ठम् । यस्मादाह—युक्तोत्तरे सत्यपि पदार्थवैलक्षण्ये रङ्गपताकादिव-
च्छिष्यप्रलोभनार्थमिदमारभ्यते—//
दूरदर्शनश्रवणमननविज्ञानानि चास्य प्रवर्तन्ते ॥ २१ ॥
अत्र दूरं नाम यदेतद् दर्शनाद्यं विकरणान्तं माहेश्वरमैश्वर्यम्
अनेन कदाचित्प्राप्तपूर्वकं, तस्मिंस्तत्प्राप्तौ च । दर्शनादिष्वा-
धिकारिकोऽत्र दूरशब्दो द्रष्टव्यः । तत्प्राप्तिश्च योगप्रवृत्ति(व?)तः ।
आह—यद्येवं सूत्रतोऽभिधीयन्तां दर्शनादयः । तदुच्यन्ते ।
(दर्शनम् १) । दर्शनम् इत्यत्रापिच नस्त्रिकं चिन्त्यते । द्रष्टा दर्शनं
दृश्यमिति । अत्र द्रष्टा सिद्धः । दर्शनमस्य सिद्धिः ज्ञानम् ।
द्रष्टव्यानि रूपाणि । तत् कृत्स्नेषु विषयेषु समासविस्तरविभाग-
विशेषतश्च दर्शनं प्रवर्तत इत्यर्थः । तथा श्रवणम् इत्यत्रापि
नस्त्रिकं चिन्त्यते । श्रोता श्रवणं श्रव्यमिति । तत्र श्रोता सिद्धः ।
श्रवणमस्य सिद्धिर्ज्ञानम् । श्रव्याः शब्दाः । तदस्य सिद्धस्य
श्राव्येष्वर्थेषु समासविस्तरविभागविशेषतश्च श्रवणं प्रवर्तत इत्यर्थः ।
तथा मननम् इत्यत्रापिच नस्त्रिकं चिन्त्यते । मन्ता मननं
मन्तव्यमिति । अत्र मन्ता सिद्धः । मननमस्य सिद्धिर्ज्ञानम् ।
मन्तव्यानि परचित्तानि । देवमनुष्यतिर्यग्योनीनां धर्मार्थकाममोक्ष-
चित्तानां मन्ता भवतीत्यर्थः । *(तथा विज्ञानम् इत्यत्रापि नस्त्रिकं
चिन्त्यते । विज्ञाता विज्ञानं विज्ञेयमिति । तत्र विज्ञाता सिद्धः ।
१. दर्शन-श्रवण-मनन-विज्ञान-सर्वज्ञत्व-मनोजवित्व-कामरूपित्व-विकरणत्वान्यष्ट.

  • Few lines are missing here.

प्रथमोऽध्यायः । ४३
विज्ञानमस्य सिद्धिर्ज्ञानम् । विज्ञेया वृत्तयः । अस्य सिद्धस्य
प्रवर्तन्ते स्वतः प्रादुर्भवन्तीत्यर्थः)
अस्य ज्ञानमस्ति नेति ? । उच्यते—अस्ति । यस्मादाह—
सर्वज्ञता ॥ २२ ॥
अत्रोक्तेषु दृश्यश्रव्यादिषु च अशेषेषु सिद्धेश्वरपश्वादिषु निर्विशेष-
वाची सर्वशब्दो द्रष्टव्यः । ज्ञाता इत्यत्रापिच नस्त्रिकं चिन्त्यते । ज्ञाता
ज्ञानं ज्ञेयमिति । तत्र ज्ञाता सिद्धः । ज्ञानमस्य सिद्धिर्ज्ञानम् ।
ज्ञेयं कार्यं कारणं सिद्धाश्चेति । तस्मादेका ज्ञानशक्तिरपरिमितेन
ज्ञेयेनानेकेनानेकधोपचर्यते । स्फटिकादित्यवच्चास्य सर्वतः प्रवर्तत
इत्यर्थः ॥ २२ ॥
आह—किमयं सिद्धो ज्ञानमात्रसन्तुष्टः पङ्गुवद् , उत क्रिया-
शक्तिरप्यस्ति नेति ? । उच्यते—अस्ति । यस्मादाह—
मनोजवित्वम् ॥ २३ ॥
अत्रागन्तुकत्वात् सर्वज्ञानशक्तिरुक्ता । न तु ऋषित्वविप्रत्व-
(अ० ५, सू० २७)वदित्यर्थः । (यस्मात् ?) अत्र मनोजववदित्येवं प्राप्ते
समानोपमानत्वाद् मनोजवित्वम् इत्युक्तम् । मनोजववत् । आह—
१. सूक्ष्मंव्यवहितविप्रकृष्टाशेषचाक्षुषस्पर्शादिविषयं ज्ञानं दर्शनम् । अशेषशब्द-
विषयं सिद्धिज्ञानं श्रवणम् । समस्तचिन्ताविषयं सिद्धिज्ञानं मननम् । निरवशेषशास्त्रविषयं
मन्त्रतोऽर्थतश्च सिद्धिज्ञानं विज्ञानं, खशास्त्रं येनोच्यते ।', २. 'उक्तानुक्ताशेषार्थेषु
समासविस्तरविभागविशेषतश्च तत्त्वव्यासदोदितसिद्धिज्ञानं सर्वज्ञत्वम् ।' इति सर्व-
दर्शनसङ्ग्रहे.

