पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
१२८ सभाष्ये पाशुपतसूत्रे
“ आकृतिमपि परिहृत्य ध्यानं नित्यं परे रुद्रे ।
येन प्राप्तं योगे मुहूर्तमपि तत् परो योगः ॥ ”
परमयोग इत्यर्थः ॥ २७ ॥
आह—अथ यथायं वालवन्निष्कलस्तथा किं समानपुरुषः ? ।
तदुच्यते—न । यस्मादाह—तदाप्ययं,
महेश्वरः ॥ २८ ॥
अत्रानाद्यज्ञानद्यतिना (?) ऋषित्वविप्रत्वसंज्ञकेन महता ऐश्वर्येण
महेश्वर इति सिद्धम् । इह तु यदायं वाग्विशुद्धो निष्कलस्तदा किं
समानपुरुषवदनीश्वर इत्यस्य संशयस्य संव्युदासार्थमुच्यते महेश्वर इति ।
यस्मादस्यैश्वर्यं निष्कलस्यापि स्वगुणसद्भावः सतत्त्वं तत्त्वधर्मः ।
तदकृतकत्वं पुरुषचैतन्यवत् । अतस्तदाप्ययं महानेवेश्वरो महेश्वरः ।
तस्मादकृतक एव महच्छब्द इत्यतो महेश्वर इति ।
एवमोङ्कारमिति ध्येयमुक्तम् । ध्येयगुणीकरणमुक्तम् ऋषिविप्रो
महानेष इति । ध्येयावधारणमुक्तं वाग्विशुद्धो निष्कल इति । ध्येय-
शक्तिप्रशंसा चोक्ता महेश्वर इति । एवं यस्मादिन्द्रियजये वर्तते, अतो
वसत्यर्थवृत्तिबलक्रियालाभादयश्च व्याख्याता इति ॥ २८ ॥
अतोऽत्र युक्तं वक्तुं—शून्यागारगुहाप्रकरणं परिसमाप्तमिति ॥
१. “ न खर्धुनी न फणिनो न कपालदाम
नेन्दोः कला न गिरिजा न जटा न भस्म ।
यत्रान्यदेव च न किञ्चिदुपास्महे तद्
रूपं पुराणमुनिशीलितमीश्वरस्य ॥ ”
आचार्यहरिभद्रकृतषड्दर्शनसमुच्चये ; गणकारिकाव्याख्या page 29.
पञ्चमोऽध्यायः । १२९
आह—शून्यागारगुहायां यदा जितानीन्द्रियाणि देवनित्यता च
प्राप्ता भवति, तदा किं तदेव भैक्ष्यं वृत्तिमास्थाय तत्रैवानेना दुःखान्त-
प्राप्तेः स्थेयम् ? । आहोस्विद् दृष्टोऽस्यापि वसत्यर्थो वृत्तिर्बलक्रिया-
लाभाश्चेति ? । उच्यते—दृष्टः । यस्मादाह—
श्मशानवासी ॥ ३०* ॥
आह—शून्यागारगुहामुत्सृज्य प्रयोजनाभावात् श्मशाने
संक्रान्तिरयुक्तेति चेत् ? । तदुच्यते—न । योगन्यासङ्गपरिहारार्थत्वात् ।
इहावस्थानादवस्थानं प्राप्य ब्राह्मणस्य सर्वत्र वसत्यर्थवृत्तिबलक्रिया-
लाभादयोऽयुतसिद्धा वक्तव्याः । तत्रादिधर्मा अप्यस्य तावदायतने
वसत्यर्थः वृत्तिर्भैक्ष्यं बलमष्टाङ्गं ब्रह्मचर्यं क्रियाः स्थानहसिताद्याः
स्नानं कलुषापोहः शुद्धिः ज्ञानावाप्तिः अकलुषत्वं च लाभा इति ।
तथा असन्मान (अ० ४, सू० ९) परिभवोपदेशाद् (अ० ३, सू० ५)
आयतने वसत्यर्थः वृत्तिरुत्सृष्टं बलमकलुषत्वम् इन्द्रियद्वारपिधानं च
क्रिया इन्द्रियाणि पिधाय (अ० ४, सू० ४) उन्मत्तवदवस्थानं पापक्षया-
च्छुद्धिः लाभस्तु कृत्स्नो धर्मस्तुल्येन्द्रियजये वर्तते । तथा वसत्यर्थः
शून्यागारगुहा वृत्तिर्भैक्ष्यं बलं गोमृगयोः सहधर्मित्वं क्रिया अध्ययन-
ध्यानाद्या अजितेन्द्रियवृत्तितापोहः शुद्धिः लाभस्तु देवनित्यता
जितेन्द्रियत्वं चेति । तथेहापि श्मशाने वसत्यर्थः वसन् धर्मात्मा
- 'ऋचम्-...' इत्येकविंशस्य सूत्रस्य सूत्रद्वयकल्पनया तत्र तत्र सूत्रसंख्यायाः सूचित्त्वात् तदनुसारेणेह सूत्रसंख्या निवेशिता ।
१. 'अष्टाङ्गं—१. ग्रहण, २ धारण, ३. ऊह, ४. अपोह, ५ विज्ञान,
६. वचन, ७. क्रिया, ८. यथान्यायाभिनिवेशनम् ।' गणकारिकाव्याख्या page 17.
