न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
ति तदपि क्लिष्टकल्पनामात्रम् , प्रीतिर्हि निरतिशया स्वर्गः प्रीतेश्च नान्यार्थत्वं
युक्तं प्रीत्यर्थमन्यन्नान्यार्था प्रीतिः, तस्मान्न यागाय स्वर्गो ऽपि तु स्वर्गाय यागः,
इत्थं च क्रियासाधनानुपदेशान्न कर्तृसमर्पणेन स्वर्गकामपदं समन्वेति,
कथं तर्ह्यस्यानवयः; अधिकारिवाचित्वेन ब्रूमः,
को ऽयमधिकारी नाम, कर्मणः स्वामीश्वरवचनो ह्यधिकृतशब्दः, ननु क-
र्तैव कर्मणः स्वामी नान्यः, मैवम् , स्वामी सन्कर्ता न कर्ता सन्स्वामीति, ननु
क्रियाकारकसम्वन्धव्यतिरिक्तः कोऽन्यः कर्मणः पुरुषस्य च सम्बन्धः, उच्यते,
ममेदं कर्त्तव्यमहमत्र स्वामीति स्वस्वामिभावमवगत्य पाश्चात्त्यः क्रियाकारक-
सम्बन्धो ऽवगम्यते,
ननु त्वया क्रियाकारकसम्वन्धो नापन्हूयते जातिवादिनेव व्यक्तिप्रतीतिः
स तु पाश्चात्त्य इत्यत्र किं प्रमाणम् , उक्तमत्र “अनुपादेयविशेषणं विशिष्टस्य
पुंसो निर्देशात्” इति, कारकत्वानुगुणविशेषणयोगिनो ह्यस्य
३०६ न्यायमञ्जर्याम्
लभतामिति यतते पुरुषः किं तु स्वोपभोग्यतयैव सर्वमभिलषतीति अतस्त-
स्यापि तदर्थत्वान्न प्राधान्यम् , आह च(१) "फलं च पुरुषार्थत्वात्" इति,
हन्त तर्हि पुरुष एव वाक्यार्थो भवतु स ह्यनन्यनिष्ठः स्वतन्त्रत्वात् ,
उच्यते, पुरुषो ऽप्यौदुम्बरीसंमार्जनादिषु विनियुज्यते एव यजमानसंमिता औ-
दुम्बरी भवतीति तस्यापि तदर्थत्वमुक्तं च(२) "पुरुषश्च कर्मार्थत्वात्" इति,
क्रियाफलपुरुषाणां वाक्यार्थत्वनिराकरणम्-
यद्येवं संकटे पतिताः स्मः न विद्मः किं विदध्महे क्रिया हि फलार्था फलं
च पुरुषार्थं पुरुषः क्रियार्थ इति परिवर्तमाने चक्रे कस्य प्राधान्यं शिष्मः कस्य
वाक्यार्थत्वम् ,
उच्यते, पुरुषस्तावन्न वाक्यार्थः आख्यातवाच्यत्वे एव तस्य विवदन्ते
का कथा वाक्यार्थत्वस्य, ननु कर्त्तरि लकार इति स्मरणात्कथं नाख्यातवाच्यः
कर्त्ता, को ऽयं लकारो नाम, स हि वर्त्तमाने लडिति विधाय कर्त्तरि शप्
युष्मदिं मध्यमः अस्मद्युत्तमः शेषे प्रथमः तिप्तस्झीति बहुषु बहुवचनं द्व्येक-
योर्द्विवचनैकवचने इति वाक्यान्तरे विभज्य विवृतः, तदेतानि कारकसंख्या-
विभक्तिविधायीनि सूत्राण्येकवाक्यतया व्याख्यातव्यानि एकार्थविषयत्वात्, एको
हि पचतीत्यादिशब्दस्तैर्व्याक्रियते तदेवमेष वाक्यार्थो भवति, कर्तुरे कत्वे एक-
वचनं तिप् कर्तृद्वित्वे द्विवचनं तस् कर्तृबहुत्वे बहुवचनं झि इति, सेयं कर्तृसं-
ख्या ऽऽख्यातवाच्या भवति न कर्तेति कुतस्तस्य वाक्यार्थत्वमलं चानया शा-
स्त्रान्तरगर्भया द्राघीयस्या कथया पुरुषस्तावन्न वाक्यार्थः, फलमपि न वाक्यार्थः,
सिद्धासिद्धविकल्पानुपपत्तेः सिद्धस्य तावत्फलस्याभिधानमेव नास्ति काम्यमा-
नत्वेन निर्देशात् ।
भावनाया वाक्यार्थत्वनिरूपणम्-
साध्यमानत्वपन्ने तु साक्षात्तत्सिद्धयवेदनात् ।
व्यापार एष तन्निष्ठस्तर्हि वाक्यार्थ उच्यताम् ॥
अत एव हि वाक्यार्थं भावनां प्रतिजानते ।
यथोचितफलाढ्यां च त्रयसम्बन्धबन्धुराम ॥
भावनास्वरूपोपादनम्--
केयं भावना नाम, भाव्यनिष्ठो भावकव्यापारो भावना, भाव्यं हि स्वर्गादि
(१) जैमिनिसूत्रम् अ. ३ पा. १ सू. ९ ।
(२) जैमिनिसूत्रम् अ. ३ पा. १ सू. ६ ।
ऽर्थः" - wait, look at 'काम्यरूपो':
There is a broken 'ो' or something.
Then "खतत्पुष्पाभ्यां" - wait, could it be "खपुष्पाभ्यां"?
Look at the characters:
- ख
- त् ? No, look at the second character: it has a vertical stem, a loop... wait, is that a 'त'?
Wait! Is it "खपुष्पाभ्यां" with a smudge?
Wait, compare the 'पु' in "खपुष्पाकाशयोरिव" (line 4) with line 5:
In line 4:
ख - पु - ष्पा - का - श - यो - रि - व
In line 5:
ख - then a character - then पु - ष्पा - भ्यां !
What is that character between ख and पु?
It is 'त'! It looks like 'त'!
Wait, could it be 'खतत्पुष्पाभ्यां'? Or 'खपुष्पाभ्यां'?
Wait! Why would it say "खतत्पुष्पाभ्यां"? "खं च तत् पुष्पं च"? No, "खपुष्पं"!
Wait, could it be a misprint in the book: "खतत्पुष्पाभ्यां"? Yes! The compositor might have accidentally set 'त' or 'तत्'.