४४० सभाष्ये पाशुपतसूत्रे
कोऽर्थः सूत्रस्य ? । उच्यते—यादृग् मनसो जवित्वमाशुकारित्वम्
ईदृशमस्य सिद्धस्य कर्तृत्वे शीघ्रत्वम् । न चास्य प्रजापतिवत्
तपोनिमित्तत्वाद् भावोत्तरा प्रवृत्तिः । किन्तु भावस्य बलीयस्त्वात्
प्रवृत्तेरुत्पन्नस्वभावः, करोमीति कृतमेव भवति । विनाशयामीति
विनष्टं वा । कस्मात् ? । दृक्क्रिययोरप्रतीघातत्वात् । त्वमिति भाव-
निर्देशाद् गम्यते वित्तमस्य शक्तिः सामर्थ्यम् । ऐश्वर्यमीदृश-
मित्यर्थः' ॥ २३ ॥
आह—किमस्य सिद्धस्य कर्तव्यं, करणं, कुतो वा करोति ? ।
तदुच्यते--
कामरूपित्वम् ॥ २४ ॥
कामरूपी इत्यत्रापिच तत्त्रिकं चिन्त्यते । कामी कामः
काम्यमिति । तत्र कामी सिद्धः । कामोऽस्येच्छा । काम्यानि
रूपाणि । कथम् ? । कमु इच्छायां भवति । रूपाणि यावन्ति
यादृशानि चेच्छति तावन्ति तादृशानि च करोति । आत्मायत्तानि
चास्य रूपकरणानि पृथिव्यादीनि । विभुत्वाच्च करणानां यत्र
यत्र रूपाण्यभिनिर्वर्तयति तत्र तत्र चास्य बुद्ध्यादीनां करणानां
वृत्तिलाभो भवति । चक्षुरादिवद् दृष्टान्तात् । नाधिष्ठाता इति चेत् ? ।
तच्च न । कस्मात् ? । यस्मादाह—रूपीति । अत्र रूपाण्यधि-
तिष्ठतीति रूपी । दण्डिवत् । रूपिवचनाच्च सर्वेषामेव रूपाणां
१. 'निरतिशयं शीघ्रकारित्वं मनोजवित्वम्'. गणकारिकाव्याख्या page 10.
२. See तैत्तिरीयोपनिषत् प्र०-३, अनु० १०.

