सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 151, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 151

१४२ सभाष्ये पाशुपतसूत्रे
तथा जन्मदुःखमपि । यदायं पुरुषो जायमानः पुरीषपङ्कमग्नवदनो
मूत्रधाराभिरभिषिच्यमानो देहे संवृतद्वारके योनिनिस्सरणसङ्कटेऽत्यर्थं
पीड्यमानोऽस्थिमर्मबन्धनैः प्रघृष्यमाणो विक्रोशन् निनदंश्च जायते ।
पश्चात् पुनस्तस्यानुचितेन बाह्येन वायुना जननावर्तेन स्पृष्टस्य तीव्रं
दुःखमभिव्यज्यते । राजपुष्टकादिवत् । तेन चास्य जात्यन्तरादिस्मृति-
हेतुसंस्कारलोपो भवति । एवं जन्मदुःखं पुरुष एवानुभवति ।
कस्मात् ? । चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच्च । न तु कार्य-
करणानि । कस्मात् ? । अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ।
तथा अज्ञानदुःखमपि । अङ्गकारसात्कृतगात्रो नजानन् कोऽहं
कुतोऽहं कस्याहं केन वा बन्धनेन बद्धोऽहमिति, किं कारणं किमकारणं
किं भक्ष्यं किमभक्ष्यं किं पेयं किमपेयं किं सत्यं किमसत्यं किं
ज्ञानं किमज्ञानम् इत्यज्ञानदुःखं पुरुष एवानुभवति । कस्मात् ? ।
चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच्च । न तु कार्यकरणानि ।
कस्मात् ? । अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ।
तथा जरादुःखमपि । यदायं पुरुषो जराजर्जरितः कृशशरीरः
शिथिलीकृतनयनकपोलनासिका भ्रूदशमावरणः क्रौञ्चजानुरिव निर्विण्णो-
ऽक्षिदूषिकादिष्वपकर्षणादिष्वसमर्थो विहङ्ग इव लूनपक्षो लङ्घन-
प्लवनधावनादिष्वसमर्थः पूर्वातीतानि भोगव्यायामशिल्पकर्मण्यनु-
स्मरमाणः स्मृतिवैकल्यमापन्नोऽवश्यं क्लेशमनुभवति । कस्मात् ? ।
चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच्च । न तु कार्यकरणानि ।
कस्मात् ? । अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ।