सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 343, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 343

प्रमाणप्रकरणम् ३२१
ननु राजाज्ञया करोमीत्यपि व्यपदेशो दृश्यते स चानुष्ठेयमेवाज्ञां दर्शयति,
मैवम् तत्राप्याज्ञैवानुष्ठेया प्रेषणाभिप्रायेण तृतीयानिर्देश इत्येवं केचित्।
नियोगस्यार्थे प्रेरकत्वम् —
अन्ये तु शाब्दं कार्यत्वं नियोगस्य प्रेरकत्वं त्वर्थादित्याचक्षते, अनुष्ठेयता
हि तस्य निजं रूपं स्वसिद्धये स तु नियोज्यं नियुञ्जानः प्रेरक इत्युच्यते, तदिदं
कार्यत्वमपरित्यक्तप्रेरकभावमस्यावगम्यते प्रेरकत्वं चापरित्यक्तकार्यभावमित्य-
न्यतरदत्र शाब्दं रूपमिति न भाट्टैरिवास्माभिः प्रत्यये गुरुर्भार आरोपितः,
फलानपेक्षं विधेः प्रवर्तकत्वम् —
स चायं नियोगः प्रतीयमानो यजेत स्वर्गकाम इत्यनुबन्धद्वयावच्छिन्नः प्रती-
यते यज्यादिना ऽस्य विषयानुबन्धो धातुनोच्यते, स्वर्गकाम इत्यधिकारानुबन्धः
पदान्तरेणार्प्यते, तत्र च स्वर्गकामस्यैवमधिकारो निर्वहति यदि भावार्थस्य
स्वर्गं प्रति साधनत्वमवगम्यते एवं तर्हि स्वर्गकामेनैवासौ कृतो भवत्येवं स्वर्ग-
कामपदान्वये प्राक्तन एव मार्गो ऽनुमन्तव्यः, न पुनः स्वर्गादिफलप्रदर्शनपूर्वकं
विधेः प्रवर्त्तकत्वमस्वातन्त्र्यप्रसङ्गात् , न हीदृशं शास्त्रस्य दैन्यं यत्फलं विना
पुंसः प्रवर्त्तयितुं न शक्नोति अन्यथा यावज्जीवं यजेतेत्यादावप्रवर्त्तकं शास्त्रं
स्यात् , किं यावज्जीवमित्यादयश्चोदनाः फलशून्या एव, आंमित्युच्यते न हि
विधिः फलमाकाङ्क्षत्यपि तु नियोज्यं विषयं कस्य नियोगः कुत्र नियोग इति
ते एते उभे अपि आकाङ्क्षे परिपूर्णे तत्र जीवतो नियोगो यागे च नियोग
इति अतः परं फलकल्पनं पुरुषबुद्धिप्रभवं भवति न शास्त्रीयम् , कामाधिकारे
तु नियोज्यतैवान्यथा स्वर्गकामस्य नोपपद्यते इति स्वर्गस्य साध्यत्वमभ्युपगतं
न पुनर्विधेः फलार्थित्वादत एव न तत्र वैधी प्रवृत्तिर्लिप्सयैव प्रवृत्तत्वात् , आह
च तस्य लिप्सार्थलक्षणेति साध्यसाधनप्रतिपादनपर्यवसितो हि तत्र विधिर्व्या-
पारो न प्रयोगपर्यवसित इति,
अत एव श्येनादेरधर्मत्वात् तत्र ह्यभिचरन्निति शत्रा शत्रुं वैदिकेनो-
पायेन जिघांसुरधिकारी दर्शितः तस्य न तत्र शास्त्रं प्रवर्त्तकं जानात्येवासौ
मयैतत्कर्त्तव्यमुपायं तु न वेदेत्येवमुपायमात्रमस्योपदिश्यते श्येनं कुर्विति
न विधिः प्रभवति जिघांसयैव तत्र प्रवृत्तत्वात् , अतः श्येनादेरधर्मत्वा-
त्तद्व्युदासार्थमर्थपदोपादानम् , चोदनालक्षणो ऽर्थो धर्म इति,
कामाधिकारेष्वितिकर्त्तव्यतांशे शास्त्रीया प्रवृत्तिः, यथोक्तं "कथर्थो हि
शास्त्रादवगम्यते" इति भावार्थमात्रस्य हि करणत्वमवगतमितिकर्त्तव्यतांशस्तु
न करणत्वावगतिवेलायामुपनिपतित इति तत्र लिप्साया अभावाच्छास्त्रमेव
४१ न्या०