सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 37, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 37

प्रथमोऽध्यायः । ३१
“कृत्स्नां महीं पर्यटतः सशैलवनकाननाम् ।
अपमानात् परं नास्ति साधनं मनुरब्रवीत् ॥”
इत्येवं शौचं तन्त्रे सिद्धम् ।
९. तथा आहारलाघवं तन्त्रे सिद्धम् । कस्मात् ? ।
भैक्ष-(अ० ५, सू० १४) उत्सृष्ट-(अ० ४, सू० ७) यथालब्धोपदेशात्
(अ० ५, सू० ३२) । स्वल्पमपि अनुपायतोऽर्जितमलघु, प्रभूतमपि
उपायतोऽर्जितं लघ्वेव द्रष्टव्यम् । उक्तं हि—
“चरेन्माधुकरीं वृत्तिं वल्मीकनिचयोपमाम् ।
अक्रुद्धश्चाप्रहृष्टश्च तपस्तद्धि सनातनम् ॥
यश्चरेत् सर्वभोज्येषु भैक्ष्यं च व्यवहारतः ।
भुञ्जीत प्रतिगृह्णीयात् प्रशस्तानां स्वकर्मसु ॥
चातुर्वर्ण्यं चरेद् भैक्ष्यं पतितांस्तु विवर्जयेत् ।
पयश्चापञ्च भैक्ष्यं च सममेतन्न संशयः ॥
भैक्ष्यशेषं तु यो भिक्षुर्यदि किञ्चित् समुत्सृजेत् ।
ग्रासे ग्रासे तु कर्तव्याः प्राणायामास्त्रयस्त्रयः ॥
सन्निधानं न कुर्वीत सर्वावस्थोऽपि योगवित् ।
सन्निधानकृतैर्दोषैर्यतिः सञ्जायते कृमिः ॥
माधूकरमसङ्कल्पं प्राक्प्रवृत्तमयाचितम् ।
तत्तत्कालोपपन्नं च भैक्ष्यं पञ्चविधं स्मृतम् ॥
गृहाद् गृहं पर्यटंस्तु न गृहं परिवर्जयेत् ।
परस्य वचनं श्रुत्वा दुष्टवेश्म विवर्जयेत् ॥
१. 'यदॄच्छया चोपपन्नम्' इति पाठान्तरम्.