सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

३४ न्यायबिन्दुः
अमूढोऽभ्रष्टो दर्शनाहितः स्मृतिजननस्वरूपः संस्कारो यस्मिन्घटादौ स
तथोक्तः । तस्यातीतस्य प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः । वर्तमानस्य च
प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः । अमूढस्मृतिसंस्कारग्रहणन्तु न वर्तमान-
विशेषणम् । यस्मादतीते घटविविक्तप्रदेशदर्शने स्मृतिसंस्कारो मूढो दृश्यघटा-
नुपलम्भे दृश्ये च घटेऽमूढो भवति । वर्तमाने च घटरहितप्रदेशदर्शने
न स्मृतिसंस्कारमोहः । अत एव न घटानुपलम्भे नापि घटे मोहः ।
तस्मान्न वर्तमाननिषेध्यविशेषणममूढस्मृतिसंस्कारग्रहणम् । स्मृतिसंस्कार-
व्यभिचाराभावाद्द्वर्तमानस्यार्थस्य । अत एव वर्तमानस्य चेति । चशब्दः
कृतो विशेषणरहितस्य वर्तमानस्य विशेषणवतातीतेन समुच्चयो यथा विज्ञा-
येतेति । तदयमर्थोऽतीतोऽनुपलम्भः स्फुटं स्मर्यमाणः प्रमाणं वर्तमानश्च ।
ततो नासीदिह घटोऽनुपलब्धत्वान्नास्त्यनुपलभ्यमानत्वादिति शक्यं
ज्ञातुम् । न तु न भविष्यत्यत्र घटोऽनुपलप्स्यमानत्वादिति शक्यं ज्ञातुम् ।
अनागताया अनुपलब्धेः सत्त्वसन्देहादिति । कालविशेषोऽनुपलब्धेर्व्या-
ख्यातः ।
व्यापारं दर्शयति । अभावस्य व्यवहारो नास्तीत्येवमाकारं ज्ञानं
शब्दश्चैवमाकारो निःशङ्कं गमनागमनलक्षणा च प्रवृत्तिः कायिकोऽभाव-
व्यवहारः । घटाभावे हि ज्ञाते निःशङ्कं गन्तुमागन्तुं च प्रवर्तते । तदेव-
मेतस्य त्रिविधस्याप्यभावव्यवहारस्य दृश्यानुपलब्धिः साधनी प्रवर्तिका ।
यद्यपि च नास्ति घट इति ज्ञानमनुपलब्धेरेव भवत्ययमेव चाभावनिश्चय-
स्तथापि यस्मात्प्रत्यक्षेण केवलः प्रदेश उपलब्धस्तस्मादिह घटो नास्ती-
त्येवं च प्रत्यक्षव्यापारमनुसरत्यभावनिश्चयः । तस्मात्प्रत्यक्षस्य केवलप्रदेश-
ग्रहणव्यापारानुसार्यभावनिश्चयः प्रत्यक्षकृतः । किञ्च । दृश्यानुपलम्भनि-
श्चयकरणसामर्थ्यादेव पूर्वोक्तया नीत्या प्रत्यक्षेणैवाभावो निश्चितः । केव-
लमदृष्टानापि सत्त्वसंभवात् । सत्त्वशङ्कया न शक्नोत्यसत्त्वं व्यवहर्तुम् ।
१. स्मृतिसंस्कारः । २. इदं पदं ख० पुस्तके न विद्यते । ३. 'इति' इति पाठः
ख० पुस्तके न विद्यते । ४. स्फुटं, क० स्फुटः । ५. अनुपलप्स्यमानत्वात्, क०
अनुपलभ्यमानत्वात् । ६. निःशङ्कं गमनागमन०, ख० निःशंकमागम० । ७. तदेव-
मेतस्य, ख० तदेव तस्य । ८. व्यवहारस्य, क० व्यवहार० ।