Wait, look at the letter between 'इ' and 'भाव्यो':
It is:
करोतीति पाक शब्देन द्वितीयान्तेन साध्यं धात्वर्थं व्याचक्षते कर्तृव्यापारात्मकं
प्रत्ययार्थं करोतीति पदेन,
किं च किं करोति देवदत्त इति पृष्टाः सन्तो द्वये वक्तारो भवन्ति करोति
पाकमिति पचतीति वा तदिदमुभयरूपमप्युत्तरमेकार्थम अन्यथा न तेन प्रष्टा
प्रत्याय्येत, तस्मात्पाकं करोतीति पदद्वयस्य यो ऽर्थः स एवार्थ एकस्य पच-
तीति पदस्य, अत्रापि पचत्यर्थादन्यः करोत्यर्थः प्रतीयते एव यो ऽसावन्यः
करोत्यर्थः स भावना,
आह न कर्तृसंख्यादिव्यतिरेकेण प्रत्ययाद्धात्वर्थातिरिक्तं व्यापारं प्रतिप-
द्यन्ते प्रतिपद्येरंश्चेत्करोतीत्यतो ऽपि शब्दात्प्रतिपद्येरन् न च करोतीत्यत्र प्रकृ-
तिप्रत्ययवाच्ये क्रिये विभज्य दर्शयितुं शक्येते,
उच्यते, नेदं साधु बुध्यसे—
यथा पाकं करोतीति प्रतीतिर्नास्ति लौकिकी ।
प्रत्ययार्थः करोत्यर्थः पचत्यादौ तु वर्त्तते ॥
कर्तृसंख्याप्रतीतौ च न विवादो ऽस्ति कस्य चित् ।
तावता निह्नवः कार्यो न तु व्यापारसंविदः ॥
करोतीत्यादिशब्दाभिधेयया ऽनया यथा न भवितव्यं तथा विशिष्टेभ्यः
शब्देभ्यस्तत्प्रतीतिरिष्यते न सर्वेभ्यः, के पुनस्ते विशिष्टाः शब्दा ये भावनाम-
भिदधति, उच्यते—
भावार्थाः कर्मशब्दा ये तेभ्यो गम्येत भावना ।
यजेतेत्येवमादिभ्यः स एवार्थो विधीयते ॥
भवन्ति के चिद्भावार्था ये न कर्मशब्दाः यथा भावो भवनं भूतिरिति,
भवन्ति च के चित्कर्मशब्दा न भावार्थाः श्येनादयः कर्मनामधेयतया प्राक्सम-
र्थिताः, ये तु भावार्थाः कर्मशब्दा यजते ददाति जुहोति इत्येवमादयस्तेभ्यो
भावनाख्या क्रिया गम्यते तैरेव लिङादिविभक्त्यन्तैः सो ऽर्थो ऽभिधीयते यजेत
दद्याज्जुहुयादिति, यद्यर्थः ण्यन्तेनावगम्यते भावयेदिति च करोतिशब्दादपि
केवलात्कर्तृव्यापारो न नासावगम्यते, स च यागादिकर्मणा नानुरक्तेन प्रयोग-
योग्यतां प्रतिपद्यते इति विशिष्टेभ्य एव यजत्यादिशब्देभ्यो भावनाख्यो ऽनुष्ठेयः
पुरुषव्यापारः प्रतीयते इति सिद्धम् ।
क्रियाविशेष एवायं व्यापारो ज्ञातुरन्तरः ।
स्पन्दात्मकबहिर्भूतक्रियाक्षणविलक्षणः ॥
इत्येवं के चित् ।
पुरुषस्य प्रयत्नो वा भावनेत्यभिधीयते ।
औदासीन्यदशापारं पुमान्येन प्रपद्यते ॥
प्रमाणप्रकरणम् ३७९
स यत्नो यागहोमादिक्रियानिर्वृत्तिकारणम् ।
तस्य तद्व्यतिरिक्तत्वं प्रायः सर्वो ऽनुमन्यते ॥
स चायमात्मधर्मो ऽपि न विभुत्वादिवन्मतः ।
साध्यरूपाभिसम्बन्धाद्धत्ते विषयतां विभोः ॥
इत्यपरे ।
अन्ये धात्वर्थसामान्यं भावनामभ्युपागमन् ।
यागदानाद्यनुस्यूतं रूपं गोत्वादिजातिवत् ॥
यथा हि शाबलेयादिष्वनुगतं गोरूपमवभासते व्यावृत्तं च शावलेयादि-
रूपमेवमिहापि यागादिकर्मणामनुगतं च व्यापाररूपं प्रतिभासते परस्परविभक्तं
च यागादिरूपं यत्तदनुगतं व्यापाररूपं सा भावना, यथा च शाबलेयाद्यननुरक्तं
पृथक्त्वेन गोत्वं दर्शयितुमशक्यमेवमिहापि शुद्धं यज्याद्यननुरक्तं व्यापाररूपं
दर्शयितुमशक्यम्, तदूपरक्तत्वेन तस्य सर्वदाऽवगमान्न चैतावता तस्य ना-
स्तित्वं सुखदुःखाद्यवस्थानुगतस्येवात्मनः, तथा च किं करोतीत्यनवगतविशेष-
व्यापारसामान्यप्रश्ने सति पचति पठति इति तद्विशेषोत्तरवचनमनुगुणं भव-
तीति, तच्च सामान्यरूपमपि न गोत्वादिवत्क्रियात्ववद्वा सिद्धतया ऽवभासते येन
विधेर्विषयः स्यात्, •
अपि च यजेत दद्याज्जुहुयादिति सर्वत्र पूर्वापरीभूतस्वभावं तद्व्यापारसा-
मान्यमवगम्यते विधेश्च विषयतां प्रतिपद्यते तदिदं सकलधात्वर्थसाधारणं
साध्यमानावस्थं व्यापारसामान्यं भावनेत्युच्यते, तस्मिंश्च पक्षे धातुवाच्यत्व-
मपि भावनाया वक्तुं शक्यते, पाकादिशब्देभ्यो धातौ सत्यपि तदप्रतीतेर्न
धातुवाच्यत्वं भावनाया इति चेद् भवत्यादौ सत्यपि तर्हि प्रत्यये तदप्रतीतेः
प्रत्ययवाच्यत्वमपि न स्यात्, तदलमनेन निर्धारणप्रयत्नेन सर्वथा धातोर्वा
प्रत्ययाद्वा भावना ऽवगम्यते इति सिद्धम् ।
भावनायास्त्र्यंशापेक्षित्त्वम्—
सा धातोः प्रत्ययाद्वा ऽपि भावना ऽवगता सती ।
अपेक्षतेऽशत्रितयं किं केन कथमित्यदः ॥
भावयेदित्यवगते नूनमपेक्षात्रयं भवति किं भावयेत्केन भावयेत्कथं भाव-
येदिति, तत्र किमित्यपेक्षा स्वर्गकामपदेन पूर्यते किं भावयेत्स्वर्गमिति,
ननु स्वर्गकाम इति पुरुषनिर्देशो ऽयं न फलनिर्देशः, सत्यम् , स्वर्गपरस्त्वयं
निर्देशः, उक्तं हि निरतिशयप्रीतिवचनः स्वर्गशब्दः प्रीतिश्च नान्यार्थेत्यप्युक्तम् ,
साध्यत्वेन च स्वर्गः काम्यते इति स एव हि किमित्यंशे निपतति स्वर्गं भाव-
येदिति, स्वर्गं कामयते इति च व्युत्पत्तौ विस्पष्टमेव तस्य साध्यत्वम्, बहु-
व्रीहावपि तस्यैव साध्यत्वं विधिवृत्तपर्यालोचनयाऽवधार्यते,
एवं स्वर्गं भावयेदित्यवगते केन भावयेदित्यपेक्षायां यागेनेति सम्बध्यते,
ननु यागेनेति न श्रूयते किं तु यजेतेति तत्राख्यातपदं प्रकृतिप्रत्यया-
त्मकसमुदायरूपम्, तत्र लिङः प्रत्ययार्थस्य भावना वाच्येत्युक्तम्, यज्
इति तु धातुमात्रमवशिष्टं तस्य कृदन्तस्य तृतीयान्तस्य यागेनेति यो ऽर्थः
स कथमेकाकिना तेन प्रत्याय्येत, उच्यते भावना चेत्प्रत्ययार्थ इति सोढमा-
युष्मता यागेनेत्यभिसम्बन्धः सोढव्य एव यो हि तस्यां यथा सम्बन्द्धुं
योग्यः तमसौ तथा प्रतीक्षते नान्यथेति करणाकाङ्क्षापरिपूरणे सम्बन्धयोग्यो
यजिरिति तथैवैष भावनया ऽभिसम्बध्यते ।
अप्रातिपदिकत्वाद्धि तृतीया तत्र मा स्म भूत् ।
शब्दसामर्थ्यलभ्या तु नूनं करणता यजेः ॥
कस्य पुनः शब्दस्य सामर्थ्यमेतद्द्भावनावाचिन इति ब्रूमः, तृतीययैव कर-
णत्वमभिधानीयमिति नेयं राजाज्ञा ततस्तदवगतेस्तथा ऽभ्युपगम्यते एवमि-
हापि स्वर्गकामो यजेतेति तथा ऽवगतिर्भवन्ती किमिति न मृष्यते ।
आख्यातात्साध्यता या च धात्वर्थस्यावगम्यते ।
द्वितीया श्रूयते तत्र किं वा तदभिधायिनी ॥
नन्वेवं तर्हि धात्वर्थस्य साध्यताऽवगतेः किमित्यंशे यजिना पतितव्यं किं
भावयेद्यागमिति केनेत्यपेक्षिते वाक्यान्तरसमाहितं व्रीहिभिरित्यादि सम्बध्य-
ताम्, न पुनर्यजिः साध्यरूपव्यापाराभिधायिप्रत्ययोपसर्जनीभूतकर्मतामति-
प्रत्यासन्नामनादृत्य दूरवर्त्तिनीं करणतामधिरोढुमर्हति,
