सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 152, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 152

पञ्चमोऽध्यायः । १४३
तथा मृत्युदुःखमपि । यदायं पुरुषो मरणसमये श्लथकरणः
शिरोधरमवलम्बमानः श्वासानोच्छ्वसनतत्परः खुरुखुरायमाणकण्ठः
स्वोपार्जितमणिकनकधनधान्यपत्नीपुत्रपशुसङ्घातः कस्य भविष्यती-
त्यनुतप्यमानः विषयाननु दोदूयमानः सलिलादि याचमानो
विरक्तवदनो मर्मभिश्चिद्यमानैरवश्यं क्लेशमनुभवति । कस्मात् ? ।
चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच्च । न तु कार्यकारणानि । कस्मात् ? ।
अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च । उक्तं हि—
“गर्भे प्रविशन् दुःखं निवसन् दुःखं विनिष्क्रमन् दुःखम् ।
जातश्च दुःखमृच्छति तस्मादपुनर्भवः श्रेयान् ॥”
इति । तथान्यदपि पञ्चविधं दुःखं भवति । तद्यथा—इहलोकभयं
परलोकभयम् अहितसंप्रयोगः हितविप्रयोगः इच्छान्याघातश्चेति ।
तथान्यदपि त्रिविधं दुःखं भवति । आध्यात्मिकमज्ञानं पुरुषे, आधि-
भौतिकं विषयित्वम्, आधिदैविकं च पशुत्वं त्रिविधम् अपरं प्राहुः ।
इत्येवमादीनि बाधनाया अप्रीतिफलाया जन्मनिमित्तत्वाद् दुःखानीत्युप-
चर्यन्ते । आह—चरणाधिकारेऽनतिप्रसादादशिवत्वसंज्ञके सर्वाण्यनति-
प्रसादबीजत्वात् कुतो नात्यन्तनिवृत्तानि भवन्ति ? । कस्मात् (?) ।
संहारं प्राप्तस्य . निगळमुक्ताधिकारवन्मुक्तावतिशयितगुणप्राप्त्यर्थम्
उच्यते—गच्छेदू दुःखानामन्तम् । दुःखानामत्यन्तं परमापोहो गुणा-
वाप्तिश्च परं भवतीति । तदुभयमपि इत एव भवतीति । तदाह—
ईशप्रसादात् । अत्रेश इत्येतद् भगवतो नामधेयम् । ईशः कस्मात् ? ।
विद्यादिकार्यस्येशनादीशः । प्रसादो नाम सम्प्रदानेच्छा । तस्मात्
प्रसादात् सर्वदुःखापोहो गुणावाप्तिश्चादिसुपाद्यन्तरात् परपरि-
वादादिवचनात् शुद्धिरिव युगपदित्यर्थः (?) । एवमयमथशब्दः,