द्वितीयपरिच्छेदः ३५
अतोऽनुपलम्भोऽभावं व्यवहारयति । दृश्यो यतोऽनुपलब्धस्तस्मान्नास्ती-
त्यतो दृश्यानुपलम्भोऽभावज्ञानं कृतं प्रवर्तयति न त्वकृतं करोतीत्यभावनि-
श्चयोऽनुपलम्भात्प्रवृत्तोऽपि प्रत्यक्षेण कृतोऽनुपलम्भेन प्रवर्तित उक्त इत्य-
भावव्यवहारप्रवर्तिन्युपलब्धिः ।
कस्मात्पुनरतीते वर्तमाने चानुपलब्धिर्गमिकेत्याह—
तस्या एवाभावनिश्चयात् ।
तस्या एव यथोक्तकालाया अनुपलब्धेरभावनिश्चयात् । अनागता
ह्यनुपलब्धिः स्वयमेव संदिग्धस्वभावा । तस्या असिद्धाया नाभावनिश्न-
योऽपि त्वतीतवर्तमानाया इति ।
संप्रत्यनुपलब्धेः प्रकारभेदं दर्शयितुमाह—
सा च प्रयोगभेदादेकादशप्रकारा ।
सा चैषानुपलब्धिरेकादशप्रकारा, एकादश प्रकारा अस्या इत्येकाद-
शप्रकारा ३ । कुतः प्रकारभेदः प्रयोगभेदात् । प्रयोगः प्रयुक्तिः शब्दस्या-
भिधानव्यापार उच्यते । शब्दो हि साक्षात्कचिदर्थान्तराभिधायी कचि-
त्प्रतिषेधान्तराभिधायी । सर्वत्रैव तु दृश्यानुपलब्धिरशब्दोपात्तापि
गम्यत इति वाचकव्यापारभेदादनुपलम्भप्रकारभेदो ४ न तु स्वरूपभेदा-
दिति यावत् ।
प्रकारभेदानाह—
स्वभावानुपलब्धिर्यथा । नात्र धूम उपलब्धि-
लक्षणप्राप्तस्यानुपलब्धेरिति ।
प्रतिषेध्यस्य यः स्वभावस्तस्यानुपलब्धिः । यथेति । अत्रेति धर्मी न
धूम इति साध्यम् । उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति हेतुः । अयं च
हेतुः पूर्ववद्व्याख्येयः ॥ १ ॥
१. इदं पदं क० पुस्तके नैव विद्यते । २ 'प्रवर्त्तिनी' इत्ययमेव पाठः ख०
पुस्तके विद्यते । क० पुस्तके स्पष्टरूपेण 'प्रवर्त्तनमुपल०' इति लिखितं यच्च 'प्रवर्त्तन्त्यु-
पल०' इत्यशुद्धे रूपे विकारितम् । ३. ख० पुस्तके 'एकादशप्रकारा एकादश प्रकारा
अस्य इत्येकादशप्रकारा' इति लिखितम् । मुद्रितपुस्तके क० पुस्तके च 'एकादश प्रकारा
अस्या इत्येकादशप्रकारा' इति पाठः । ४. भेदात्, क० भेद० ।