उच्यते स्यादेतदेवं यदि हि स्वर्गकाम इति न श्रूयेत तस्मिंस्तु श्रुते नैवं
भवितुमर्हति, कुतः—
स्वर्गे साध्यत्वसम्बन्धादलव्ध्वा साध्यताऽन्वयम् ।
यजिस्तदानुगुण्येन करणांशे च तिष्ठति ॥
स्वर्गस्य हि काम्यमानत्वात्प्रीत्यात्मकत्वेन चानन्यार्थत्वात्साध्यतायां यो-
ग्यत्वात्किमित्यंशोपनिपाते सिद्धे तत्रालब्धनिवेशो यजिस्तदपेक्षितं करणतामेव
योग्यत्वादवलम्बते ।
सामानाधिकरण्यं च ज्योतिष्टोमादिभिः पदैः ।
एवं सत्युपपद्येत करणत्वानुवादिभिः ॥
कर्मनामधेयत्वं ज्योतिष्टोमादीनां शब्दानामुक्तम् ,
ननु साध्यत्वपक्षासङ्गितामपि कर्मनामधेयानि भजन्ते अग्निहोत्रं जुहोतीति,
नैष दोषः, साध्य एव भवन्भावार्थः साधनतामवलम्बते तत्रापि हि स्वर्गभावना
यामग्निहोत्राख्यो होमः करणमेवान्यथा स्वर्गकामपदानन्वयप्रसङ्गादित्युक्तम् ,
नामधेयपदं तु किंचित् कर्मतामनुवदति अग्निहोत्रमित्यादि किञ्चित्करणतां
ज्योतिष्टोमेनेति, तस्माद्यजेः करणत्वेनैवान्वय इति सिद्धम् ,
यत्तु प्रत्यासन्नत्वात्साध्यांशोपनिपातितेत्युच्यते तदयुक्तम् , योग्यतावि-
रोधिनी प्रतिपत्तिः सम्बन्धकारणं न तद्विपरीता योग्यत्वं च स्वर्गस्यैव
साध्यतायां यजेश्च करणतायामित्युक्तम् ,
एवं यागेन भावयेदित्यवगते कथमित्यपेक्षायामितिकर्त्तव्यता तद्वाक्यप-
ठिता वाक्यान्तरनिवेशिता वा सम्बध्यते, तद्वाक्योपात्ता तावद्यथा "एतस्यैव
रेवतीषु वारवन्तीयमग्निष्टोम साम कृत्वा पशुकामो ह्येतेन यजेते"ति,
वाक्यान्तरोपात्ता "व्रीहीनवहन्ति" "तण्डुलान्विनष्टि" "समिधो यजति"
"तनूनपातं यजति" इति ।
इतिकर्त्तव्यता हीष्टा दृष्टादृष्टप्रयोजना ।
प्रायः सर्वत्र भावार्थे कथमंशोपपादिनी ॥
दृष्टोपकारद्वारेण सम्बन्धे पेषणादिका ।
इतिकर्त्तव्यता ज्ञेया सन्निपत्योपकारिणी ॥
भावार्थमनुगृह्णाति या त्वदृष्टेन वर्त्मना ।
समिदाद्यात्मिकामाहुस्तामारादुपकारिणीम् ॥
एवमंशत्रयाश्लेषलब्धानुष्ठानयोग्यताम् ।
भावनामीदृशीं प्राप्य वृत्तिर्विधिनिषेधयोः ॥
दर्शपूर्णमासाभ्यां यजेत स्वर्गकामः ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यत्रा-
नन्तरोक्तनीत्यैष वाक्यार्थो जातः दर्शपूर्णमासेन यागेन स्वर्गं भावयेदनयाऽ-
ग्न्यान्वाधानादिकयेतिकर्त्तव्यतयेति,
किमर्थं पुनर्विधिराश्रीयते वर्त्तमानापदेशिष्वप्याख्यातेषु भावना प्रतीयते
इति दर्शितवान्भवानतः किं विधिना, तस्य ह्याश्रयणं स्वर्गयागयोः साध्यसाध-
नभावबोधनाय प्रवृत्तिनिवृत्तिसिद्धये वा, साध्यसाधनसम्बन्धस्तावदाकाङ्क्षा-
सन्निधियोग्यतापर्यालोचनया वर्त्तमानापदेशिनो ऽप्याख्याताद्भावनावगमे सति
भवत्येवान्तरेणापि विधिम् , प्रवृत्तिरपीच्छानिबन्धना स्वर्गस्य साध्यत्वे यागस्य
च साधनत्वे ऽवधारिते यः स्वर्गमिच्छेत्स तत्सिद्धये प्रवर्त्तत एव यस्तु नेच्छे-
त्तस्य विधिरपि किं कुर्यात् , न ह्यप्रवर्त्तमानस्य पुंसो विधिनिगडे पदं निदधाति
रज्ज्वा वा बाहू बध्नाति निषेधाधिकारे ऽपि सुरापानब्राह्मणहननादेः प्रत्यवा-
यसाधनत्वावधारणात्तत्परिजिहीर्षया पुरुषो निवर्त्ततेति प्रवृत्तिनिवृत्त्योर्न कारणं
विधिरिति तदर्थमपि विधिपदाश्रयणमसांप्रतम् ,
३१२ न्यायमञ्जर्याम्
विधिस্বরূপनिरूपणम्--
कश्चायं विधिर्नामेत्येतदपि न विद्मः, ननु चाहुः--
विधेर्लक्षणमेतावदप्रवृत्तप्रवर्त्तनम् ।
अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः ॥
बाढं श्रुतो ऽयं श्लोकः किं तु को ऽसावप्रवृत्तप्रवर्त्तक इति न जानीमः,
प्रवर्त्तकस्वरूपे हि संशेरते प्रवादुका इति किं लिङादिः शब्द एव प्रवर्त्तकस्तद्व्या-
पारो वा तदर्थो विनियोगः फलं वा स्वर्गादिश्रेयः साधनत्वं वा रागादिर्वा प्रव-
र्तकस्वरूपाऽनवधारणाद्विधेरप्यनवधारणमिति, यत्तावदुक्तं किं विध्याश्रयो-
नेति तत्रोच्यते--
यदयं साधनत्वेन यजेरभिहितो ऽन्वयः ।
स्वर्गस्य च फलत्वेन स एव महिमा विधेः ॥
विधिवचनमन्तरेण हि स्वर्गकामो यजेतेति पुरुषलक्षणार्थः स्वर्गकामशब्दः
शुक्तौ होतेतिवत्स्यात, ततश्चैकपदोपादानलक्षणप्रत्यासत्तिसम्बन्धिनिसर्गघटित-
पूर्वापरीभूतस्वभावधात्वर्थसाध्यताऽतिक्रमेण दूरात्स्वर्गस्य साध्यत्वमन्यत्रोपस-
र्जनीभूतस्य कथं कल्पयितुं शक्यते, तस्मादेष विशिष्टः साध्यसाधनसम्बन्धो
विधिप्रसादलभ्य एव भवति नान्यथेति विधिराश्रयणीयः ।
कथं पुनर्विधिरेवममुं साध्यसाधनभावं बोधयति, इत्थं बोधयति स हि सप्र-
त्ययप्रवर्त्तकस्वभावः, न चापुरुषार्थरूपे व्यापारे पुरुषः प्रेर्यमाणो ऽपि सत्यप्र-
त्ययः प्रवर्त्तमाने ऽपि पुंसि प्रवर्त्तकत्वाख्यनिजस्वरूपसंकोचमाशङ्कमानो विधिः
पुरुषार्थस्वभावं स्वर्गं साध्यतया ऽवस्थापयति यागं चास्य साधनतया इति एवं
ह्यवबोधयतो ऽस्य प्रवर्त्तकत्वं निर्वहति ।
यत्तु दर्शिते स्वर्गादौ फले न प्रवर्त्तते चेत्पुरुषः किं विधिः कुर्यादिति तदप्य-
युक्तम्, न हि वात्यादिवत्पुरुषस्य प्रवर्त्तको विधिः वात्यादिः खलु सप्रत्ययमपि
तदितरमपि प्रवर्त्तयति विधिस्तु सप्रत्ययस्यैव प्रवर्त्तकः सप्रत्ययस्य चैतावत्प्रवर्त्तनं
यत्प्रवर्त्तितो ऽहमिति ज्ञानजननं न फलमदर्शयता विधिना सप्रत्ययस्य ज्ञानं जन-
यितुं शक्यं फले तु दर्शिते सति तदस्य ज्ञानं जनितमेव अनेन जनिते ज्ञाने
प्रमाणवृत्तेन प्रवर्त्तित एवासौ विधिना पुरुषः आलस्यादिना ऽनर्थित्वेन वा बहिः
प्रवृत्तिपर्यन्ततया चेन्न प्रवर्त्तते मा प्रवर्तिष्ट विधिना तु स्वकर्त्तव्यं कृतं प्रवर्त्तितः
अहमिति ज्ञानजननात्, अन्यो हि प्रवर्त्तनावगमो ऽन्यश्च बाह्यो व्यापारः ।
एवं विधिवशादेव साध्यसाधनभावधीः ।
सा हि प्रथमनिवृत्तप्रेरणाज्ञानपूर्विका ॥
यजेतेति प्रेरणा प्रतीयमाना साध्यसाधनसम्बन्धमनवबोधयन्ती विधौ न
प" or "कुन्तप". In fact, looking at the curve, it is "कुन्टप" or "कुन्तप". Let's look at line 26:
"कुन्टप" or "कुन्तप" - let's keep "कुन्टप" or "कुन्तप". Wait, look at 'ट' in 'दृष्टत्वात्' (L13), 'प्रवृत्तेरदर्शनात्' (L21): 'ट' has no loop, just a curl. 'त' has a loop. The letter in L26 has NO loop! It curls like 'ट'!
