सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 141, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 141

१३२ सभाष्ये पाशुपतसूत्रे
सदा रुद्रमनुस्मरेत् ॥ ३४ ॥
अत्र सदा नित्यं सततमप्युच्छिन्नमिति । रुद्रमिति कारणापदेशे ।
रुद्रस्य रुद्रत्वं पूर्वोक्तम् । रुद्रमिति द्वितीया कर्मणि । अनु पृष्ठकर्मक्रियायाम्।
पूर्वोक्तो ध्येयोऽर्थः सततंमनुस्मर्त्तव्यः । स्मृतिः चिन्तायाम् । ऊष्मवदव-
स्थितस्य कर्मणश्च्युतिहेतोः क्षपणार्थं सततंमनुस्मर्त्तव्यः । स्मृतिस्तु
देवनित्यतेत्यर्थः । ततः क्षीणे कर्मणि तदोषहेतुजालमूलविशिष्टस्य
प्रत्यासैक(?)निमित्ताभावात् सायुज्यप्राप्तौ न पुनः संसारः । अत्र
श्लोको निर्वचनः ॥ ३४ ॥
आह—अज्ञानकलुषपापवासनादिप्रसङ्गप्रसरणसम्भवात् सन्देहः ।
(किं) सूक्ष्मवदवस्थिते कर्मणि क्षीणेऽत्यन्तविशुद्धः सायुज्यमासादयति ,
आहोस्विदविशुद्ध इति ? । उच्यते—विशुद्धः । यस्मादाह—
छित्त्वा दोषाणां हेतुजालस्य मूलम् ॥ ३५ ॥
अत्र व्युत्क्रमाभिधानाच्छेदः क्रमशॊ योजनीयः । यन्त्रणधारणा-
त्मकश्छेदो द्रष्टव्यः । किमर्थम् ? । सूक्ष्मवदवस्थितस्य कर्मणः क्षयार्थं
वसत्यर्थादिनिर्देशार्थत्वात् । किञ्च अर्थानामनिर्वचनार्थत्वात् तत्र जप
एव केवलोऽभिहितः । इह तु यत इन्द्रियाणि जेतव्यानि, यो जेता,
यया जेतव्यानि, यथा जेतव्यानि, यत्प्रयोजनं जेतव्यानि, यस्मिंश्च
जिते जितानि भवन्ति, तद् वक्ष्यामः । तथा यस्यात्मवृत्तिरध्ययनध्यान-
स्मरणादि च वक्ष्यामः । तथा यत आत्मा छेत्तव्यः छेत्तारं छेदकरणं
छेदप्रयोजनं छेद्यं च्छित्तिं यस्मिन् छिन्ने छिन्नं भवति, तद् वक्ष्यामः ।
तदुच्यते—छित्त्वा । अत्र छेदो नाम आत्मभावविश्लेषणमात्रम् ।