३६ न्यायबिन्दुः

कार्यानुपलब्धिर्यथा । नेहाप्रतिबद्धसामर्थ्यानि धूम-
कारणानि सन्ति धूमाभावात् ।
प्रतिषेध्यस्य यत्कार्यं तस्यानुपलब्धिरुदाह्रियते । यथेति । इहेति
धर्मी । अप्रतिबद्धमनुपहतं धूमजननं प्रति सामर्थ्यं येषां तान्यप्रतिबद्ध-
सामर्थ्यानि न सन्तीति साध्यम् । धूमाभावादिति हेतुः । कारणानि च
नावश्यं कार्यवन्ति भवन्तीति कार्यादर्शनादप्रतिबद्धसामर्थ्यानामेवाभावः
साध्यः । न त्वन्येषाम् । अप्रतिबद्धशक्तीनि चान्त्यक्षणभावीन्येवान्येषां
प्रतिबन्धसंभवात् । कार्यानुपलब्धिश्च यत्र कारणमदृश्यं तत्र प्रयुज्यते
दृश्ये तु कारणे दृश्यानुपलब्धिरेव गमिका । तत्र धवलंगृहोपरि-
स्थितो गृहाङ्गणमपश्यन्नपि चतुर्षु पार्श्वेष्वङ्गणभित्तिपर्यन्तं पश्यति ।
भित्तिपर्यन्तसमं चालोकसंज्ञकमाकाशदेशं धूमविविक्तं पश्यति ।
तत्र धूमाभावनिश्चयाद्यद्देशस्थेन वह्निना जन्यमानो धूमस्तद्देशः⁴ स्यात् ।
तस्य च² वह्नेरप्रतिबद्धसामर्थ्यस्याभावः प्रतिपत्तव्यः । तद्गूहाङ्गणदेशेन³
वह्निना जन्यमानो धूमस्तद्देशः स्यात् । तस्मात्तद्देशस्य वह्नेरभावः प्रतिप-
त्तव्यः । तद्गृहाङ्गणदेशं भित्तिपरिच्छिन्नं भित्तिपर्यन्तपरिच्छिन्नेन चालोका-
त्मना धूमविविक्तेनाकाशदेशेन सह धर्मिणं करोति । तस्माद्दृश्यमानादृश्य-⁵
मानाकाशदेशावयवः प्रत्यक्षाप्रत्यक्षसमुदायो वह्न्यभावप्रतीतिसामर्थ्यायातो
धर्मी न दृश्यमान एव । इहेति तु प्रत्यक्षनिर्देशो दृश्यमानभागापेक्षो न
केवलमिहैव दृश्यादृश्यसमुदायो धर्म्यपि त्वन्यत्रापि । शब्दस्य क्षणिकत्वे
साध्ये कश्चिदेव शब्दः प्रत्यक्षोऽन्यस्तु परोक्षस्तद्वदिहापि । यथा चात्र
धर्मी साध्यप्रतिपत्त्यधिकरणभूतो दृश्यादृश्यावयवो दर्शितस्तद्वदुत्तरेष्वपि
प्रयोगेषु स्वयं प्रतिपत्तव्यः ॥ २ ॥
व्यापकानुपलब्धिर्यथा । नात्र शिंशपा वृक्षाभावादिति ।
प्रतिषेध्यस्य व्याप्यस्य यो व्यापको धर्मस्तस्यानुपलब्धिरुदाह्रियते ।


१. धवलगृह० ख० धवलगृहस्य । २. ख० पुस्तके नायं पाठो दृश्यते । ३. क०
तद्गृहाङ्गणदेशेन भ ( अशुद्धः ) वह्निना । ख० तद्गृहांगणस्थेन च । ४. 'तद्देशः'
इति पाठः ख० पुस्तके 'तादृशः' इवावलोक्यते । ५. दृश्यमानादृश्यमानाकाशदेशावयवः,
क० दृश्यमानाकारी ( अशुद्धः ) देशावयवः ।

द्वितीयपरिच्छेदः ३७
यथेति । अत्र धर्मी । न शिंशपेति शिंशपाभावः साध्यः । वृक्षस्य
व्यापकस्याभावादिति हेतुः । इयमप्यनुपलब्धिर्व्याप्यस्य१ शिंशपात्वस्य
दृश्याभावे प्रयुज्यते । उपलब्धिलक्षणप्राप्ते तु व्याप्ये दृश्यानुपलब्धि-
र्गमिका । तत्र यदा पूर्वापरावुपश्लिष्टौ समुन्नतौ देशौ भवतस्तयोरेकस्त-
रुगहनोपेतोऽपरश्चैकशिलाघटितो निर्वृक्षकक्तः । द्रष्टापि तत्स्थान्वृक्षानप-
श्यन्नपि शिंशपादिभेदं न२ यो विवेचयति । तस्य वृक्षत्वं प्रत्यक्षमप्रत्यक्षं
शिंशपात्वम् । स हि निर्वृक्ष एकशिलाघटिते वृक्षाभावं दृश्यत्वाददृश्यानु-
पलम्भादवस्यति । शिंशपात्वाभावं तु व्यापकस्य वृक्षस्याभावादिति । तादृशे३
विषयेऽस्या अभावसाधनाय प्रयोगः ॥ ३ ॥
स्वभावविरुद्धोपलब्धिर्यथा । नात्र शीतस्पर्शोऽग्नेरिति ।
प्रतिषे