17
१३० सभाष्ये पाशुपतसूत्रे
यथालब्धमिति वृत्तिः क्रिया स्मृतिः अस्मृत्यपोहः शुद्धिः लाभस्तु
सायुज्यम् । तथोत्तरत्र ऋषिरिति वसत्यर्थः बलमप्रमादः प्रसाद
उपायः दुःखापोहः शुद्धिः गुणावाप्तिश्च लाभ इति । तथोक्तं च—
‘“ पञ्च लाभान् मलान् पञ्च पञ्चोपायान् विशेषतः ।
यस्तु बुध्यति पञ्चार्थे स विद्वान् नात्र संशयः ॥
प्रथमो विद्यालाभस्तपसो लाभोऽथ देवनित्यत्वम् ।
योगो गुणप्रवृत्तिर्लाभाः पञ्चेह विज्ञेयाः ॥
अज्ञानमधर्मश्च विषयाभ्यासः स्थितेरलाभश्च ।
अनैश्वर्यं च मला विज्ञेयाः पञ्च पञ्चार्थे ॥
वासो ध्यानमखिलकरणनिरोधस्तथा स्मृतिश्चैव ।
प्रसाद इति चोपाया विज्ञेयाः पञ्च पञ्चार्थे ॥
वासार्थो लोकश्च शून्यागारं तथा श्मशानं च ।
रुद्रश्च पञ्च देशा नियतं सिद्ध्यर्थमाख्याताः ॥ ”
तस्माद्युक्तमुक्तम् । स एव प्रागुक्तः सम्बन्धः श्मशानवासी इति ।
अत्र श्मशानं नाम—यदेतल्लोकादिप्रसिद्धं लौकिकानां मृतानि शवानि
परित्यजन्ति तत् । शवसम्बन्धात् श्मशानम् । तस्मिन्नाकाशे वृक्षमूले
यथानभिष्वङ्गमर्यादया जितद्वन्द्वेन स्मृतिक्रियानिविष्टेन वस्तव्यम्। वसति-
संयोगात् श्मशानवासी भवति, पुलिनवासिवदित्यर्थः ॥ ३० ॥
आह—किमस्य गोमृगयोः सहधर्मित्वमेव बलम् ? । तदुच्यते—
न । यस्मादाह—
धर्मात्मा ॥ ३१ ॥
अत्र धर्मो नाम—य एष यमनियमपूर्वकोऽभिव्यक्तो माहात्म्यादि-
धर्मः, स पूर्वोक्तः । सोऽस्यात्मनि प्रचितः । तेन धर्मेण धर्मात्मा
भवतीत्यर्थः ॥ ३१ ॥
आह—किमस्य भैक्ष्यमेव वृत्तिः ? । उच्यते—न । यस्मादाह—
यथालब्धोपजीवकः ॥ ३२ ॥
अत्र यथा इति समानार्थे । अम्लादिषु, जितेन्द्रियत्वात् । लब्धम्
आसादितमप्रार्थितमित्यर्थः । उप इति समीपधारणे । तद् यथालब्ध-
मन्नपानं श्मशानादनिर्गच्छता । दिवसे दिवसे जीवनाय स्थित्यर्थं
तदुपजीवन् यथालब्धोपजीवको भवतीत्यर्थः ॥ ३२ ॥
आह—किं जीवनमेव परो लाभ इति ? । उच्यते—न ।
यस्मादाह—
लभते रुद्रसायुज्यम् ॥ ३३ ॥
अत्र लभते विन्दते आसादयतीत्यर्थः । रुद्र इति कारणा-
पदेशे । रुद्रस्य रुद्रत्वं पूर्वोक्तम् । साक्षाद् रुद्रेण सह संयोगः
सायुज्यम् । भावग्रहणमात्मेश्वराभ्यामन्यत्र प्रतिषेधार्थम् । योगस्य
सम्यक्त्वं सायुज्यमिति योगपर्यायोऽवगम्यते । धर्मात्म-(अ० ५,
सू० ३१)वचनादतिगत्यानन्त्यवदित्यर्थः ॥ ३३ ॥
आह—तत् केनोपायेन लभते ?। किमध्ययनध्या(प?)नाभ्यामेव ?।
तदुच्यते--न । यस्मादाह—
१३२ सभाष्ये पाशुपतसूत्रे
सदा रुद्रमनुस्मरेत् ॥ ३४ ॥
अत्र सदा नित्यं सततमप्युच्छिन्नमिति । रुद्रमिति कारणापदेशे ।
रुद्रस्य रुद्रत्वं पूर्वोक्तम् । रुद्रमिति द्वितीया कर्मणि । अनु पृष्ठकर्मक्रियायाम्।
पूर्वोक्तो ध्येयोऽर्थः सततंमनुस्मर्त्तव्यः । स्मृतिः चिन्तायाम् । ऊष्मवदव-
स्थितस्य कर्मणश्च्युतिहेतोः क्षपणार्थं सततंमनुस्मर्त्तव्यः । स्मृतिस्तु
देवनित्यतेत्यर्थः । ततः क्षीणे कर्मणि तदोषहेतुजालमूलविशिष्टस्य
प्रत्यासैक(?)निमित्ताभावात् सायुज्यप्राप्तौ न पुनः संसारः । अत्र
श्लोको निर्वचनः ॥ ३४ ॥
आह—अज्ञानकलुषपापवासनादिप्रसङ्गप्रसरणसम्भवात् सन्देहः ।
(किं) सूक्ष्मवदवस्थिते कर्मणि क्षीणेऽत्यन्तविशुद्धः सायुज्यमासादयति ,
आहोस्विदविशुद्ध इति ? । उच्यते—विशुद्धः । यस्मादाह—
छित्त्वा दोषाणां हेतुजालस्य मूलम् ॥ ३५ ॥
अत्र व्युत्क्रमाभिधानाच्छेदः क्रमशॊ योजनीयः । यन्त्रणधारणा-
त्मकश्छेदो द्रष्टव्यः । किमर्थम् ? । सूक्ष्मवदवस्थितस्य कर्मणः क्षयार्थं