Wait, look at the bottom of the half-circle: it curls like a 'ट'. So "कुन्टप" is very plausible as a typo in the Sanskrit edition for whatever the author wrote, or "कुन्टप" itself. Let's look closely: "कुन्टप" or "कुन्तप". Let's type "कुन्टप" or "कुन्तप" - actually, "कुन्टप" is very accurate to the printed glyph, but wait, could it be "कुन्तप"? Notice 'त' in 'अन्तरेण' (L15) also has that shape in some fonts. Let's write "कुन्टप" or "कुन्तप" - wait, let's write "कुन्टप" or "कुन्तप"? Wait, look at the word: "कुन्टप".
Wait, let's check line 32:
"लि
३१४ न्यायमञ्जर्याम्
भावनाद्वैविध्यम्--
इह हि लिङादियुक्तेषु वाक्येषु द्वे भावने प्रतीयेते शब्दभावना ऽर्थ-
भावना चेति,
तत्रार्थभावना तावद्धात्वर्थातिरिक्तप्रयोजकव्यापारात्मिका दर्शितैव, यो
भवनक्रियाकर्तृविषयः प्रयोजकव्यापारः पुरुषस्थो यत्र भवनक्रियायाः कर्ता
स्वर्गादिः कर्मतामापद्यते सो ऽर्थभावनाशब्देनोच्यते व्याख्यातश्चासौ,
यस्तु शब्दगतः प्रयोजकव्यापारः यत्र पुरुषप्रवृत्तिः साध्यतां प्रतिपद्यते सा
शब्दभावना तथा ह्युक्तम् “अभिधाभावनामाहुरन्यामेव लिङादयः(१)” इति,
लिङन्तशब्दश्रवणे हि यथा यज्याद्यवच्छिन्नं स्वव्यापारं पुरुषो ऽधिगच्छति
तथा तदनुष्ठाने प्रेरितो ऽहमित्यपि प्रतिपद्यते तेनानुष्ठेयार्थप्रतिपादने इव प्रेरणा-
यामपि शब्दस्य सामर्थ्याद् भावनाद्वयप्रतिपादकं लिङादियुक्तं वाक्यमिष्यते,
ततः पुरुषव्यापारश्चार्थभावना शब्दव्यापारश्च शब्दभावना ऽवगम्यते, शब्द-
व्यापारात्मकत्वाच्च शब्दभावनाशब्देनाभिधीयते, अनवगता च सती न कार्याङ्ग-
मिति शब्देन सा ऽभिधीयते ऽपि, तदुक्तम् “अभिधत्ते करोति च” इति ।
शब्दभावनायास्त्र्यंशापेक्षित्त्वम्
ननु शब्दभावना ऽपि भावनाऽऽत्मकत्वादर्थभावनावदंशत्रयमपेक्षते एवेति
तदस्या दर्शयितव्यम् , उच्यते भव्यांशे तावदस्याः पुरुषप्रवृत्तिरुपनिपततीति
उक्तमेव पुरुषप्रेरणात्मको हि विधिः शब्दभावनेति तत्साध्या पुरुषप्रवृत्तिरेव तत्र
( १ ) तन्त्रवार्तिके अ० २ पा० १ सू० १ । 'अर्थात्मभावना त्वन्या सर्वा-
ख्यातस्य गोचरः' इत्युत्तरार्द्धम् , अयमभिप्रायः लिङाद्युच्चारणात् प्रागसिद्धस्य विधेः
अगृहीतसम्बन्धतया लिङ्पदवाच्यता न सम्भवतीति लिङाद्युच्चारणात्प्रागेव विधेः सि-
द्धिर्वक्तव्या ततश्च लिङो विधिपरत्वं न सम्भवतीतिशङ्कायां शब्दश्रवणानन्तरभावि प्रवृ-
त्तिहेतु प्रेषणाध्येषणादिव्यापारानुवृत्तप्रवर्तनासामान्यं लिङभिधत्ते इति निर्विशेषं न
सामान्यमिति न्यायेन तद्विशेषापेक्षायामपौरुषेये वेदे पुरुषधर्मस्य प्रेषणादेरसम्भवात्त-
द्व्यतिरिक्त एव विध्याख्यो विशेषः परिशेषाल्लक्षणया गम्यते इति सम्बन्धग्रहणान-
पेक्षत्वेन प्राक्सिद्ध्यनपेक्षणेनाविरुद्धा शब्दव्यापारता इत्युत्तरं सचयितुमभिधाशब्दः ।
कारिकाथस्तु अभिदधातीति अभिदधात्यनेनेति वा व्युत्पत्त्या अभिधा शब्दः तस्य
व्यापारो भावना । अन्यामित्यस्य परामित्यर्थः तथाच अन्यशब्देन शब्दभाव-
नायाः पाश्चात्यमभिदधताऽर्थभावनावषयत्वेन तदपेक्षत्वसूचनात् विध्यभिधायित्वं
नार्थभावनामभिधायित्वबाधकं किन्तु तत्साधकमिति सूचितम् अर्थयते इति अर्थः
कर्तरि एरच् अर्थशब्देन अर्थिनः पुरुषस्याभिधानं भावना च पुरुषधर्मः धर्मधर्मिणो-
श्चात्यन्तभेदाभावात् तादात्म्यं विवक्षित्वा अर्थात्मा चासौ भावना चेति विग्रहः इति।
! त्य!) ते(ta with e-matra) ति(ti) प्रवर्त्येतेति! Because प्रवर्त्येत+इति=प्रवर्त्येतेति(guṇa sandhi: a + i = e)! Sanskrit grammar confirms:पुरुषः प्रवर्त्येत+इति=पुरुषः प्रवर्त्येतेति`!
That is 100% correct!
- Now check line 13:
विधिभावेयनास्त्वेकप्रत्ययग्राह्यताकृतः ।- wait, let's re-examine that word:
Could it beविधिभावनयोस्त्वेक?
Let's look at the characters:
वि
धि
भा
Then:
Is itव?
Wait, look atवे: why would it beवे?
Look at the top of that letter: is there an e-matra?
Wait, look at line 13:
विधिभावेयनास्त्वेक?
Wait, look atभाthenव? No, wait!
Could it beविधिभावयोस्त्वेक?
Wait, where isन?
Look at the glyphs:
1:वि
त्थिता has only two syllables: त्थि and ता!
Wait, look at the image:
Glyph 1: त्थि
Glyph 2: रू?
Wait, look at the image, L33:
There is:
- first glyph: has i-matra, base is
त्थorत्त - second glyph: has a vertical bar with a left arm: wait, is it
रूorपा?
