सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 43, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 43

प्रथमोऽध्यायः । १७
अंकलुषसूत्रे (अ० १, सू० १८) चास्य दोषनिर्देशं करिष्यामः ।
नकारो भाषणप्रतिषेधे । नाभिभाषितव्यमित्यर्थः । अभिशब्दः
प्रसङ्ग इति । प्रतिषेधे जातिग्रहणे चेतरप्रतिषेधे चेत्यर्थः । भाष
व्यक्तायां वाचि । यदेतत् कर्मेन्द्रियं वाग् अनया वाण्या इति ।
अतः स्त्रीशूद्रं नाभिभाषितव्यमित्यर्थः ॥ १३ ॥
आह—नावेक्षेन्नाभिभाषेदित्युक्तेऽथ किमनेन साधकेनान्धमूक-
वदवस्थातव्यमिति ? । उच्यते—न । यस्मादाह—
यद्यवेक्षेद् यद्यभिभाषेत् ॥ १४ ॥
अत्र यदि यदि इत्याशङ्कायाम् । नाभिभाषेदिति वचना-
न्निषिद्धेऽप्यर्थे गुर्वर्थमात्मार्थं वा भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादीन्
प्रविष्टस्य विण्मूत्रयोः स्त्रीशूद्रयोश्च दर्शनमभिभाषणं च भविष्यतीति
कृत्वा । अत एतदुक्तं सर्वज्ञेन भगवता यद्यवेक्षेद् यद्यभिभाषेद् इति ।
अवश्यं भवेदित्यर्थः ॥ १४ ॥
आह—दृष्टे चाभिभाषिते चोपहतेन निर्घातनं किं कर्तव्यम् ? ।
तदुच्यते—उपस्पर्शनम् । यस्मात्—
उपस्पृश्य ॥ १५ ॥
अत्र उप इत्यभ्युपगमे । अभ्युपगमनेन कलुषमतिनेत्यर्थः ।
स्पृश्य इति भस्मद्रव्यगात्रसंयोजनमेव । उपस्पृश्येति स्नानपर्यायः ।
सचैलोदकस्पर्शनवत् । स च भस्मना कर्तव्यः, नाद्भिः । कस्मात् ? ।
पूर्वोत्तरव्याघातात् । स्नानस्याप्रसङ्गाच्च । उपस्पृश्येति निष्ठा ॥ १५ ॥