वसत्यर्थादिनिर्देशार्थत्वात् । किञ्च अर्थानामनिर्वचनार्थत्वात् तत्र जप
एव केवलोऽभिहितः । इह तु यत इन्द्रियाणि जेतव्यानि, यो जेता,
यया जेतव्यानि, यथा जेतव्यानि, यत्प्रयोजनं जेतव्यानि, यस्मिंश्च
जिते जितानि भवन्ति, तद् वक्ष्यामः । तथा यस्यात्मवृत्तिरध्ययनध्यान-
स्मरणादि च वक्ष्यामः । तथा यत आत्मा छेत्तव्यः छेत्तारं छेदकरणं
छेदप्रयोजनं छेद्यं च्छित्तिं यस्मिन् छिन्ने छिन्नं भवति, तद् वक्ष्यामः ।
तदुच्यते—छित्त्वा । अत्र छेदो नाम आत्मभावविश्लेषणमात्रम् ।
पञ्चमोऽध्यायः । १३३
विच्छेदवचनाद् गम्यते । त्वा इति शून्यागारगुहावस्थितस्याध्ययन-
ध्यानधारणयन्त्रणादिकं गम्यते । आह—किं तत् ? । केभ्यो वा
छेत्तव्यम् ? । तदुच्यते—दोषाणां हेतुजालस्य मूलम् इति । अत्र
दोषाः शब्दस्पर्शरूपरसगन्धाः। कस्मात् ? । कामार्जनादिमूलत्वात् ।
यस्मादुक्तं—
“कामः क्रोधस्तथा लोभो भयं स्वप्नश्च पञ्चमः ।
रागो द्वेषश्च मोहश्च”
तथा अर्जनरक्षणक्षयसङ्गहिंसादयो दोषाः। अर्जनं नाम प्रतिग्रहजय-
क्रयविक्रयनिर्वेशादिषु वर्णिनां विषयार्जनोपायाः। एतेषु च विषयाणा-
मर्जने वर्ततात्मपीडा परपीडा वा अवर्जनीये भवतः । तत्र यद्यात्मानं
पीडयति, तेन इहैव लोके दुःखी भवति । स्यात् परं पीडयति, तत्रा-
प्यस्याधर्मो दुःखादिफलः संचीयते । तच्च दुःखं नान्योऽनुभवति, कर्तैवा-
नुभवति । अपिच किम्पाकफलोपमा विषयाः । तद्यथा श्रूयते—
“लवणसागरसन्निकर्षे कालयवनद्वीपे किम्पाका नाम विषवृक्षाः।
तत्फलान्यास्वादेनामृतोपमानि च केचिदज्ञानाद् गुडवद् भक्षयन्ति ।
भक्षितानि च तानि मूर्च्छां छर्दिं च जनयन्ति । तत्तीव्रदुःखाभिभूताः
पञ्चत्वमापुः । ”
“श्रुत्वा तु सुहृदां वाक्यं यो नरो ह्यवमन्यते ।
स दह्यते विपाकान्ते किम्पाकैरिव भक्षितैः ॥”
एवं किम्पाकफलोपमा विषयाः सेव्यमानाः सुखं जनयन्ति । परिणामे
संसारे जन्मनिमित्तत्वाद् दुःखानि प्रतिपद्यन्ते । इत्येवं विषयाणा-
मर्जने दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् । तथा-
ऽन्यः कथम् ? । अस्त्वेव विषयाणामर्जने दोषः । स भवतु तेषाम् ।
[Page Header]
१३४ सभाष्ये पाशुपतसूत्रे
न वयं तत् प्रतिषेधयामः । अयं त्वन्यः कष्टो विषयदोषः । कश्चासाविति ? ।
उच्यते—रक्षणदोषः । अर्जितानामप्येषांमवश्यमेवोग्रतायुधेन रक्षा-
विधातव्या । कस्मात् ? । नृपदहनतस्करदायादसाधारणफलत्वात् ।
तत्रात्मपीडा । परपीडायां च यथोक्तः । उक्तं हि—
“ ^१स्वद्रव्यं पुरुषं चोराः ^२स्वमांसं पिशिताशिनः ।
क्लेशयन्ति यथा घोरास्तथाहि विषया नरम् ॥
क्लेशं समनुभुङ्क्ते च विषयाणां परिग्रहात् ।
तेषामेव परित्यागात् सर्वक्लेशक्षयो भवेत् ॥
आत्मदुःखोपघातार्थं त्यागधर्मं समाचरेत् ।
नापरित्यज्य विषयान् विषयी सुखमेधते ॥”
विषयाणामर्जनादौ दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि
कश्चित् । तथा अन्यः कथम् ? । अस्त्वेषा विषयाणामर्जनरक्षणादौ
दोषौ भवतस्तेषाम् । न वयं तौ प्रतिषेधयामः । अयं त्वन्यः कष्टतरो
(दो ?) विषयाणां दोषः । कश्चासाविति ? । उच्यते—क्षयो दोषः ।
अर्जितानां सुरक्षितानामप्येषामवश्यमेवाभ्युपगन्तव्यः (क्षयः) । विषय-
क्षये च पुनर्विषयिणां तीव्रदुःखमभिव्यज्यते । मत्स्यादिवद् यथो-
दकक्षये नदीनां, तद्वत् । तस्मादशोभनम् । उक्तं हि—
“ त्रय एव ह्रदा दुर्गाः सर्वभूतापहारिणः ।
स्त्रियोऽन्नपानमैश्वर्यं तेषु जाग्रथ ब्राह्मणाः ! ॥
