सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 139, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 139

१३० सभाष्ये पाशुपतसूत्रे
यथालब्धमिति वृत्तिः क्रिया स्मृतिः अस्मृत्यपोहः शुद्धिः लाभस्तु
सायुज्यम् । तथोत्तरत्र ऋषिरिति वसत्यर्थः बलमप्रमादः प्रसाद
उपायः दुःखापोहः शुद्धिः गुणावाप्तिश्च लाभ इति । तथोक्तं च—
‘“ पञ्च लाभान् मलान् पञ्च पञ्चोपायान् विशेषतः ।
यस्तु बुध्यति पञ्चार्थे स विद्वान् नात्र संशयः ॥
प्रथमो विद्यालाभस्तपसो लाभोऽथ देवनित्यत्वम् ।
योगो गुणप्रवृत्तिर्लाभाः पञ्चेह विज्ञेयाः ॥
अज्ञानमधर्मश्च विषयाभ्यासः स्थितेरलाभश्च ।
अनैश्वर्यं च मला विज्ञेयाः पञ्च पञ्चार्थे ॥
वासो ध्यानमखिलकरणनिरोधस्तथा स्मृतिश्चैव ।
प्रसाद इति चोपाया विज्ञेयाः पञ्च पञ्चार्थे ॥
वासार्थो लोकश्च शून्यागारं तथा श्मशानं च ।
रुद्रश्च पञ्च देशा नियतं सिद्ध्यर्थमाख्याताः ॥ ”
तस्माद्युक्तमुक्तम् । स एव प्रागुक्तः सम्बन्धः श्मशानवासी इति ।
अत्र श्मशानं नाम—यदेतल्लोकादिप्रसिद्धं लौकिकानां मृतानि शवानि
परित्यजन्ति तत् । शवसम्बन्धात् श्मशानम् । तस्मिन्नाकाशे वृक्षमूले
यथानभिष्वङ्गमर्यादया जितद्वन्द्वेन स्मृतिक्रियानिविष्टेन वस्तव्यम्। वसति-
संयोगात् श्मशानवासी भवति, पुलिनवासिवदित्यर्थः ॥ ३० ॥
आह—किमस्य गोमृगयोः सहधर्मित्वमेव बलम् ? । तदुच्यते—
न । यस्मादाह—