सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 341, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 341

कत्वं विधेः प्रवर्तकत्वम् स एष प्रवर्त्तनं ज्ञापयति न करोतीत्यन्य एवायं क्रि-
याकर्तृसम्बन्धात्प्रैषप्रैष्यसम्बन्धः ।
ननु ज्ञानमपि क्रियैव तत्करणे च पुनरपि स एवार्थं क्रियाकर्तृसम्बन्धः,
मैवम् , कारकज्ञापकयोर्भेदस्य सुप्रसिद्धत्वात् , इह च योऽयं यागपुरुषयोः क्रि-
याकर्तृसम्बन्धः अतोऽन्यं प्रैषप्रैष्यसम्बन्धमुपदर्शयितुं प्रवृत्ताः स्मः स ततो
विलक्षणः प्रदर्शित एव , वैलक्षण्येऽपि तस्य यथा कथं चित्तन्नाम क्रियमाणं
न वारयामः, भवत्वयमन्यः प्रैषप्रैष्यसम्बन्धः स तु प्रथममवगम्यते इत्येष कुतो
निश्चयः, उक्तमत्र प्रेषितोऽहमिति हि विदित्वा क्रियायां प्रवर्त्तते आचार्यचोदितः
करोमीति हि दृश्यते यजेतेति श्रुते नियुक्तोऽहमिति प्रथममवगच्छति ततो य-
जते, तेनायमाद्यः सम्बन्धः पाश्चात्त्यस्तु क्रियाकर्तृसम्बन्धः, तयोऽयं लिङर्थः
प्रथममवगम्यते प्रैषो नाम सा प्रेरणा स नियोगः स वाक्यार्थः,
ननु विधाविव निमन्त्रणादिषु लिङ्लोटावपि स्मर्येते एव, सत्यम् ते तु
प्रेरणाया एव औपाधिका अवान्तरभेदाः, समहीनज्यायोविषयप्रयोगापाधिनि-
बन्धन एष प्रेरणऽध्येषणादिभेदव्यवहारः, प्रेषणा तु सर्वानुस्यूता ऽवगम्यते
तदुक्तम् “प्रवर्त्तकत्वं तु शब्दार्थः सर्वत्रापरित्यागात्” इति,

णिजर्थलिङर्थप्रैषयोर्भिन्नत्वम्

स चायं लोडादीनामर्थः प्रैषो णिजर्थविलक्षणः प्रतीयते ।
ननु प्रयोजकव्यापारे णिज्विधीयते प्रयोजकव्यापारश्च प्रैषः प्रैषे च लोडा-
दयो विधीयन्ते इति णिजर्थ एव लोडर्थः तथा च कुरु कुर्विति यो ब्रूते स का-
रयतीत्युच्यते, न प्रतीतिभेदात् , अन्या हि करोतु कुर्यादिति प्रतीतिरन्या च
कारयतीति प्रतीतिः, प्रयोजकव्यापारो हि णिजर्थः ज्ञापकव्यापारस्तु लिङर्थः,
प्रवृत्तक्रियाविषयश्च प्रयोजकव्यापारो णिजर्थः इह तु तद्विपरीतः, तत्र हि कार्यं
पश्यतः प्रवर्त्तनमिह तु प्रवर्त्तितस्य कार्यदर्शनमिति महान्भेदः, तत्र यथा कुर्वन्तं
कारयति तथैवेहापि प्रैषः प्रवर्तमानं प्रेरयति नाप्रवर्तमानं स्थावरमिति न हि
वनस्पतिरुच्यते यजस्वेति, न स्थावरादेरयोग्यत्वात् ब्राह्मणादिस्तुः यः प्रेर्यते
असावप्रवृत्तक्रिय एव, न हि यजमान एव यजेतेति चोद्यते किं तु अप्रवृत्तक्रिय
एवेति सर्वथा णिजर्थाद्विलक्षणो लिङर्थः,

शब्दैकगोचरे नियोगे व्युत्पत्तिग्रहोपायः—

आह भवत्वयं विलक्षणो ऽर्थः स तुप्रमाणान्तरानवगम्यश्चेत्कथं शब्दैक-
गोचरे तत्र सम्बन्धव्युत्पत्तिः, उच्यते शब्दैकगोचरस्तु नियोगे व्युत्पत्तिश्च तत्र
सूपपादैव, यो हि यजेत दद्याज्जुहुयादिति लिङादिभ्यो विधिः प्रतीयते कथमसौ
लिङादीनामगम्य इष्येत, व्युत्पत्तिश्चास्य व्यवहारादवकल्पते गच्छाधीष्वेति