नास्ति ज्ञानसमं चक्षुर्नास्ति क्रोधसमो रिपुः ।
नास्ति लोभसमं दुःखं नास्ति त्यागात् परं सुखम् ॥”
१, २. 'सद्रव्यं, समांसम्' इति स्यान्
पञ्चमोऽध्यायः । १३५
इति । एवं विषयाणां क्षयदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां
वा यदि कश्चित् । तथान्यः कथम् ? इति । सन्त्वेते विषयदोषाः ।
अयमन्यतरः कष्टतरो दोषः । कश्चासाविति ? । उच्यते—सङ्गदोषः ।
यदि तावदर्जनं क्रियते रक्षणं च क्षये च पुनः पुनरर्जनं क्रियते रक्षणं
च । यदि सङ्गदोषो न स्यात् । कथम् ? । यावदयमिन्द्रिययुक्तो
विषयानाभिलषति, तावदस्य तृप्तिरुपशान्तिरौत्सुक्यविनिवृत्तिश्च न भवति ।
भूय एव ‘विषयानन्वेष्टुमारभते । ततः पुनरतृप्त्यादयो भवन्ति तद्वत् ।
तस्मादशोभनम् । उक्तं हि—
“ ‘ न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मैव भूय एवाभिवर्धते ॥
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत् तृप्त्यै तस्माद् विद्वान् शमं व्रजेत् ॥ ”
इति । एवं विषयाणां सङ्गदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि
कश्चित् । तथान्यः कथम् ? इति । सन्त्वेते विषयाणामर्जनादयो दोषाः ।
ते भवन्तु तेषाम् । न वयं तान् प्रतिषेधयामः । अयं त्वन्यः कष्टतमो
विषयाणां दोषः । कश्चासाविति ? । उच्यते—हिंसादोषः । शक्यमेतेषां
विषयाणामर्जनादि कर्तुम्, इन्द्रियलौल्यदोषोऽपि भवतु । यदि
हिंसादोषो न स्यात् । कथम् ? । एतेषामेव विषयाणामुपभोगे
वर्तता अवश्यमेव हिंसादिदोषाः कर्तव्याः । कस्मात् ? । नानुपहृत्य
भूतानि विषयोपभोगः शक्यते कर्तुम् । तत्र शब्दानिमित्तं
१. विष्णुपुराणे अंश ४, अ० १०,
[Page Header] १३६ सभाष्य पाशुपतसूत्रे
तावदयं क्रियते । तद्यथा—वीणानिमित्तं खदिरादीन् छिद्यमानान्
दृष्ट्वा तन्तीनिमित्तं वा कांश्चिद्धिंस्यमानान् दृष्ट्वा यदि कश्चिद्
ब्रूयाद् अशोभनोऽयं भूतवधः क्रियते, कदनं कर्म क्रियते*
[स वक्तव्योऽत्र ते न शोभनोऽयम् । यदा भिक्षाप्रदगृहेषु रम्यान्
शब्दान् श्रोष्यसि, तत्र परः परितोषो भविष्यति । तथा] सूत्रादि-
निमित्तं तावद् भूतवधः क्रियते । तद्यथा—कोशकारादीन् वध्यमानान्
दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः कदनं कर्म क्रियते ।
स वक्तव्योऽत्र ते न शोभनोऽयम् । यदा भिक्षद्गृहेषु मृदुतरस्पर्शानि
वासांसि प्राप्स्यसि, तत्र ते परः परितोषो भविष्यति । तथा रूपनिमित्तं
तावद् भूतवधः क्रियते । तद्यथा—अशोकादीन् वृक्षान् छिद्यमानान् दृष्ट्वा
हस्तिनश्च दन्तनिमित्तं वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनो-
ऽयं भूतवधः कदनं कर्म क्रियते । स वक्तव्योऽत्र ते न शोभनोऽयम् ।
यदा भिक्षद्गृहमलङ्कृतकवाटगोपुरं द्रक्ष्यसि, तत्र ते परः परितोषो
भविष्यति । तथा रसनिमित्तं तावद् भूतवधः क्रियते । तद्यथा—
तित्तिरिमयूरवराहादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनो-
ऽयं भूतवधः क्रियते । स वक्तव्योऽत्र ते न शोभनोऽयम् । यदा
भिक्षद्गृहेषु षड्रसमांसप्रकारैर्भोंक्ष्यसे, तत्र ते परः परितोषो भविष्यति ।
तथा गन्धनिमित्तं तावद् भूतवधः क्रियते । तद्यथा—(पञ्च)नखादीन्
वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः कदनं
कर्म क्रियते । स वक्तव्योऽत्र ते न शोभनोऽयम् । यदा भिक्षद्-
गृहेषु सुगन्धान् गन्धान् प्राप्स्यसि, तत्र ते परितोषो भविष्यति ।
एवं—
- Seems few lines are missing.
