पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 36, कुल 166 में से
संदर्भ में पढ़ें३० सभाष्ये पाशुपतसूत्रे
यः स्नानमाचरेन्नित्यमाग्नेयं संयतेन्द्रियः ।
कुलैकविंशमुद्धृत्य स गच्छेत् परमां गतिम् ॥”
एवमन्यत्रापि प्रसिद्धं भस्मना गात्रशौचम् । तस्माद् युक्तं
वक्तुं प्रसिद्धा यमा अहिंसादय इति ।
तथोपस्पर्शनप्राणायामजप्यैः (अ० १, सू० १५-१७) अकलुष-
मतिर्भवतीति भावशौचं तन्त्रे सिद्धम् ।
“भावमन्तर्गतं दुष्टं न स्नानमपकर्षति ।
भावशुद्धिः परा शुद्धिः शेषं शृङ्गारमार्जनम् ॥
मृत्तिकानां सहस्रेण जलकुम्भशतेन च ।
न शुद्ध्यन्ति दुरात्मानः पापोपहतचेतसः ॥
सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः ।
सर्वभूतदया शौचमद्भिः शौचं तु पञ्चमम् ॥
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा ।
प्रतिग्रहे तथारम्भे इन्द्रियाणां च गोचरे ॥”
यस्मादाह—
“सर्वस्वमपि यो दद्यात् कलुषेणान्तरात्मना ।
न तेन धर्मभाग् भवति भाव एवात्र कारणम् ॥
यथा यथा हि पुरुषः कल्याणीं कुरुते मतिम् ।
तथा तथास्य सिध्यन्ति सर्वार्था नात्र संशयः ॥”
इत्येवं भावशौचं तन्त्रे सिद्धम् ।
तथात्मशौचं तन्त्रे सिद्धम् । कस्मात् ? । यस्मादवमानपरिभव-
परिवादाद्यैरपहतपाप्मा भवति (अ० ३, सू० ३—७) इत्यात्मशौचं
तन्त्रे सिद्धम् । यस्मादन्यैरप्युक्तं—