Wait, look at the text:
चित्ररूपयाis in the verse.
Could it beसमु-at end of L32?
Wait, why would it beसमुत्थिता सा बुद्धिर्जन्यत इति?
"प्रत्येकं पदजनितपदार्थबुद्धिजन्यविचित्रसंस्कारसमूहादेव समुत्थिता सा बुद्धिर्जन्यत इति ।"
"समुत्थिता सा बुद्धिर्जन्यत इति" -> "That cognition arises from the collection of impressions..."
Grammatically and semantically,समुत्थिता सा बुद्धिर्जन्यत इतिmakes sense, BUT wait, whyसमुत्थिता सा बुद्धिर्जन्यते? If it hasजन्यते, would it sayसमुत्थिता ... जन्यते? "समुत्थिता सा बुद्धिर्जन्यते" is redundant ("arisen, that cognition is produced")!
Wait, what about `चित्ररूपा
भावा तथा प्रथमपदज्ञानात्प्रभृति आ निराकाङ्क्षवाक्यार्थपरिच्छेदादेकैवेयं
शाब्दी प्रमितिः आह च—
“पदात्प्रभृति या चैषा प्रज्ञा ज्ञातुर्विजृम्भते ।
पुष्पिता सा पदार्थेषु वाक्यार्थेषु फलिष्यति” ॥
इति कृतमतिविस्तरेण,
सोऽयं वाक्यार्थः-भावनामाधेयः कर्तृव्यापारः, स्वर्गयागादिरर्थः, यस्तु
व्यापारः प्रेषणरूपो लिङादेर्वाच्यः कार्यो वा तं विधिं सङ्गिरन्ते ।
शब्दभावनाया वाक्यार्थत्वम्—
तदेतदनुमन्यमाना अन्ये प्रचक्षते योऽसौ शब्दभावनाख्यः शब्दव्यापारः
शब्दस्य कार्यों ऽभिधेयश्च तमभिदधतः कुर्वतो वा शब्दस्य व्यापारान्तरमस्ति
न वा, यदि तावन्नास्ति तदेष व्यापारान्तरनिरपेक्षस्स्वव्यापारमिवार्थमपि वदतु
विश्राम्यतु व्यापारकल्पना, अस्ति चेदेतदभिधाने व्यापारान्तरं तदा ऽनवस्था-
प्रतीकारः कश्चिदन्वेष्यः न चासौ दूरादपि लभ्यते भूतपरिस्पन्दव्यतिरिक्तव्या-
पारनिरासश्च प्रमाणसामान्यलक्षणे विस्तरेण कृत इत्यसौ मार्ग इहाप्यनुसरणीयः,
यश्चासौ व्यापारः क्रियते चाभिधीयते च स किं पूर्वमभिधीयते ततः क्रियते
पूर्वं वा क्रियते पश्चादभिधीयते युगपदेव वा ऽस्य करणाभिधाने इति, न तावत्पू-
र्वमभिधीयते अनुत्पन्नस्याभिधानानुपपत्तेः न ह्यजाते पुत्रे नामधेयकरणम् , अर्था-
संस्पर्शी च तथा सति शब्दः स्यात्, तत एव न युगपदुभयमनुत्पन्नत्वानपायात्
प्रयत्नगौरवप्रसङ्गाच्च, नापि कृत्वा ऽभिधानं विरम्य व्यापारासंवेदनात् ,
अपि चायं तपस्वी लिङादिः प्रत्ययः सत्यपि गोवृन्दारकत्वे कथम-
मुमतिबृहन्तं भारं वक्ष्यति कर्तारं च तत्संख्यां चाख्यास्यति अर्थभावना-
मभिधास्यते शब्दभावनां च करिष्यति तां च वदिष्यतीति दुर्बहो ऽयं भारः,
कश्चायं शब्दभावनामाधेयस्य विधेर्वाक्यार्थे भावनायामन्वय इति वक्तव्यम् ।
ननूक्त एवैकप्रत्ययाभिधेयत्वलक्षणः सम्बन्ध इति, न ब्रूम आभिधानिकः
सम्बन्धो नोक्त इति किं तु पुरुषव्यापारात्मिकाया अर्थभावनायाः प्रधानत्वेन
वाक्यार्थत्वात्तदपेक्ष्यमाणफलकरणेतिकर्त्तव्यतांशपूरणेन स्वर्गकामादिपदान्त-
राभिधेयो ऽर्थः समन्वेति गुणत्वेन शब्दव्यापारस्तु तदपेक्षितमन्यतममपि
नांशं पूरयितुमलमिति तत्र न गुणतामवलम्बते, न च द्वयोः प्रधानयोर्घटः पट
इतिवद्वा पचति पठतीतिवद्वा सम्बन्ध उपलभ्यते,
अथार्थभावना शब्दभावनाख्यस्य विधेर्विषयसमर्पणेन गुणतामवलम्बते
विधिः तर्हि शक्यार्थः न भावना तस्या अप्राधान्यात् , अतो भावनाद्वयं प्रत्य-
यार्थ इति न हृदयङ्गममेतत् ,
एकाभिधानाभिधेयत्वं न भावनयोरन्योन्यसमन्वये कारणम्, अश्वाः पादाः
३१८ न्यायमञ्जर्याम्
माषा इत्यादावदर्शनात्, किं च कस्थानुरोधेन द्वे भावने प्रत्ययवाच्ये इष्येते,
उच्यते लिङादिशब्दश्रवणे सति कार्ये च प्रेरणायां च न द्विरुत्पद्यते मतिः,
यद्येवमेक एव तादृशो ऽसौ लिङर्थो भवतु तदेकत्वाच्च न परस्परसमन्वयः
चिन्तयिष्यते, न च प्रत्यये ऽप्यतिभार आरोपयिष्यते ।
नियोगस्य वाक्यार्थत्वम्-
नन्वेकस्यापि लिङर्थस्य यदि शब्दः कार्यत्वं प्रेरणां च ब्रवीति ततस्तद-
वस्थ एवातिभारः, कश्चासावेकः कार्यात्मा प्रेरणात्मा च तस्यार्थः, उच्यते
यो लिङादेः प्रत्ययादवशिष्यते यमभिवदतो न तस्यातिभारो यत्र न तद्व्यतिरे-
केण प्रमाणान्तरं क्रमते स नियोगो नाम वाक्यार्थः, तथा हि शब्दव्यवहारतः
शब्दानामर्थे व्युत्पत्तिरित्यत्र तावदविवादः, एवं व्यवहारे च वाक्यार्थे वाक्य-
स्य व्युत्पत्तिर्वाक्येन सर्वत्र व्यवहारात्, तत्र यजेतेत्यादितिङन्तपदयुक्तेषु
वाक्येषु पदान्तराणामर्थः तावदास्ताम्, आख्यानार्थे ऽवगते तदानुगुण्ये-
नासौ स्थास्यति, आख्यातस्य च यजेतेत्येवमादेरर्थः परीक्ष्यमाणः प्रेरणात्मक
एवावतिष्ठते यतः पदान्तरसन्निधाने सत्यपि न प्रेरणाबुद्धिरुपजायते आख्या-
तपदश्रवणे सति सा जायते तस्मात्तस्यैव प्रेरणात्मको ऽर्थः, तत्रापि तु जुहो-
त्यादिधात्वन्तरोपजननापायपर्यालोचनया धातोस्तत्प्रतीतौ व्यभिचारात्प्रत्य-
यस्य चान्यभिचारात्तस्यैव सो ऽर्थ इति शस्यते, कः पुनरसावर्थः यस्मिन्सति
नियुक्तो ऽहमत्रेति प्रतिपद्यते पुरुषः सो ऽसावर्थ एव विधिरित्युच्यते, विधौ
हि लिङादिप्रत्ययं स्मरति पाणिनिः न धात्वर्थे यागादौ न कर्तृव्यापारे भाव-
नायां विधिश्च नाम प्रेरणात्मक एव, अत एव वर्तमानापदेशिकाख्यातजनि-