पञ्चमोऽध्यायः । १३७
“ कामः क्रोधश्च लोभश्च भयं स्वप्नश्च पञ्चमः ।
रागो द्वेषश्च मोहश्च ”
इति । अर्जनरक्षणक्षयसङ्गहिंसादिमूलत्वादतोऽत्र शब्दादयो विषया
दोषाः । दोषाश्च कथम् ? । (दुष) चित्तवैचित्ये । दूषयन्तीति दोषाः ।
दूषयन्ति यस्मादध्ययनध्यानादिनिष्ठं साधकं विचित्तं कुर्वन्तीति दोषाः ।
दोषाणाम् इति षष्ठीबहुवचनम् । आह—किं दोषाणामेव दोषेभ्य
एव वा छेत्तव्यमुक्तम् ? । न । यस्मादाह—हेतुः । अत्र हेतुरधर्मः ।
कस्मात् ? । चित्तच्युतिहेतुत्वात् । यस्मात् तेनाविष्टः साधकोऽध्ययन-
स्मरणादिभ्यश्च्यवतीत्यतोऽत्राधर्मो हेतुः । धर्मस्तु स्थित्यादिहेतुः ।
आह—कस्यायं हेतुः ? । उच्यते—जालस्य । अत्र यदा अधर्मः कूटस्थो-
ऽनारब्धकार्यस्तदा हेतुरित्युच्यते । यदा त्वज्ञानवासनावशाद्वृत्त्या
स्थित्यादिभावमापन्नस्तदा जालाख्यां लभते । कस्मात् ? । जालादिवत्
समूहस्येत्यर्थः (?)। अन्यस्य तन्मयकारणस्याभावात् । जालस्येति षष्ठी
छेदनशेषत्वे वर्तते । अतश्छिन्नमेव भवति । कस्मात् ? । दोषचित्त-
सन्निपातप्रभवत्वाद्धेतुजालयोः । आह—किं प्रतिसम्बन्धि दोषहेतु-
जालसंश्लिष्टं भवति ? । तदा कथमभिलप्यते ? । तदुच्यते—मूलम् ।
अत्र मूलमित्युक्ते कस्येति भवति । दोषचित्तसन्निपातप्रभवत्वाद्धेतु-
जालयोः प्रवृत्तेरित्यतोऽवगम्यते संयोगमूलमेवात्र मूलमिति ॥ ३५ ॥
आह—केनायं छेत्ता मूलच्छेदं करोति ? । तदुच्यते —
बुद्ध्या ॥ ३६ ॥
अन्तःकरणाख्या बुद्धिरित्युक्ता । तया धर्मस्मृतिचोदनादि-
सहितया विद्यागृहीतया बुद्ध्या छेद्यं स्थाप्यं चेत्यर्थः ॥ ३६ ॥
18
१३८ सभाष्ये पाशुपतसूत्रे
आह—किं दोषादिसङ्गतवधादिविश्लिष्टमपि तत् परतन्त्रमुच्यते ? ।
न । यस्मादाह— मूलाख्यायां निवृत्तायां,
संचित्तम् ॥ ३७ ॥
अत्र सम् इति दोषादिविश्लिष्टं स्वयमेव स्वगुणत्वेन परिगृह्यते,
अग्न्युष्णत्ववन्नित्यानुबन्धित्वाच्चेत्यर्थः । आह — किं तद् इति ? । उच्यते—
चित्तम् । अत्र चिती संज्ञाने, चेतयति चिनोति वा अनेनेति चित्तम् ।
चेतयति सुखं दुःखं पदार्थान्, चिनोति धर्माधर्मौ अर्जयतीत्यतः चेतयति
चिनोति वा अनेनेति चित्तम् । चित्तं मनोऽन्तःकरणमित्यर्थः ।
अत्र त्वेतेभ्यो दोषहेतुत्वादिभ्यो युगपच्छेत्तव्यं, विद्यमानेभ्यस्तु क्रमशः
क्षपणमिति ॥ ३७ ॥
आह—छित्त्वा तच्चित्तं किं कर्तव्यम् ? । उच्यते—रुद्रस्थम् ।
यस्मादाह—
स्थापयित्वा च रुद्रे ॥ ३८ ॥
अत्र ष्ठा गतिनिवृत्तौ । चित्तस्य रुद्रादन्यव्यवधानं स्थितिरित्युच्यते ।
त्वा इति इमशानाद्यवस्थस्य स्मृतिकर्मणो निष्ठा । चशब्दः समुच्चये ।
न केवलं छित्त्वा स्थेयं, किन्तु स्थापयितव्यं चेत्यर्थः । रुद्रे इति
कारणापदेशे । रुद्रस्य रुद्रत्वं पूर्वोक्तम् । रुद्र इत्यौपश्लेषिकं सन्निधानम् ।
रुद्रे चित्तमुपश्लेषयितव्यं नान्यत्रेत्यर्थः । एवं विषयेभ्य इन्द्रियाणां
जयः कर्तव्यः । अत्र यो जेता ? , आत्मा । यया जेतव्यानि ? ,
बुद्ध्या । यथा जेतव्यानि ? , क्रमशश्च । यत्प्रयोजनं जेतव्यानि ? ,
चित्तस्थित्यर्थम् । यस्मिंश्च जिते जितानि भवन्ति ?, चित्तं (? ते) इत्येतदपि
व्याख्यातम् । एवं जपयन्त्रणधारणात्मकच्छेदादिष्वपि योज्यम् ।
तथान्तःकरणवृत्तिमास्थाय कालविशेषनिमित्तरश्मिमणिदीपवत्, तथात्म-
वृत्तिरध्ययनध्यानस्मरणादीनि चित्तस्थितिश्च व्याख्याता (?)। श्लोको
निर्वचनः ॥ ३८ ॥
आह—कार्यकरणं च तच्चित्तस्थितिसमकालमेव रुद्रे स्थितानि
तानि युक्तानि (?) । अथ किं तान्येव युक्तस्य लक्षणानि इति ? ।
उच्यते—न । यस्मादाह—
एकः क्षेमी सन् वीतशोकः ॥ ३९ ॥
अत्र धर्माधर्मयोर्वृत्त्योरुपरमे अवसितप्रयोजनत्वात् पक्वफलवत्
सर्पकञ्चुकवद् गतप्रायेषु कार्यकरणेषु रुद्रे स्थितचित्तो निष्कल एक
इत्यभिधीयते । तथा योगव्यासङ्करेऽधर्मे निवृत्ते दोषादिविश्लिष्टो
निस्तीर्णकान्तारवदवस्थितो रुद्रे स्थितचित्तः क्षेमी इत्यभिधीयते ।
तथा सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणासु क्रियासु विनिवृत्तासु
रुद्रे स्थितचित्तो निष्क्रियः३ सन् इत्यभिधीयते । आह—
अथ निष्क्रियोऽयमिति कथमवगम्यते ? । किं चात्र युक्तस्य
लक्षणत्रयमेव ? । उच्यते—न । यस्मादाह—वीत४शोकः । अत्र
१. 'शरीरादिवियुक्तत्वम् एकत्वम् , २ सर्वाशङ्कास्थानातिक्रान्तत्वं क्षेमित्वम् ,
३. बाह्याध्यात्मिकक्रियाशून्यत्वं निष्क्रियत्वम् , ४. समस्तचिन्तारहितत्वं वीतशोकत्वम् ।'
गणकारिकाव्याख्या page 16.
