सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 333, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 333

यामग्निहोत्राख्यो होमः करणमेवान्यथा स्वर्गकामपदानन्वयप्रसङ्गादित्युक्तम् ,
नामधेयपदं तु किंचित् कर्मतामनुवदति अग्निहोत्रमित्यादि किञ्चित्करणतां
ज्योतिष्टोमेनेति, तस्माद्यजेः करणत्वेनैवान्वय इति सिद्धम् ,
यत्तु प्रत्यासन्नत्वात्साध्यांशोपनिपातितेत्युच्यते तदयुक्तम् , योग्यतावि-
रोधिनी प्रतिपत्तिः सम्बन्धकारणं न तद्विपरीता योग्यत्वं च स्वर्गस्यैव
साध्यतायां यजेश्च करणतायामित्युक्तम् ,
एवं यागेन भावयेदित्यवगते कथमित्यपेक्षायामितिकर्त्तव्यता तद्वाक्यप-
ठिता वाक्यान्तरनिवेशिता वा सम्बध्यते, तद्वाक्योपात्ता तावद्यथा "एतस्यैव
रेवतीषु वारवन्तीयमग्निष्टोम साम कृत्वा पशुकामो ह्येतेन यजेते"ति,
वाक्यान्तरोपात्ता "व्रीहीनवहन्ति" "तण्डुलान्विनष्टि" "समिधो यजति"
"तनूनपातं यजति" इति ।
इतिकर्त्तव्यता हीष्टा दृष्टादृष्टप्रयोजना ।
प्रायः सर्वत्र भावार्थे कथमंशोपपादिनी ॥
दृष्टोपकारद्वारेण सम्बन्धे पेषणादिका ।
इतिकर्त्तव्यता ज्ञेया सन्निपत्योपकारिणी ॥
भावार्थमनुगृह्णाति या त्वदृष्टेन वर्त्मना ।
समिदाद्यात्मिकामाहुस्तामारादुपकारिणीम् ॥
एवमंशत्रयाश्लेषलब्धानुष्ठानयोग्यताम् ।
भावनामीदृशीं प्राप्य वृत्तिर्विधिनिषेधयोः ॥
दर्शपूर्णमासाभ्यां यजेत स्वर्गकामः ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यत्रा-
नन्तरोक्तनीत्यैष वाक्यार्थो जातः दर्शपूर्णमासेन यागेन स्वर्गं भावयेदनयाऽ-
ग्न्यान्वाधानादिकयेतिकर्त्तव्यतयेति,
किमर्थं पुनर्विधिराश्रीयते वर्त्तमानापदेशिष्वप्याख्यातेषु भावना प्रतीयते
इति दर्शितवान्भवानतः किं विधिना, तस्य ह्याश्रयणं स्वर्गयागयोः साध्यसाध-
नभावबोधनाय प्रवृत्तिनिवृत्तिसिद्धये वा, साध्यसाधनसम्बन्धस्तावदाकाङ्क्षा-
सन्निधियोग्यतापर्यालोचनया वर्त्तमानापदेशिनो ऽप्याख्याताद्भावनावगमे सति
भवत्येवान्तरेणापि विधिम् , प्रवृत्तिरपीच्छानिबन्धना स्वर्गस्य साध्यत्वे यागस्य
च साधनत्वे ऽवधारिते यः स्वर्गमिच्छेत्स तत्सिद्धये प्रवर्त्तत एव यस्तु नेच्छे-
त्तस्य विधिरपि किं कुर्यात् , न ह्यप्रवर्त्तमानस्य पुंसो विधिनिगडे पदं निदधाति
रज्ज्वा वा बाहू बध्नाति निषेधाधिकारे ऽपि सुरापानब्राह्मणहननादेः प्रत्यवा-
यसाधनत्वावधारणात्तत्परिजिहीर्षया पुरुषो निवर्त्ततेति प्रवृत्तिनिवृत्त्योर्न कारणं
विधिरिति तदर्थमपि विधिपदाश्रयणमसांप्रतम् ,