प्रथमोऽध्यायः । ४५
युगपदेवाधिष्ठाता भवति । विभुत्वादभिन्नो महेश्वरात् । इदं च
रुद्रसायुज्य(अ० ५, सू० ३३)निर्देशाद् गम्यते । (त्वमिति भाव-
निर्देशाद् गम्यते) वित्तमस्य शक्तिः सामर्थ्यम् । ऐश्वर्यमीदृशमित्यर्थः ।
॥ २४ ॥
आह—परिमितैषु कृत्येषु अशक्तिदर्शनात् सन्देहः । अथ
किमयं सिद्धस्तेषां स्वकृतानां रूपाणां संहारे शक्तः, उत
विश्वामित्रवदशक्तः इति ? । उच्यते । यस्मादाह—
विकरणः ॥ २५ ॥
अत्र विः विनाशे विनाकरणे । विकरणो भवति । विशिख-
विरथवत् । करणप्रतिषेधात् कार्यप्रतिषेधः कृतो भवति । कस्मात् ? ।
विशिष्टत्वाद् ग्राहकत्वात् सूक्ष्मत्वाच्च करणानाम् । तस्माद् विकरण
इति कैवल्यम् ॥ २५ ॥
आह—अविशेषाद् इह साङ्ख्ययोगादीनामपि सहैश्वर्येण
कार्यकारणत्यागं कृत्वा कैवल्यनिष्ठा । इहापि च शास्त्रे । कथं
तस्मादविशेषः ? । अथ मतिः निरतिशये मोक्षे नास्ति वैषम्यं,
तथाप्यतिदानादिभिः साध्यसाधननिष्ठातोऽथ विशेषः उच्यते । नाविशेषः।
यस्मादाह—
१. 'कर्मादिनिरपेक्षस्येच्छयैवानन्तरूपकर्तृत्वाधिष्ठातृत्वं कामरूपित्वम्', २. 'सम्भृत-
कायेन्द्रियस्यापि निरतिशयैश्वर्यसम्बन्धित्वं विकरणधर्मित्वम्' गणकारिकाव्याख्या
page 10.

सभाष्य पाशुपतसूत्रे
धर्मित्वं च ॥ २६ ॥
अत्र गुणधर्मेणायं धर्मी भवति । यदेतद् दर्शनाद्यं
विकरणान्तं माहेश्वरमैश्वर्यमस्येशप्रसादात् स्वगुणसंवृत्तं तेनायं
गुणधर्मेण धर्मी भवति । कुतः ? । त्वमिति भावनिर्देशाद् गम्यते ।
ऋतेऽपि कार्यकारणे ज्ञाता कर्ता च भवति । ततश्च कैवल्याद्याः
सर्वानिष्ठा विशेषिता भवन्ति । चशब्दोऽत्र ज्ञानक्रियाशक्ति-
समारोपणार्थः । एवमत्रास्य सिद्धस्य कामरूपित्वविकरणत्ववचनात्
स्वकृतेषु रूपेषु प्रभुत्वं विभु(त्वं) गुणधर्मित्वं च व्याख्यातम् ।
एतद्युक्तोत्तरे प्रसादाद् गुणाः प्रवर्तन्त इत्यर्थः ॥ २६ ॥
अत्रेदमाधिकारिकमैश्वर्यप्रकरणं परिसमाप्तमिति ॥
आह—किं परकृतेष्वपि देवमनुष्यतिर्यग्योनिरूपेष्वस्य सिद्धस्य
प्रभुत्वं विभुत्वं चास्ति नेति ? । उच्यते—अस्ति । यस्मादाह—
सर्वे चास्य वश्या भवन्ति ॥ २७ ॥
अत्र सर्वे निरवशेषाः पशुधर्माण इत्यर्थः । चशब्दः स्वकृत-
परकृतरूपसमुच्चयार्थः । परकृतेष्वपि देवादिरूपेषु प्रभुत्वं विभुत्वं
चास्तीति । अस्य इति सिद्धस्येत्यर्थः । वश्याः विधेयाः ।
वशवर्तिनश्च भवन्तीत्यर्थः। भवन्ति इति भूतार्थवादो निस्संशयम् * ॥ २७ ॥
(आह—किमयं सिद्धस्तेषां कदाचिद् वश्यो भवति नेति ? ।
उच्यते— न । यस्मादाह--

  • Seems few lines are missing here.