१४० सभाष्ये पाशुपतसूत्रे
शोकश्चिन्तेत्यनर्थान्तरम् । सा च चिन्ता द्विविधा भवति । कुशला
चाकुशला च । तत्र कुशला नाम अध्ययनध्यानस्मरणाद्या । अकुशला
नाम अनध्ययनाध्यानास्मरणाद्या। एवं जपयन्तणधारणादींश्च करिष्यामि
न करिष्यामीत्येवमनेकविधायामपि चिन्तायां विनिवृत्तायां व्यपगत-
शोको वीतशोक इत्यभिधीयते ॥ ३९ ॥
एवमत्र योगपदार्थः समाप्तः । कस्मात् ? । अर्थानां निर्वचनत्वात् ।
यस्मादस्याध्यायस्यादावुद्दिष्टा ये पदार्थास्ते दोषच्छेदासङ्गस्थित्यादिषु
व्याख्याताः । एवमनेन युक्तेन ब्रह्मादयो देवा विशेषिता भवन्ति ।
तदसङ्गादिवचनात् ।
आह--अथ सांख्ययोगमुक्ताः किं न विशेषिताः ? ।
उच्यते--विशेषिताः । कथम् ? । तद्ज्ञानातिशयात् । कथम् ? ।
सांख्ययोगमुक्ताः कैवल्यगताः स्वात्मपरात्मज्ञानरहिताः संमूर्च्छितवत्
स्थिताः । अस्य तु ज्ञानमस्ति । यस्मादाह--
अप्रमादी गच्छेद् दुःखानामन्तम्
ईशप्रसादात् ॥ ४० ॥
इति । एवं कुर्वन् सर्वज्ञोऽस्यासंमोहं ज्ञापयति । उक्तं
हि--
“ कार्यकारणाञ्जनेभ्यो निरञ्जनेभ्यश्च सर्वपुरुषेभ्यः ।
अप्राप्तान्तं पुरुषं योऽभ्यधिकं वर्णयेत् स बुधः ॥ ”
:
"दुःखानाम्" then "अन्तमीश..." -> "दुःखानामन्तमीशप्रसादात् ।"
Let's check line 4:
"अत्र प्रमादशब्दोऽनागतानवधानगतत्वं पारतन्त्र्यं च ख्यापयतीत्यर्थः।"
Wait, space before danda? In image: "ख्यापयतीत्यर्थः।" no space before danda.
Let's check line 5:
"तदङ्कुरपरिरक्षणवदनागतकालप्रतीकारकरणेन चैवायम् अप्रमादीशब्दो"
Let's check line 6:
"द्रष्टव्यः । तस्माद् युक्तेनैवाप्रमादिना स्थेयम्। तथा वर्तमानेन माहेश्वर-"
Let's check line 7:
"मैश्वर्यं प्राप्तमेवेत्युक्तम् । गच्छेदू इति । गतिः प्राप्तिर्भवति । गम्लृ सृप्लृ"
Let's check line 8:
"गतौ । प्राप्नोतीत्यात्मेति, पत्रपाण्डुताफलपाकवत् । कथम् ? ।"
Let's check line 9:
"तस्मिन्नेव प्रवर्ततो योऽयं दुःखापोहो गुणस्तत्रेयं गतिरिति संज्ञा क्रियत"
Let's check line 10:
"इत्यर्थः । दुःखानाम् इत्यत्र प्रसिद्धानि दुःखान्याध्यात्मिकाधिभौतिका-"
१४२ सभाष्ये पाशुपतसूत्रे
तथा जन्मदुःखमपि । यदायं पुरुषो जायमानः पुरीषपङ्कमग्नवदनो
मूत्रधाराभिरभिषिच्यमानो देहे संवृतद्वारके योनिनिस्सरणसङ्कटेऽत्यर्थं
पीड्यमानोऽस्थिमर्मबन्धनैः प्रघृष्यमाणो विक्रोशन् निनदंश्च जायते ।
पश्चात् पुनस्तस्यानुचितेन बाह्येन वायुना जननावर्तेन स्पृष्टस्य तीव्रं
दुःखमभिव्यज्यते । राजपुष्टकादिवत् । तेन चास्य जात्यन्तरादिस्मृति-
हेतुसंस्कारलोपो भवति । एवं जन्मदुःखं पुरुष एवानुभवति ।
कस्मात् ? । चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच्च । न तु कार्य-
करणानि । कस्मात् ? । अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ।
तथा अज्ञानदुःखमपि । अङ्गकारसात्कृतगात्रो नजानन् कोऽहं
कुतोऽहं कस्याहं केन वा बन्धनेन बद्धोऽहमिति, किं कारणं किमकारणं
किं भक्ष्यं किमभक्ष्यं किं पेयं किमपेयं किं सत्यं किमसत्यं किं
ज्ञानं किमज्ञानम् इत्यज्ञानदुःखं पुरुष एवानुभवति । कस्मात् ? ।
चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच्च । न तु कार्यकरणानि ।
कस्मात् ? । अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ।
तथा जरादुःखमपि । यदायं पुरुषो जराजर्जरितः कृशशरीरः
