सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 331, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 331

प्रमाणप्रकरणम् ३७९
स यत्नो यागहोमादिक्रियानिर्वृत्तिकारणम् ।
तस्य तद्व्यतिरिक्तत्वं प्रायः सर्वो ऽनुमन्यते ॥
स चायमात्मधर्मो ऽपि न विभुत्वादिवन्मतः ।
साध्यरूपाभिसम्बन्धाद्धत्ते विषयतां विभोः ॥
इत्यपरे ।
अन्ये धात्वर्थसामान्यं भावनामभ्युपागमन् ।
यागदानाद्यनुस्यूतं रूपं गोत्वादिजातिवत् ॥
यथा हि शाबलेयादिष्वनुगतं गोरूपमवभासते व्यावृत्तं च शावलेयादि-
रूपमेवमिहापि यागादिकर्मणामनुगतं च व्यापाररूपं प्रतिभासते परस्परविभक्तं
च यागादिरूपं यत्तदनुगतं व्यापाररूपं सा भावना, यथा च शाबलेयाद्यननुरक्तं
पृथक्त्वेन गोत्वं दर्शयितुमशक्यमेवमिहापि शुद्धं यज्याद्यननुरक्तं व्यापाररूपं
दर्शयितुमशक्यम्, तदूपरक्तत्वेन तस्य सर्वदाऽवगमान्न चैतावता तस्य ना-
स्तित्वं सुखदुःखाद्यवस्थानुगतस्येवात्मनः, तथा च किं करोतीत्यनवगतविशेष-
व्यापारसामान्यप्रश्ने सति पचति पठति इति तद्विशेषोत्तरवचनमनुगुणं भव-
तीति, तच्च सामान्यरूपमपि न गोत्वादिवत्क्रियात्ववद्वा सिद्धतया ऽवभासते येन
विधेर्विषयः स्यात्, •
अपि च यजेत दद्याज्जुहुयादिति सर्वत्र पूर्वापरीभूतस्वभावं तद्व्यापारसा-
मान्यमवगम्यते विधेश्च विषयतां प्रतिपद्यते तदिदं सकलधात्वर्थसाधारणं
साध्यमानावस्थं व्यापारसामान्यं भावनेत्युच्यते, तस्मिंश्च पक्षे धातुवाच्यत्व-
मपि भावनाया वक्तुं शक्यते, पाकादिशब्देभ्यो धातौ सत्यपि तदप्रतीतेर्न
धातुवाच्यत्वं भावनाया इति चेद् भवत्यादौ सत्यपि तर्हि प्रत्यये तदप्रतीतेः
प्रत्ययवाच्यत्वमपि न स्यात्, तदलमनेन निर्धारणप्रयत्नेन सर्वथा धातोर्वा
प्रत्ययाद्वा भावना ऽवगम्यते इति सिद्धम् ।
भावनायास्त्र्यंशापेक्षित्त्वम्—
सा धातोः प्रत्ययाद्वा ऽपि भावना ऽवगता सती ।
अपेक्षतेऽशत्रितयं किं केन कथमित्यदः ॥
भावयेदित्यवगते नूनमपेक्षात्रयं भवति किं भावयेत्केन भावयेत्कथं भाव-
येदिति, तत्र किमित्यपेक्षा स्वर्गकामपदेन पूर्यते किं भावयेत्स्वर्गमिति,
ननु स्वर्गकाम इति पुरुषनिर्देशो ऽयं न फलनिर्देशः, सत्यम् , स्वर्गपरस्त्वयं
निर्देशः, उक्तं हि निरतिशयप्रीतिवचनः स्वर्गशब्दः प्रीतिश्च नान्यार्थेत्यप्युक्तम् ,
साध्यत्वेन च स्वर्गः काम्यते इति स एव हि किमित्यंशे निपतति स्वर्गं भाव-