प्रथमोऽध्यायः । १७
सर्वेषां चावश्यो भवति ॥ २८ ॥
अत्रापि सर्वशब्दः पशुष्वेव । सर्वेषाम् इति न्यूनपरिग्रहे ।
चशब्दोऽभ्यधिकत्वे । अभ्यधिक उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ।
अवश्य इति । अकारो भूतपूर्वं वश्यत्वं प्रतिषेधयति । भवति इति
भूतार्थवादो निस्संशयम् । ) यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वेषां
शक्तेरवश्यो भवतीत्यर्थः ॥ २८ ॥
आह—किं स्वशक्त्याध्याक्रान्ता वश्या भवन्ति ? आहोस्विद्
धर्ममर्यादां रक्षन्ति गुरुशिष्यवत् ? । गुरोः शक्तः शिष्यो नाध्या-
क्रान्तः । यस्मादाह—
सर्वांश्चाविशति ॥ २९ ॥
अत्रापि सर्वशब्दः पशुष्वेव निरवशेषवाची द्रष्टव्यः । 'चशब्दः
पूर्वोक्तसमुच्चये । न केवलमस्य ते वश्याः, किं त्वावेश्याश्चेति ।
अत्र आङ् इति आवेशनमर्यादामधिकुरुते । विश प्रवेशने । स
तस्य ज्ञानक्रिययोर्विभुत्वेऽपि शक्तिसंयोगादाविश्य प्रत्ययलोपं कर्तुं
समर्थो भवतीत्यर्थः ॥ २९ ॥
आह—किमयं सिद्धस्तेषां कदाचिदावेश्यो भवति नेति ? ।
उच्यते—न । यस्मादाह—
सर्वेषां चानावेश्यो भवति ॥ ३० ॥
अत्रापि सर्वशब्दः पशुष्वेव । सर्वेषाम् इति न्यूनपरिग्रहे ।
चशब्दोऽभ्यधिकत्वे । अभ्यधिक उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ।

The text on this page is extremely faded, low-contrast, and largely illegible due to severe bleed-through/overexposure. Below is the transcription of the line layout with the few discernible fragments and verse markers:

······
······
······ ॥ ६० ॥
······
······
······
······
······
······
······
······
······
······
······
······
······
······
······
······
······
······ ॥ ६१ ॥
······

(Note: The page is severely washed out/faint, rendering individual Sanskrit/Devanagari characters too indistinct for reliable continuous reading.)

४८ सभाष्ये पाशुपतसूत्रे
अनावेश्य इति । अकारो भूतपूर्वमावेश्यत्वं प्रतिषेधयति। अनावेश्यधर्मा
भवति । न व्याधिशेषवदवस्थानम् । भवति इति भूतार्थवादो निस्संशयम् ।
यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वेषां चानावेश्यो भवतीत्यर्थः
॥ ३० ॥
आह—किमावेशनमात्र एव शक्तो यक्षरक्षःपिशाचादिवद्,
उत प्राणैरपि विप्रयोगं यातनाभिश्च संयोगं कर्तुं शक्तो भवतीति ? ।
उच्यते—शक्तः। यस्मादाह—
सर्वे चास्य वध्या भवन्ति ॥ ३१ ॥
अत्रापि सर्वशब्दः पशुष्वेव निरवशेषवाची द्रष्टव्यः । चशब्दः
समुच्चये । न केवलमस्य ते वश्याः आवेश्याश्च, किन्तु वध्याश्चेति ।
अस्य इति सिद्धापदेशे । वध्या इति । वध प्राणविप्रयोगे
यातनायां च । प्राणैरपि विप्रयोगं यातनाभिश्च संयोगं कर्तुं
समर्थो भवतीत्यर्थः । भवन्ति इति भूतार्थवादो निस्संशये । यदा
गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वे चास्य वध्या भवन्तीत्यर्थः
॥ ३१ ॥
आह—किमयं सिद्धस्तेषां कदाचिद् वध्यो भवति नेति ? ।
उच्यते—न । यस्मादाह—
सर्वेषां चावध्यो भवति ॥ ३२ ॥
अत्रापि सर्वशब्दः पशुष्वेव । सर्वेषाम् इति न्यूनपरिग्रहे ।
चशब्दोऽभ्यधिकत्वे । अभ्यधिकः उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ।