सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 328, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 328

३०६ न्यायमञ्जर्याम्
लभतामिति यतते पुरुषः किं तु स्वोपभोग्यतयैव सर्वमभिलषतीति अतस्त-
स्यापि तदर्थत्वान्न प्राधान्यम् , आह च(१) "फलं च पुरुषार्थत्वात्" इति,
हन्त तर्हि पुरुष एव वाक्यार्थो भवतु स ह्यनन्यनिष्ठः स्वतन्त्रत्वात् ,
उच्यते, पुरुषो ऽप्यौदुम्बरीसंमार्जनादिषु विनियुज्यते एव यजमानसंमिता औ-
दुम्बरी भवतीति तस्यापि तदर्थत्वमुक्तं च(२) "पुरुषश्च कर्मार्थत्वात्" इति,
क्रियाफलपुरुषाणां वाक्यार्थत्वनिराकरणम्-
यद्येवं संकटे पतिताः स्मः न विद्मः किं विदध्महे क्रिया हि फलार्था फलं
च पुरुषार्थं पुरुषः क्रियार्थ इति परिवर्तमाने चक्रे कस्य प्राधान्यं शिष्मः कस्य
वाक्यार्थत्वम् ,
उच्यते, पुरुषस्तावन्न वाक्यार्थः आख्यातवाच्यत्वे एव तस्य विवदन्ते
का कथा वाक्यार्थत्वस्य, ननु कर्त्तरि लकार इति स्मरणात्कथं नाख्यातवाच्यः
कर्त्ता, को ऽयं लकारो नाम, स हि वर्त्तमाने लडिति विधाय कर्त्तरि शप्
युष्मदिं मध्यमः अस्मद्युत्तमः शेषे प्रथमः तिप्तस्झीति बहुषु बहुवचनं द्व्येक-
योर्द्विवचनैकवचने इति वाक्यान्तरे विभज्य विवृतः, तदेतानि कारकसंख्या-
विभक्तिविधायीनि सूत्राण्येकवाक्यतया व्याख्यातव्यानि एकार्थविषयत्वात्, एको
हि पचतीत्यादिशब्दस्तैर्व्याक्रियते तदेवमेष वाक्यार्थो भवति, कर्तुरे कत्वे एक-
वचनं तिप् कर्तृद्वित्वे द्विवचनं तस् कर्तृबहुत्वे बहुवचनं झि इति, सेयं कर्तृसं-
ख्या ऽऽख्यातवाच्या भवति न कर्तेति कुतस्तस्य वाक्यार्थत्वमलं चानया शा-
स्त्रान्तरगर्भया द्राघीयस्या कथया पुरुषस्तावन्न वाक्यार्थः, फलमपि न वाक्यार्थः,
सिद्धासिद्धविकल्पानुपपत्तेः सिद्धस्य तावत्फलस्याभिधानमेव नास्ति काम्यमा-
नत्वेन निर्देशात् ।
भावनाया वाक्यार्थत्वनिरूपणम्-
साध्यमानत्वपन्ने तु साक्षात्तत्सिद्धयवेदनात् ।
व्यापार एष तन्निष्ठस्तर्हि वाक्यार्थ उच्यताम् ॥
अत एव हि वाक्यार्थं भावनां प्रतिजानते ।
यथोचितफलाढ्यां च त्रयसम्बन्धबन्धुराम ॥
भावनास्वरूपोपादनम्--
केयं भावना नाम, भाव्यनिष्ठो भावकव्यापारो भावना, भाव्यं हि स्वर्गादि
(१) जैमिनिसूत्रम् अ. ३ पा. १ सू. ९ ।
(२) जैमिनिसूत्रम् अ. ३ पा. १ सू. ६ ।