तप्रतीतिविलक्षणेयं प्रतीतिर्यजेतेति, अत्र हि प्रैष्यप्रैषयोः सम्बन्धो ऽवगम्यते,
किमन्यश्चात्र क्रियाकर्तृसम्बन्धो नावगम्यते, न ब्रूमः नावगम्यते इति किं तु
प्रैष्यप्रैषलक्षणो ऽपि सम्बन्धः प्रथममवगम्यते, प्रेषितो हि क्रियां कर्तुमुद्यच्छतीति,
ननु क्रियासम्बन्धितयैवासौ प्रेष्यते यजतां भवानिति सत्यम् क्रियास-
म्बन्धितयैव प्रेष्यते प्रेष्यते तु सः प्रेष्यते चेदयमन्यस्तर्हि सम्बन्धः क्रियास-
म्बन्धात्तूभयसम्बन्धित्वास्य राजगवीक्षीरवदवगमिष्यामः, यथा गौ राज्ञा
च सम्बध्यते क्षीरेण च या राजसम्बन्धिनी सा क्षीरसम्बन्धिनी या क्षीरसम्ब-
न्धिनो सा राजसम्बन्धिनी एवमिहापि पुरुषः प्रेषितेन च सम्भन्त्स्यते क्रियया
च, यः प्रेष्यते स करोति अथ यः करोति प्रेष्यते स इति,
ननु नेदमुभयं भवति प्रैषो ऽपि क्रियैव प्रवर्त्तनं हि कुर्वन्प्रवर्त्तयतीत्युच्यते
सो ऽयं क्रियासम्बन्ध एव भवति न ततो ऽन्यः प्रैष्यप्रैषसम्बन्ध इति, स्यादेत-
देवं यदि वाश्वादिवत् प्रवर्त्तने कर्ता लिङर्थस्स्यात्प्रेरितो ऽहमत्रेति तु ज्ञानजन-
कत्वं विधेः प्रवर्तकत्वम् स एष प्रवर्त्तनं ज्ञापयति न करोतीत्यन्य एवायं क्रि-
याकर्तृसम्बन्धात्प्रैषप्रैष्यसम्बन्धः ।
ननु ज्ञानमपि क्रियैव तत्करणे च पुनरपि स एवार्थं क्रियाकर्तृसम्बन्धः,
मैवम् , कारकज्ञापकयोर्भेदस्य सुप्रसिद्धत्वात् , इह च योऽयं यागपुरुषयोः क्रि-
याकर्तृसम्बन्धः अतोऽन्यं प्रैषप्रैष्यसम्बन्धमुपदर्शयितुं प्रवृत्ताः स्मः स ततो
विलक्षणः प्रदर्शित एव , वैलक्षण्येऽपि तस्य यथा कथं चित्तन्नाम क्रियमाणं
न वारयामः, भवत्वयमन्यः प्रैषप्रैष्यसम्बन्धः स तु प्रथममवगम्यते इत्येष कुतो
निश्चयः, उक्तमत्र प्रेषितोऽहमिति हि विदित्वा क्रियायां प्रवर्त्तते आचार्यचोदितः
करोमीति हि दृश्यते यजेतेति श्रुते नियुक्तोऽहमिति प्रथममवगच्छति ततो य-
जते, तेनायमाद्यः सम्बन्धः पाश्चात्त्यस्तु क्रियाकर्तृसम्बन्धः, तयोऽयं लिङर्थः
प्रथममवगम्यते प्रैषो नाम सा प्रेरणा स नियोगः स वाक्यार्थः,
ननु विधाविव निमन्त्रणादिषु लिङ्लोटावपि स्मर्येते एव, सत्यम् ते तु
प्रेरणाया एव औपाधिका अवान्तरभेदाः, समहीनज्यायोविषयप्रयोगापाधिनि-
बन्धन एष प्रेरणऽध्येषणादिभेदव्यवहारः, प्रेषणा तु सर्वानुस्यूता ऽवगम्यते
तदुक्तम् “प्रवर्त्तकत्वं तु शब्दार्थः सर्वत्रापरित्यागात्” इति,
णिजर्थलिङर्थप्रैषयोर्भिन्नत्वम्
स चायं लोडादीनामर्थः प्रैषो णिजर्थविलक्षणः प्रतीयते ।
ननु प्रयोजकव्यापारे णिज्विधीयते प्रयोजकव्यापारश्च प्रैषः प्रैषे च लोडा-
दयो विधीयन्ते इति णिजर्थ एव लोडर्थः तथा च कुरु कुर्विति यो ब्रूते स का-
रयतीत्युच्यते, न प्रतीतिभेदात् , अन्या हि करोतु कुर्यादिति प्रतीतिरन्या च
कारयतीति प्रतीतिः, प्रयोजकव्यापारो हि णिजर्थः ज्ञापकव्यापारस्तु लिङर्थः,
प्रवृत्तक्रियाविषयश्च प्रयोजकव्यापारो णिजर्थः इह तु तद्विपरीतः, तत्र हि कार्यं
पश्यतः प्रवर्त्तनमिह तु प्रवर्त्तितस्य कार्यदर्शनमिति महान्भेदः, तत्र यथा कुर्वन्तं
कारयति तथैवेहापि प्रैषः प्रवर्तमानं प्रेरयति नाप्रवर्तमानं स्थावरमिति न हि
वनस्पतिरुच्यते यजस्वेति, न स्थावरादेरयोग्यत्वात् ब्राह्मणादिस्तुः यः प्रेर्यते
असावप्रवृत्तक्रिय एव, न हि यजमान एव यजेतेति चोद्यते किं तु अप्रवृत्तक्रिय
एवेति सर्वथा णिजर्थाद्विलक्षणो लिङर्थः,
शब्दैकगोचरे नियोगे व्युत्पत्तिग्रहोपायः—
आह भवत्वयं विलक्षणो ऽर्थः स तुप्रमाणान्तरानवगम्यश्चेत्कथं शब्दैक-
गोचरे तत्र सम्बन्धव्युत्पत्तिः, उच्यते शब्दैकगोचरस्तु नियोगे व्युत्पत्तिश्च तत्र
सूपपादैव, यो हि यजेत दद्याज्जुहुयादिति लिङादिभ्यो विधिः प्रतीयते कथमसौ
लिङादीनामगम्य इष्येत, व्युत्पत्तिश्चास्य व्यवहारादवकल्पते गच्छाधीष्वेति
३१० न्यायमञ्जरीम्
शृण्वन्वृद्धः चेष्टमानो दृश्यते चेष्टा च स्वात्मनि प्रवर्त्तिका ऽवगमपूर्विका दृष्टा
प्रत्यक्षदृष्टे चान्नादौ सुखसाधनतया अन्वयव्यतिरेकाभ्यामवगते तदनुस्मरणा-
त्प्रवर्त्तमानः कस्मिंश्चिदात्माकूते समुपजाते सति भौतिकं व्यापारमारभते, स
चात्मधर्म आत्मैव स्वसंवेद्यः अहम्प्रत्ययगम्यो ह्यात्मा नासौ परस्मै दर्शयितुं
शक्यते न च चर्चयितुं शक्यते एतावता नानुभूयते इति शक्यते वक्तुं परोऽपि
ह्येनमहम्प्रत्ययेनानुभवत्येव, तथा ऽयमपि भौतिकव्यापारहेतुरात्माकूतविशेषो न
प्रमाणान्तरवेद्यो भवति न च न वेद्यते तत्संवेदने सति चेष्टा यद्धन्तं दृष्ट्वा तस्या-
पि तादृक्प्रेरणाऽवगमोऽनुमीयते,
स च शब्दान्तरश्रवणे सत्यदृश्यमानो लिङादिश्रवणे च सति दृश्यमान-
स्तदर्थ एवेत्यन्वयव्यतिरेकाभ्यामवगम्यते इतीयतीयं व्युत्पत्तिः, तदेतदात्मप्रत्यक्षं
लिङादिशब्दश्रवणे सति प्रेरणावगतिः भवति प्रथमश्रुताच लिङादेरसौ न भव-
ति न च प्रमाणान्तरेण सोऽर्थो दर्शयितुं शक्यते कुर्यादित्यस्यार्थः कुर्यादित्य-
नेनैव प्रतिपाद्यते न प्रमाणान्तरेणेत्येवं व्युत्पत्तौ सम्भवन्त्यामपि यैरगृहीतसम्बन्ध
एव लिङादिः स्वरूपसामर्थ्येनैव प्रेरक इष्यते तेऽत्यन्तभीरव इत्युपेक्षणीयाः ।
