सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 149, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 149

१४० सभाष्ये पाशुपतसूत्रे
शोकश्चिन्तेत्यनर्थान्तरम् । सा च चिन्ता द्विविधा भवति । कुशला
चाकुशला च । तत्र कुशला नाम अध्ययनध्यानस्मरणाद्या । अकुशला
नाम अनध्ययनाध्यानास्मरणाद्या। एवं जपयन्तणधारणादींश्च करिष्यामि
न करिष्यामीत्येवमनेकविधायामपि चिन्तायां विनिवृत्तायां व्यपगत-
शोको वीतशोक इत्यभिधीयते ॥ ३९ ॥
एवमत्र योगपदार्थः समाप्तः । कस्मात् ? । अर्थानां निर्वचनत्वात् ।
यस्मादस्याध्यायस्यादावुद्दिष्टा ये पदार्थास्ते दोषच्छेदासङ्गस्थित्यादिषु
व्याख्याताः । एवमनेन युक्तेन ब्रह्मादयो देवा विशेषिता भवन्ति ।
तदसङ्गादिवचनात् ।
आह--अथ सांख्ययोगमुक्ताः किं न विशेषिताः ? ।
उच्यते--विशेषिताः । कथम् ? । तद्ज्ञानातिशयात् । कथम् ? ।
सांख्ययोगमुक्ताः कैवल्यगताः स्वात्मपरात्मज्ञानरहिताः संमूर्च्छितवत्
स्थिताः । अस्य तु ज्ञानमस्ति । यस्मादाह--
अप्रमादी गच्छेद् दुःखानामन्तम्
ईशप्रसादात् ॥ ४० ॥
इति । एवं कुर्वन् सर्वज्ञोऽस्यासंमोहं ज्ञापयति । उक्तं
हि--
“ कार्यकारणाञ्जनेभ्यो निरञ्जनेभ्यश्च सर्वपुरुषेभ्यः ।
अप्राप्तान्तं पुरुषं योऽभ्यधिकं वर्णयेत् स बुधः ॥ ”