न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 330, कुल 654 में से
संदर्भ में पढ़ेंकरोतीति पाक शब्देन द्वितीयान्तेन साध्यं धात्वर्थं व्याचक्षते कर्तृव्यापारात्मकं
प्रत्ययार्थं करोतीति पदेन,
किं च किं करोति देवदत्त इति पृष्टाः सन्तो द्वये वक्तारो भवन्ति करोति
पाकमिति पचतीति वा तदिदमुभयरूपमप्युत्तरमेकार्थम अन्यथा न तेन प्रष्टा
प्रत्याय्येत, तस्मात्पाकं करोतीति पदद्वयस्य यो ऽर्थः स एवार्थ एकस्य पच-
तीति पदस्य, अत्रापि पचत्यर्थादन्यः करोत्यर्थः प्रतीयते एव यो ऽसावन्यः
करोत्यर्थः स भावना,
आह न कर्तृसंख्यादिव्यतिरेकेण प्रत्ययाद्धात्वर्थातिरिक्तं व्यापारं प्रतिप-
द्यन्ते प्रतिपद्येरंश्चेत्करोतीत्यतो ऽपि शब्दात्प्रतिपद्येरन् न च करोतीत्यत्र प्रकृ-
तिप्रत्ययवाच्ये क्रिये विभज्य दर्शयितुं शक्येते,
उच्यते, नेदं साधु बुध्यसे—
यथा पाकं करोतीति प्रतीतिर्नास्ति लौकिकी ।
प्रत्ययार्थः करोत्यर्थः पचत्यादौ तु वर्त्तते ॥
कर्तृसंख्याप्रतीतौ च न विवादो ऽस्ति कस्य चित् ।
तावता निह्नवः कार्यो न तु व्यापारसंविदः ॥
करोतीत्यादिशब्दाभिधेयया ऽनया यथा न भवितव्यं तथा विशिष्टेभ्यः
शब्देभ्यस्तत्प्रतीतिरिष्यते न सर्वेभ्यः, के पुनस्ते विशिष्टाः शब्दा ये भावनाम-
भिदधति, उच्यते—
भावार्थाः कर्मशब्दा ये तेभ्यो गम्येत भावना ।
यजेतेत्येवमादिभ्यः स एवार्थो विधीयते ॥
भवन्ति के चिद्भावार्था ये न कर्मशब्दाः यथा भावो भवनं भूतिरिति,
भवन्ति च के चित्कर्मशब्दा न भावार्थाः श्येनादयः कर्मनामधेयतया प्राक्सम-
र्थिताः, ये तु भावार्थाः कर्मशब्दा यजते ददाति जुहोति इत्येवमादयस्तेभ्यो
भावनाख्या क्रिया गम्यते तैरेव लिङादिविभक्त्यन्तैः सो ऽर्थो ऽभिधीयते यजेत
दद्याज्जुहुयादिति, यद्यर्थः ण्यन्तेनावगम्यते भावयेदिति च करोतिशब्दादपि
केवलात्कर्तृव्यापारो न नासावगम्यते, स च यागादिकर्मणा नानुरक्तेन प्रयोग-
योग्यतां प्रतिपद्यते इति विशिष्टेभ्य एव यजत्यादिशब्देभ्यो भावनाख्यो ऽनुष्ठेयः
पुरुषव्यापारः प्रतीयते इति सिद्धम् ।
क्रियाविशेष एवायं व्यापारो ज्ञातुरन्तरः ।
स्पन्दात्मकबहिर्भूतक्रियाक्षणविलक्षणः ॥
इत्येवं के चित् ।
पुरुषस्य प्रयत्नो वा भावनेत्यभिधीयते ।
औदासीन्यदशापारं पुमान्येन प्रपद्यते ॥