सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 155, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 155

१४६ सभाष्ये पाशुपतसूत्रे
आह—अत्र कार्यकारणमहाभाग्यमेवात्र ब्रह्मणि चिन्त्यते, न तु
साधकस्य लिप्सा लाभो वेति ? । उच्यते—न । यस्मादाह—
शिवो मे अस्तु ॥ ४५ ॥
अत्र येषां साधिकारत्वादनतिप्रसन्नस्तेषामशिवत्वं दृष्ट्वा दुःखान्तं
गतेषु च शिवत्वं दृष्ट्वा आह—शिवो मे अस्तु इति । मे इत्या-
त्मापदेशे । ममेत्यर्थः । अस्त्विति काङ्क्षायाम् । काङ्क्षति लिप्सति
मृगयतीत्यर्थः ॥ ४५ ॥
आह—कियन्तं कालं भगवानस्य शिवो भवति ? । तदुच्यते—
नित्यम् । यस्मादाह—
सदा ॥ ४६ ॥
अत्र सदा नित्यं सन्ततमव्युच्छिन्नमित्यर्थः ॥ ४६ ॥
आह—कमेवमाह ? । को वास्य शिवो भवतीति ? । उच्यते—
शिवः ॥ ४७ ॥
अत्र शिव इत्येतदपि भगवतो नाम । शिवः कस्मात् ? ।
परिपूर्णपरितृप्तत्वाच्छिवः । तस्मात् सदाशिवोपदेशान्नित्यो दुःखान्तः ।
कारणाधिकारनिवृत्तिः । तदर्थं नित्यो दुःखान्त इति सिद्धम् ॥ ४७ ॥
एवमेते पञ्च पदार्थाः कार्यकारणयोगविधिदुःखान्ताः समास-
विस्तरविभागविशेषोपसंहारनिगमनतश्च व्याख्याताः । उक्तं हि—
[168] सूत्राणि