शिथिलीकृतनयनकपोलनासिका भ्रूदशमावरणः क्रौञ्चजानुरिव निर्विण्णो-
ऽक्षिदूषिकादिष्वपकर्षणादिष्वसमर्थो विहङ्ग इव लूनपक्षो लङ्घन-
प्लवनधावनादिष्वसमर्थः पूर्वातीतानि भोगव्यायामशिल्पकर्मण्यनु-
स्मरमाणः स्मृतिवैकल्यमापन्नोऽवश्यं क्लेशमनुभवति । कस्मात् ? ।
चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच्च । न तु कार्यकरणानि ।
कस्मात् ? । अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ।
पञ्चमोऽध्यायः । १४३
तथा मृत्युदुःखमपि । यदायं पुरुषो मरणसमये श्लथकरणः
शिरोधरमवलम्बमानः श्वासानोच्छ्वसनतत्परः खुरुखुरायमाणकण्ठः
स्वोपार्जितमणिकनकधनधान्यपत्नीपुत्रपशुसङ्घातः कस्य भविष्यती-
त्यनुतप्यमानः विषयाननु दोदूयमानः सलिलादि याचमानो
विरक्तवदनो मर्मभिश्चिद्यमानैरवश्यं क्लेशमनुभवति । कस्मात् ? ।
चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच्च । न तु कार्यकारणानि । कस्मात् ? ।
अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च । उक्तं हि—
“गर्भे प्रविशन् दुःखं निवसन् दुःखं विनिष्क्रमन् दुःखम् ।
जातश्च दुःखमृच्छति तस्मादपुनर्भवः श्रेयान् ॥”
इति । तथान्यदपि पञ्चविधं दुःखं भवति । तद्यथा—इहलोकभयं
परलोकभयम् अहितसंप्रयोगः हितविप्रयोगः इच्छान्याघातश्चेति ।
तथान्यदपि त्रिविधं दुःखं भवति । आध्यात्मिकमज्ञानं पुरुषे, आधि-
भौतिकं विषयित्वम्, आधिदैविकं च पशुत्वं त्रिविधम् अपरं प्राहुः ।
इत्येवमादीनि बाधनाया अप्रीतिफलाया जन्मनिमित्तत्वाद् दुःखानीत्युप-
चर्यन्ते । आह—चरणाधिकारेऽनतिप्रसादादशिवत्वसंज्ञके सर्वाण्यनति-
प्रसादबीजत्वात् कुतो नात्यन्तनिवृत्तानि भवन्ति ? । कस्मात् (?) ।
संहारं प्राप्तस्य . निगळमुक्ताधिकारवन्मुक्तावतिशयितगुणप्राप्त्यर्थम्
उच्यते—गच्छेदू दुःखानामन्तम् । दुःखानामत्यन्तं परमापोहो गुणा-
वाप्तिश्च परं भवतीति । तदुभयमपि इत एव भवतीति । तदाह—
ईशप्रसादात् । अत्रेश इत्येतद् भगवतो नामधेयम् । ईशः कस्मात् ? ।
विद्यादिकार्यस्येशनादीशः । प्रसादो नाम सम्प्रदानेच्छा । तस्मात्
प्रसादात् सर्वदुःखापोहो गुणावाप्तिश्चादिसुपाद्यन्तरात् परपरि-
वादादिवचनात् शुद्धिरिव युगपदित्यर्थः (?) । एवमयमथशब्दः,
१४४ सभाष्ये पाशुपतसूत्रे
पशुपतेरित्युद्दिष्टयोर्दुःखान्तप्रसादयोर्गच्छेद् दुःखान्तमीशप्रसादादिति
दुःखान्तं परिसमाप्तमिति ॥ ४० ॥
एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम्—
अत्रेदं ब्रह्म जपेत् ॥ ४१ ॥
इति । अस्य पूर्वोक्तोऽर्थः । विधिनैव पूर्वोक्तेन विधिना जप्यन्यम् ।
न तु दुःखान्तगतेन गणपतिवदि(अ० १, सू० ३८)त्यर्थः ॥ ४१ ॥
आह— कामित्वात् कृपया भगवता दुःखान्तो दत्तः स्वेच्छयैव,
न पुनरदुःखान्तं करिष्यति। अथाशक्तस्तथाप्यस्य शक्तिव्याघातः
पाचकवदकर्मापेक्षत्वं चोच्यते (?) । अत्र यथा नित्यो दुःखान्तस्तथा
वक्ष्यामः। यथा च काङ्क्षतो लिप्सतश्च साधकाधिकारनिवृत्तिस्तथा
वक्ष्यामः। पदार्थनिगमनार्थे चोच्यते—
ईशानः सर्वविद्यानाम् ॥ ४२ ॥
अत्र ईशनाद् ईशानः। अत्रेशनादीशान इत्युक्तं कारणम्
ईशानः प्रभुः धातेत्यर्थः । आह—कस्यायमीशानः ? । तदुच्यते—
सर्वस्येशानः । सर्वशब्दो विद्याप्रकृतेर्निरवशेषवाची द्रष्टव्यः । विद्यान
धर्मार्थकामकैवल्यतत् साधनपराणाम् ईशानः । विद्यानामिति षष्ठीबहु
वचनम् ॥ ४२ ॥
आह—किं विद्यानामेवेशानः ?, न तु विद्याभिर्ये विदन्ति ?