ननु यदि लिङादिव्यतिरेकेण नान्यतो नियोगे ऽवगम्यते कथमसौ नियो-
गशब्दात्प्रतीयते कथं वा नियोगशब्दस्य नाम्नोऽप्यर्थः प्रमाणान्तरागोचरः
स्यात्, अयि साधो न नियोगे निपूर्वेण युजिना घञन्तेन बोधयितुं शक्यते
व्यवहारमात्रमेतत्स्वरूपमाख्यातुमाश्रीयते यथा तु यजेतेत्येमादिभ्यः शब्देभ्यः
सोऽवगम्यते तथा नान्यत इत्यत एव न प्रमाणान्तरगोचरो धर्म इत्याहुः, लि-
ङधर्मो हि नियोगो वाक्यार्थः स धर्म एव स च न प्रमाणान्तरगम्य इति, न च
लिङर्थः प्रेरणाऽत्मको ऽयं व्यापारः कार्यमाचष्टे यो धर्मः स एव च वाक्यार्थो
युक्तः, कार्येऽर्थे वेदस्य प्रामाण्यमिति हि मीमांसकाः,
नियोगस्य शाब्दं प्रेरकत्वम्—
तस्मात्पुनरपि भाट्टपक्षवद् द्वयमापतति प्रेरकश्च विधिः कार्यरूपश्चानुष्ठे-
योऽर्थ इति, सुखशयितो निरनुसन्धान इत्यायुष्मानेवं व्यवहरति न ह्यन्यः
प्रेरको ऽन्यश्चानुष्ठेय इत्युक्तम्, नियोग एव प्रेरको नियोग एव चानुष्ठेयः,
कथमस्य द्वैरूप्यमन्ये वदन्तीति चेद्, मैवम् प्रेरकत्वमेव शब्दार्थः आर्थं तु
कार्यत्वम्, यतो विधिरनुष्ठेयतयाऽवगम्यते आचार्याज्ञां करोमि राजाज्ञां
करोमीति, किमर्थं तर्हि विषयानुष्ठानमिति चेद् न ह्याज्ञा घटादिवत्स्वरूपेण
कतु शक्याऽपि तु विषयद्वारकं तत्सम्पादनं कमण्डुलं बिभृहीत्याचार्येणाज्ञप्तः
कमण्डुलं भृत्वाऽऽचार्याज्ञां कृतां मन्यते कटकं गच्छेति राज्ञाऽऽज्ञप्तः कटकं
गत्वा राजाज्ञां कृतां मन्यते सोऽयं नियोग एवानुष्ठेयः ।
प्रमाणप्रकरणम् ३२१
ननु राजाज्ञया करोमीत्यपि व्यपदेशो दृश्यते स चानुष्ठेयमेवाज्ञां दर्शयति,
मैवम् तत्राप्याज्ञैवानुष्ठेया प्रेषणाभिप्रायेण तृतीयानिर्देश इत्येवं केचित्।
नियोगस्यार्थे प्रेरकत्वम् —
अन्ये तु शाब्दं कार्यत्वं नियोगस्य प्रेरकत्वं त्वर्थादित्याचक्षते, अनुष्ठेयता
हि तस्य निजं रूपं स्वसिद्धये स तु नियोज्यं नियुञ्जानः प्रेरक इत्युच्यते, तदिदं
कार्यत्वमपरित्यक्तप्रेरकभावमस्यावगम्यते प्रेरकत्वं चापरित्यक्तकार्यभावमित्य-
न्यतरदत्र शाब्दं रूपमिति न भाट्टैरिवास्माभिः प्रत्यये गुरुर्भार आरोपितः,
फलानपेक्षं विधेः प्रवर्तकत्वम् —
स चायं नियोगः प्रतीयमानो यजेत स्वर्गकाम इत्यनुबन्धद्वयावच्छिन्नः प्रती-
यते यज्यादिना ऽस्य विषयानुबन्धो धातुनोच्यते, स्वर्गकाम इत्यधिकारानुबन्धः
पदान्तरेणार्प्यते, तत्र च स्वर्गकामस्यैवमधिकारो निर्वहति यदि भावार्थस्य
स्वर्गं प्रति साधनत्वमवगम्यते एवं तर्हि स्वर्गकामेनैवासौ कृतो भवत्येवं स्वर्ग-
कामपदान्वये प्राक्तन एव मार्गो ऽनुमन्तव्यः, न पुनः स्वर्गादिफलप्रदर्शनपूर्वकं
विधेः प्रवर्त्तकत्वमस्वातन्त्र्यप्रसङ्गात् , न हीदृशं शास्त्रस्य दैन्यं यत्फलं विना
पुंसः प्रवर्त्तयितुं न शक्नोति अन्यथा यावज्जीवं यजेतेत्यादावप्रवर्त्तकं शास्त्रं
स्यात् , किं यावज्जीवमित्यादयश्चोदनाः फलशून्या एव, आंमित्युच्यते न हि
विधिः फलमाकाङ्क्षत्यपि तु नियोज्यं विषयं कस्य नियोगः कुत्र नियोग इति
ते एते उभे अपि आकाङ्क्षे परिपूर्णे तत्र जीवतो नियोगो यागे च नियोग
इति अतः परं फलकल्पनं पुरुषबुद्धिप्रभवं भवति न शास्त्रीयम् , कामाधिकारे
तु नियोज्यतैवान्यथा स्वर्गकामस्य नोपपद्यते इति स्वर्गस्य साध्यत्वमभ्युपगतं
न पुनर्विधेः फलार्थित्वादत एव न तत्र वैधी प्रवृत्तिर्लिप्सयैव प्रवृत्तत्वात् , आह
च तस्य लिप्सार्थलक्षणेति साध्यसाधनप्रतिपादनपर्यवसितो हि तत्र विधिर्व्या-
पारो न प्रयोगपर्यवसित इति,
अत एव श्येनादेरधर्मत्वात् तत्र ह्यभिचरन्निति शत्रा शत्रुं वैदिकेनो-
पायेन जिघांसुरधिकारी दर्शितः तस्य न तत्र शास्त्रं प्रवर्त्तकं जानात्येवासौ
मयैतत्कर्त्तव्यमुपायं तु न वेदेत्येवमुपायमात्रमस्योपदिश्यते श्येनं कुर्विति
न विधिः प्रभवति जिघांसयैव तत्र प्रवृत्तत्वात् , अतः श्येनादेरधर्मत्वा-
त्तद्व्युदासार्थमर्थपदोपादानम् , चोदनालक्षणो ऽर्थो धर्म इति,
कामाधिकारेष्वितिकर्त्तव्यतांशे शास्त्रीया प्रवृत्तिः, यथोक्तं "कथर्थो हि
शास्त्रादवगम्यते" इति भावार्थमात्रस्य हि करणत्वमवगतमितिकर्त्तव्यतांशस्तु
न करणत्वावगतिवेलायामुपनिपतित इति तत्र लिप्साया अभावाच्छास्त्रमेव
४१ न्या०
or ऽ?
It's definitely an avagraha: "प्रत्यवायाऽनपेक्षं"!
Because grammatically:
प्रत्यवाय + अनपेक्षम् = प्रत्यवायाऽनपेक्षम्!
With dirgha sandhi and avagraha to indicate the elided 'अ': प्रत्यवायाऽनपेक्षम्!
That is 100% standard Sanskrit orthography in these editions!
Now let's check the verses at the bottom (lines 27-32):
प्रतिषेधाधिकारे ऽपि प्रत्यवायो न कल्पते ।
निषेध्यविषयादेव लब्धत्वादधिकारिणः ॥
तत्रासौ कल्य्यमानो ऽपि नरकादिफलोदयः । -> wait, is it 'कल्प्यमानो' or 'कल्य्यमानो'?
Look at 'ल्प' in 'कल्पते' (line 27): 'ल्प' has ल joined with प.
In line 29: 'कल्य्यमानो' or 'कल्प्यमानो'?
In line 29: it is 'क', then 'ल्प्य' (ल् + प् + य = ल्प्य):
Wait, look at 'ल्प्य': ल on left, प in middle, य on right: कल्प्यमानो!
