न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 346, कुल 654 में से
संदर्भ में पढ़ेंवति सेयं नञुपहिते हन्तौ श्रुते हनननिवृत्तिर्गम्यते, यथा सिद्धरूपदध्यनुप्रवेशे
ऽपि न होमस्य साध्यमानावस्था निवर्त्तते तथा नञनुविद्धहन्त्यर्थावगतौ न
पूर्वापरीभावबुद्धिनिवर्त्तते, न ह्यब्राह्मणवन्न हन्यादिति सिद्धरूपबुद्धिः, सोऽयं ह-
नननिवृत्तिरूपः पूर्वापरीभूतोऽर्थो विधिविषयो भविष्यति, अथवा विभक्त्यर्थेन
नञ्सम्पत्स्यति शुद्धस्य लिङादेरर्थः प्रवर्त्तकः नञुपहितस्य तस्यार्थो निवर्त्तक इति
शब्दशक्तिरेवैषा कोऽत्र पर्यनुयुज्यते इति ।
यत्तु साक्षान्नञोऽनन्तरं विधिविभक्तिर्नोत्पद्यते तत्तस्याधातुत्वाद्धातोः परे
तिङादयः प्रत्यया भवन्ति नान्यस्मादिति योग्यतया तु नञर्थेन सम्बन्धः, न च
तत्रायमर्थोऽवतिष्ठते हननविधिर्नास्तीति किं तु नञुपहिते विधिरौदास्ये पुरुषं
नियुङ्क्ते तदवच्छेदकश्च हन्तिरन्यथा सर्वक्रियौदासीन्यं प्रतीयेतेत्यलमतिवि-
मर्द्देन निषेधविधेरपि सिद्धोऽनुबन्धद्वययोगः ।
एवं नियोगव्यापारे समाप्ते फलकल्पना ।
नृबुद्धिप्रभवैव स्यादतः सापेक्षता भवेत् ॥
कथं नरो निवर्त्तेत प्रत्यवायभयाद्विना ।
मा निवर्त्तिष्ट विधिना तावदुक्तं निवर्त्तनम् ॥
प्रवृद्धतररागान्धः प्रत्यवायेऽपि कल्पिते ।
न निवर्तेत इत्येवं किं विधेरप्रमाणता ॥
फलं भवतु मा वा भूतपुरुषोऽपि प्रवर्त्तताम् ।
मा प्रवर्त्तिष्ट वा स्वे तु नास्त्यर्थे खण्डना विधेः ॥
प्रवर्त्तनावगमजनने हि विधिव्यापार इति असकृदुक्तम् , तत्र तस्य न किं
चिद्वैकल्यम् ।
ननु विधेः फलापेक्षता नास्ति चेत्किं तर्हि अश्रूयमाणफलेषु विश्वजिदा-
दिषु स्वर्गादिफलं कल्प्यते, उच्यते अश्रूयमाणत्वादधिकारानुबन्धस्य निरधि-
कारस्य च विधेर्विधित्वानिर्वाहादधिकारानुबन्धः कल्प्यते तत्र सर्वान्प्रति
अविशिष्टत्वात्स्वर्गकामः चोदनाशेषभावेन नियोज्यः कल्प्यते, न चेयं पौरुषी
कल्पना श्रुत्येकदेशः स इति हि तद्विदः, तदियमधिकारानुबन्धकल्पना न
फलकल्पना इति सोऽयमनुबन्धद्वयावच्छिन्नो नियोगो वाक्यार्थः,
वाक्यार्थत्वं चास्य प्रधानत्वाद् अन्यो हि यज्यादिरर्थोऽवगम्यमानस्तदनु-
प्रवेशेन प्रतीयते गुणो भवति, नियोगस्तु स्वमहिमान्विततदृष्टोपकारानेकक्रिया-
कारककलापोपबृंहितस्वरूपः प्रतीयते इति प्राधान्यमवलम्बते, कार्यं चेत्प्रधान-
मुच्यते नियोग एव कार्यम् , फलं चेत्प्रधानमुच्यते तदपि नासिद्धम् , अपि तु
साध्यं साध्यत्वं चास्य नियोगाधीनमिति नियोग एव प्रधानम् , पुरुषस्तु नि-
योज्यमानत्वादप्रधानमिति, एवं नियोग एव प्रधानत्वाद्वाक्यार्थः ।