उच्यते—
पञ्चमोऽध्यायः । १४५
ईश्वरः सर्वभूतानाम् ॥ ४३ ॥
अत्र निरतिशय ऐश्वर्येण ईश्वरः । पुरुषः चैतन्यवादित्यर्थः(?) ।
आह—कस्यायमीश्वरः ? । तदुच्यते—सर्वभूतानाम् । अत्र चेतना-
चेतनेषु सर्वशब्दः न केवलं पृथिव्यादिषु, किन्तु सिद्धेश्वरवर्जं
चेतनेष्वेव सर्वभूतप्रकृतेर्निरवशेषवाची सर्वशब्दो द्रष्टव्यः । कस्माद्
भूतानि ? । भावनत्वाद् भूतानीत्युक्तम् । भूतानामिति षष्ठी-
बहुवचनम् ॥ ४३ ॥
आह—अत्र केचिद् विद्याभूतव्यतिरिक्तं ब्रह्माणमिच्छन्ति ।
तस्यायं किं प्रभुर्भवति नेति ? । उच्यते—प्रभुः । यस्मादाह—
ब्रह्मणोऽधिपतिर्ब्रह्मा ॥ ४४ ॥
अत्र योऽयं विरिञ्चिः परमः पतिः सर्वचेतनव्यतिरिक्तः
क्षेत्रज्ञः तस्मिन् ब्रह्मसंज्ञा । न तु प्रधानादिषु । कस्मात् ? ।
अधिपतिवचनविरोधात् । ब्रह्म च कस्मात् ? । बृंहणत्वाद् बृहत्त्वाद्
ब्रह्मा । बृंहयते यस्माद् विद्याकलाभूतानि, बृहच्च तेभ्य इत्यतो-
ऽधिपतिर्ब्रह्मा । ब्रह्मण इति षष्ठी । अधिरधिष्ठातृत्वे । तत्स्वाभाव्यात्
संहृते चासंहृते च कार्य इत्यर्थः। पत्युः पतिः अधिपतिः । राजराजवत् ।
पतिः पालने, पतिर्दर्शने भोगे च । पालयते यस्माद् ब्रह्मादीन् ईश्वरः ।
पाति ब्रह्मादिकार्यम् । अधिपतिः ब्रह्मा । अधिपतिरीश्वरः । एवं
बृंहयते यस्माद् विद्यादिकार्यं, बृहच्च तेभ्य इत्यतोऽधिपतिर्ब्रह्मा
भगवानिति ॥ ४४ ॥
१. 'ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा' इति तैत्तिरीयपाठः.
19
१४६ सभाष्ये पाशुपतसूत्रे
आह—अत्र कार्यकारणमहाभाग्यमेवात्र ब्रह्मणि चिन्त्यते, न तु
साधकस्य लिप्सा लाभो वेति ? । उच्यते—न । यस्मादाह—
शिवो मे अस्तु ॥ ४५ ॥
अत्र येषां साधिकारत्वादनतिप्रसन्नस्तेषामशिवत्वं दृष्ट्वा दुःखान्तं
गतेषु च शिवत्वं दृष्ट्वा आह—शिवो मे अस्तु इति । मे इत्या-
त्मापदेशे । ममेत्यर्थः । अस्त्विति काङ्क्षायाम् । काङ्क्षति लिप्सति
मृगयतीत्यर्थः ॥ ४५ ॥
आह—कियन्तं कालं भगवानस्य शिवो भवति ? । तदुच्यते—
नित्यम् । यस्मादाह—
सदा ॥ ४६ ॥
अत्र सदा नित्यं सन्ततमव्युच्छिन्नमित्यर्थः ॥ ४६ ॥
आह—कमेवमाह ? । को वास्य शिवो भवतीति ? । उच्यते—
शिवः ॥ ४७ ॥
अत्र शिव इत्येतदपि भगवतो नाम । शिवः कस्मात् ? ।
परिपूर्णपरितृप्तत्वाच्छिवः । तस्मात् सदाशिवोपदेशान्नित्यो दुःखान्तः ।
कारणाधिकारनिवृत्तिः । तदर्थं नित्यो दुःखान्त इति सिद्धम् ॥ ४७ ॥
एवमेते पञ्च पदार्थाः कार्यकारणयोगविधिदुःखान्ताः समास-
विस्तरविभागविशेषोपसंहारनिगमनतश्च व्याख्याताः । उक्तं हि—
[168] सूत्राणि
पञ्चमोऽध्यायः । १४७
“आदौ यद् भवति समासोक्तं मध्ये तस्य विस्तरतश्च
विभागतश्चोपनयनिगमनेन* सतामप्येष निश्चयः ”
इति । अत्र तावत् पतिरिति कारणपदार्थस्योपदेशः
समासेन । विस्तरस्तु—वामो देवो ज्येष्ठो रुद्रः कामी शङ्करः
कालः कलविकरणो बलविकरणोऽघोरो घोरतरः सर्वः शर्वः
तत्पुरुषो महादेव ओङ्कार ऋषिविंप्रो महानीश ईशान ईश्वरो-
ऽधिपतिर्ब्रह्मा शिव इत्येवमाद्यो विस्तरः । विभागोऽपि—अन्यत्
पतित्वम् अन्यदजातत्वम् अन्यद् भवोद्भवत्वमित्याद्यो विभागः ।
विशेषः—अन्येषां प्रधानादीनि, अस्माकं तद्व्यतिरिक्तो भगवानीश्वरः ।
कारणाधिकारे यस्मादाह—ईश्वरः सर्वभूतानामिति । एष उपसंहारः—
सार्वकामिक इत्याचक्षते । निगमनम्—ईश ईशान ईश्वरोऽधिपतिर्ब्रह्मा
शिव इति ।
तथा पशुरिति कार्यपदार्थस्योद्देशः । तस्य विस्तरो—विद्या
कला पशवः । उत्पाद्या अनुग्राह्यास्तिरोभाव्यकालप्यविकार्यमस्पदस्य
बोध्यधिष्ठेयत्वे चेत्येवमाद्यः सूत्रविद्याधर्मार्थकामैर्भेदैर्दुःखान्तः विद्या(?) ।
कला द्विविधाः । कार्याख्याः करणाख्याश्च । तत्र कार्याख्याः पृथिव्याद्याः ।
करणाख्या बुद्ध्याद्याः । पशवश्च त्रिविधाः । देवा मनुष्यास्तिर्यञ्चः ।
तत्र देवा अष्टविधा ब्रह्माद्याः । मानुष्यं चानेकविधं ब्राह्मणाद्यम् ।
तिर्यग्योनि च पञ्चविधं पशुमृगाद्यम् । पशवः साञ्जना निरञ्जनाश्च ।
एवमाद्यो विस्तरः । विभागोऽपि—अन्या विद्या अन्याः कलाः अन्ये च
पशव इत्येवमाद्यो विभागः । विशेषः—अन्येषां प्रधानादीनि कारणानि,
तानीह शास्त्रे कार्यत्वेन व्याख्यातानि । तत्र प्रधानं कारणमन्येषां,
- Seems few words are missing here.