सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 144, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 144

पञ्चमोऽध्यायः । १३५
इति । एवं विषयाणां क्षयदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां
वा यदि कश्चित् । तथान्यः कथम् ? इति । सन्त्वेते विषयदोषाः ।
अयमन्यतरः कष्टतरो दोषः । कश्चासाविति ? । उच्यते—सङ्गदोषः ।
यदि तावदर्जनं क्रियते रक्षणं च क्षये च पुनः पुनरर्जनं क्रियते रक्षणं
च । यदि सङ्गदोषो न स्यात् । कथम् ? । यावदयमिन्द्रिययुक्तो
विषयानाभिलषति, तावदस्य तृप्तिरुपशान्तिरौत्सुक्यविनिवृत्तिश्च न भवति ।
भूय एव ‘विषयानन्वेष्टुमारभते । ततः पुनरतृप्त्यादयो भवन्ति तद्वत् ।
तस्मादशोभनम् । उक्तं हि—
“ ‘ न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मैव भूय एवाभिवर्धते ॥
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत् तृप्त्यै तस्माद् विद्वान् शमं व्रजेत् ॥ ”
इति । एवं विषयाणां सङ्गदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि
कश्चित् । तथान्यः कथम् ? इति । सन्त्वेते विषयाणामर्जनादयो दोषाः ।
ते भवन्तु तेषाम् । न वयं तान् प्रतिषेधयामः । अयं त्वन्यः कष्टतमो
विषयाणां दोषः । कश्चासाविति ? । उच्यते—हिंसादोषः । शक्यमेतेषां
विषयाणामर्जनादि कर्तुम्, इन्द्रियलौल्यदोषोऽपि भवतु । यदि
हिंसादोषो न स्यात् । कथम् ? । एतेषामेव विषयाणामुपभोगे
वर्तता अवश्यमेव हिंसादिदोषाः कर्तव्याः । कस्मात् ? । नानुपहृत्य
भूतानि विषयोपभोगः शक्यते कर्तुम् । तत्र शब्दानिमित्तं
१. विष्णुपुराणे अंश ४, अ० १०,