सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 154, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 154

पञ्चमोऽध्यायः । १४५
ईश्वरः सर्वभूतानाम् ॥ ४३ ॥
अत्र निरतिशय ऐश्वर्येण ईश्वरः । पुरुषः चैतन्यवादित्यर्थः(?) ।
आह—कस्यायमीश्वरः ? । तदुच्यते—सर्वभूतानाम् । अत्र चेतना-
चेतनेषु सर्वशब्दः न केवलं पृथिव्यादिषु, किन्तु सिद्धेश्वरवर्जं
चेतनेष्वेव सर्वभूतप्रकृतेर्निरवशेषवाची सर्वशब्दो द्रष्टव्यः । कस्माद्
भूतानि ? । भावनत्वाद् भूतानीत्युक्तम् । भूतानामिति षष्ठी-
बहुवचनम् ॥ ४३ ॥
आह—अत्र केचिद् विद्याभूतव्यतिरिक्तं ब्रह्माणमिच्छन्ति ।
तस्यायं किं प्रभुर्भवति नेति ? । उच्यते—प्रभुः । यस्मादाह—
ब्रह्मणोऽधिपतिर्ब्रह्मा ॥ ४४ ॥
अत्र योऽयं विरिञ्चिः परमः पतिः सर्वचेतनव्यतिरिक्तः
क्षेत्रज्ञः तस्मिन् ब्रह्मसंज्ञा । न तु प्रधानादिषु । कस्मात् ? ।
अधिपतिवचनविरोधात् । ब्रह्म च कस्मात् ? । बृंहणत्वाद् बृहत्त्वाद्
ब्रह्मा । बृंहयते यस्माद् विद्याकलाभूतानि, बृहच्च तेभ्य इत्यतो-
ऽधिपतिर्ब्रह्मा । ब्रह्मण इति षष्ठी । अधिरधिष्ठातृत्वे । तत्स्वाभाव्यात्
संहृते चासंहृते च कार्य इत्यर्थः। पत्युः पतिः अधिपतिः । राजराजवत् ।
पतिः पालने, पतिर्दर्शने भोगे च । पालयते यस्माद् ब्रह्मादीन् ईश्वरः ।
पाति ब्रह्मादिकार्यम् । अधिपतिः ब्रह्मा । अधिपतिरीश्वरः । एवं
बृंहयते यस्माद् विद्यादिकार्यं, बृहच्च तेभ्य इत्यतोऽधिपतिर्ब्रह्मा
भगवानिति ॥ ४४ ॥
१. 'ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा' इति तैत्तिरीयपाठः.
19