Yes: "तत्रासौ कल्प्यमानो ऽपि नरकादिफलोदयः ।"
अवैधत्वं प्रप
प्रमाणप्रकरणम् ३२३
निषेधविधिविषयनिरूपणम्—
नन्वेतावन्न विबुध्यामहे निषेधविधेः को विषय इति, भावार्थाः कर्मशब्दा ये
तेभ्यः क्रिया प्रतीयेत इति(१) स्थिते नञर्थस्तावत्पूर्वापरीभूतत्वाभावान्न विधे-
विषयः, अनन्विताभिधानाच्च न हि नञो ऽनन्तरं लिङ्विभक्तिः श्रूयते ऽपि
तु हन्तेः, हननमपि न विधेर्विषयः तस्य धर्मत्वप्रसङ्गात् , न प्रयोगस्य वैयर्थ्य-
प्रसक्तेर्हनने च पुरुषस्य स्वतः प्रवृत्तेर्नञ्विशिष्टो ऽपि न हन्त्यर्थो ऽस्य विषयः
तयोर्विशेषणविशेष्यभावाभावात् ।
युक्तं दध्ना जुहोतीति होमे दध्यनुरक्तता ।
हन्तेः स्वरूपनाशात्तु न नञर्थानुरक्तता ॥
पुरुषप्रयत्नो ऽपि न केवलो विधेर्विषयः स्वतः सिद्धत्वान्नापि नञर्थानुरक्तो
हन्तिवत्तत्रापि नञर्थस्य विशेषणत्वानुपपत्तेः,
अथायमब्राह्मणादिन्यायेन हन्तौ पर्युदस्ते भावार्थान्तरे नियोगः कल्प्यते,
न हन्यादिति कोऽर्थः अन्यत्किमपि कुर्यादिति तर्हि किं तद्भावान्तरमिति न
विचारयितुं शक्यते, यत्किं चिदिति चेन्न तस्य स्वतःसिद्धत्वेन विध्यानर्थक्यात् ,
अवश्यं जीवन्पुमान्किं चित्करोति पठति गच्छति भुङ्क्ते च,
अथ विषयांशं परिहृत्य प्रमाणांशे नञ् निविशते स हि प्रवर्तमानं पुमांसं
रुणद्धि यद्वम्यात्तन्नेति,
तदप्यनुपपन्नम् अन्विताभिधानेन विधिविभक्तेर्हन्तिनावरुद्धत्वात् , प्रेरणा-
शक्तिस्वभावो विधिः स्थितः यस्तु निषेधात्मा नञ् पार्श्वे स्थितः तत्र विधिः
संक्रामति, संक्रान्तावपि नञश्च विधेश्च सम्बन्धे सति विधेस्स्वरूपनाशोऽवग-
म्यते, स्वभावो ह्येष नञो यदयं येन येन सम्बध्यते तस्य तस्याभावं बोधयतीति,
अतो विधिसम्बन्धे नञ इष्यमाणे एतावान्वाक्यार्थो ऽवतिष्ठते हननविधिर्नो-
स्तीति, ततश्च हननस्य विधित्वं च स्यात् ,
अत्रोच्यते, दध्ना जुहोतीति होमस्य वचनान्तरचोदितत्वाद्विधिशक्ति-
रुपपदं संक्रामतीति यथावर्णितमेवमिहापि हनने स्वतः प्रवृत्तत्वेन विधिवैफ-
ल्यान्रञश्च श्रूयमाणस्यानर्थक्यप्रसङ्गाद् विधायिका शक्तिः नञर्थमेव स्पृशति
इति किं नेष्यते ।
ननूक्तमत्र भावार्थः कर्मशब्द इति तत्र दध्यनुरक्तो होम एव विधीयते इति
फलतो विधिविहितं भवति न प्रमाणतः इह तु नञ्स्तदुपमर्दस्वभावत्वान्न केन
चित्संसर्गो दध्यादेरिव कल्पते, मैवम् निवृत्तिमेव कुर्वन्नञ्विशेषणं विशेषणीम-
( १ ) "भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते" जै०
अ० २ पा० १ सू० १ ।
वति सेयं नञुपहिते हन्तौ श्रुते हनननिवृत्तिर्गम्यते, यथा सिद्धरूपदध्यनुप्रवेशे
ऽपि न होमस्य साध्यमानावस्था निवर्त्तते तथा नञनुविद्धहन्त्यर्थावगतौ न
पूर्वापरीभावबुद्धिनिवर्त्तते, न ह्यब्राह्मणवन्न हन्यादिति सिद्धरूपबुद्धिः, सोऽयं ह-
नननिवृत्तिरूपः पूर्वापरीभूतोऽर्थो विधिविषयो भविष्यति, अथवा विभक्त्यर्थेन
नञ्सम्पत्स्यति शुद्धस्य लिङादेरर्थः प्रवर्त्तकः नञुपहितस्य तस्यार्थो निवर्त्तक इति
शब्दशक्तिरेवैषा कोऽत्र पर्यनुयुज्यते इति ।
यत्तु साक्षान्नञोऽनन्तरं विधिविभक्तिर्नोत्पद्यते तत्तस्याधातुत्वाद्धातोः परे
तिङादयः प्रत्यया भवन्ति नान्यस्मादिति योग्यतया तु नञर्थेन सम्बन्धः, न च
तत्रायमर्थोऽवतिष्ठते हननविधिर्नास्तीति किं तु नञुपहिते विधिरौदास्ये पुरुषं
नियुङ्क्ते तदवच्छेदकश्च हन्तिरन्यथा सर्वक्रियौदासीन्यं प्रतीयेतेत्यलमतिवि-
मर्द्देन निषेधविधेरपि सिद्धोऽनुबन्धद्वययोगः ।
एवं नियोगव्यापारे समाप्ते फलकल्पना ।
नृबुद्धिप्रभवैव स्यादतः सापेक्षता भवेत् ॥
कथं नरो निवर्त्तेत प्रत्यवायभयाद्विना ।
मा निवर्त्तिष्ट विधिना तावदुक्तं निवर्त्तनम् ॥
प्रवृद्धतररागान्धः प्रत्यवायेऽपि कल्पिते ।
न निवर्तेत इत्येवं किं विधेरप्रमाणता ॥
फलं भवतु मा वा भूतपुरुषोऽपि प्रवर्त्तताम् ।
मा प्रवर्त्तिष्ट वा स्वे तु नास्त्यर्थे खण्डना विधेः ॥
प्रवर्त्तनावगमजनने हि विधिव्यापार इति असकृदुक्तम् , तत्र तस्य न किं
चिद्वैकल्यम् ।
ननु विधेः फलापेक्षता नास्ति चेत्किं तर्हि अश्रूयमाणफलेषु विश्वजिदा-
दिषु स्वर्गादिफलं कल्प्यते, उच्यते अश्रूयमाणत्वादधिकारानुबन्धस्य निरधि-
कारस्य च विधेर्विधित्वानिर्वाहादधिकारानुबन्धः कल्प्यते तत्र सर्वान्प्रति
अविशिष्टत्वात्स्वर्गकामः चोदनाशेषभावेन नियोज्यः कल्प्यते, न चेयं पौरुषी
कल्पना श्रुत्येकदेशः स इति हि तद्विदः, तदियमधिकारानुबन्धकल्पना न
फलकल्पना इति सोऽयमनुबन्धद्वयावच्छिन्नो नियोगो वाक्यार्थः,
वाक्यार्थत्वं चास्य प्रधानत्वाद् अन्यो हि यज्यादिरर्थोऽवगम्यमानस्तदनु-
प्रवेशेन प्रतीयते गुणो भवति, नियोगस्तु स्वमहिमान्विततदृष्टोपकारानेकक्रिया-
कारककलापोपबृंहितस्वरूपः प्रतीयते इति प्राधान्यमवलम्बते, कार्यं चेत्प्रधान-
मुच्यते नियोग एव कार्यम् , फलं चेत्प्रधानमुच्यते तदपि नासिद्धम् , अपि तु
साध्यं साध्यत्वं चास्य नियोगाधीनमिति नियोग एव प्रधानम् , पुरुषस्तु नि-
योज्यमानत्वादप्रधानमिति, एवं नियोग एव प्रधानत्वाद्वाक्यार्थः ।