३८ न्यायबिन्दुः
विरुद्धव्याप्तोपलब्धिर्यथा । न ध्रुवभावी भूतस्यापि
भावस्य विनाशो हेत्वन्तरापेक्षणादिति ।
प्रतिषेध्यस्य यद्विरुद्धं तेन व्याप्तस्य धर्मान्तरस्योपलब्धिरुदाहर्त्तव्या ।
यथेति । ध्रुवमवश्यं भवतीति¹ ध्रुवभावी नेतिध्रुवभावित्वनिषेधः साध्यः ।
विनाशो धर्मी । भूतस्यापि भावस्येति धर्मिविशेषणम् । भूतस्य जातस्यापि
विनश्वरः स्वभावो नावश्यंभावी किमुताजातस्येत्यपि शब्दार्थः । जनना-²
द्धेतो रन्यो हेतुर्हेत्वन्तरं मुद्गरादि तदपेक्षते विनश्वरः³ । तस्यापेक्षणादिति
हेतुः । हेत्वन्तरापेक्षणं नामाध्रु⁴वभावित्वेन व्याप्तम् । यथा वाससि रागस्य
रञ्जनादि⁵हेत्वन्तरापेक्षणमध्रुवभावित्वेन व्याप्तम् । ध्रुवभावित्वविरुद्धं चाध्रुव-
भावित्वम् । विनाशश्च विनश्वरस्वभावात्मा हेत्वन्तरापेक्ष इष्टः । ततो
विरुद्धव्याप्तहेत्वन्तरापेक्षणदर्शनाद् ध्रुवभावित्वनिषेधः । इह ध्रुवभावित्वं
नित्यत्वमध्रुवभावित्वं चानित्यत्वम्⁶ । नित्यत्वानित्यत्वयोश्च परस्परपरिहा-
रेणावस्थानादेकत्र विरोधः । तथा च सति परस्परपरिहारवतोर्द्वयोर्यदेकं
दृश्यते तत्र द्वितीयस्य तादात्म्यनिषेधः कार्यः । तादात्म्यनिषेधश्च दृश्य-
तयाऽभ्युपगतस्य⁷ संभवति । यत⁸ एवं तादात्म्यनिषेधः क्रियते यद्ययं
दृश्यमानो नित्यो भवेन्नित्यरूपो दृश्येत । न च नित्यरूपो दृश्यते ।
तस्मान्न नित्यः । एवं च प्रतिषेध्यस्य नित्यत्वस्य दृश्यमानात्मत्वमभ्युपगम्य⁹
प्रतिषेधः कृतो भवति । वस्तुनोऽप्यदृश्यस्य पिशाचादेर्यदि¹⁰ दृश्यघटात्म-
त्वनिषेधः¹¹ क्रियते दृश्यात्मत्वमभ्युपगम्य कर्त्तव्यः । ¹²यद्ययं दृश्यमानः
पिशाचात्मा भवेत्पिशाचो दृष्टो भवेत् । न च दृष्टस्तस्मान्न पिशाच इति
दृश्यात्मत्वाभ्युपगमपूर्वको दृश्यमाने घटादौ वस्तुनि वस्तुनोऽवस्तुनो वा
दृश्यस्यादृश्यस्य च तादात्म्यनिषेधः । तथा च सति यथा घटस्य दृश्यत्व-
मभ्युपगम्य ¹³प्रतिषेधो दृश्यानुपलम्भादेव तद्वत्सर्वस्य परस्परपरिहारवतोऽ-
१ पाठोऽयं ख० पुस्तके न विद्यते । २ जननात्, ख० जनकात् । ३ विनश्वरः ।
तस्य, क० विनश्वरस्य । ४ नामाध्रुव०, ख० नाध्रुव० । ५ रञ्जनादि०, ख० रजकादि० ।
६ इदं पदं ख० पुस्तके न विद्यते । ७ दृश्यतया, क० तया । ८ यतः, क० यः ।
९ दृश्यमानात्मत्वं, ख० दृश्यमानात्मकत्वम् । १० यदि, ख० यदैव । ११ दृश्यघटा-
त्मत्व०, ख० दृश्यघटात्मकत्व० । १२ यद्ययं, ख० यद्ययं घटः । १३ प्रतिषेधः, ख०
निषेधः ।

द्वितीयपरिच्छेदः ३६
न्यत्र दृश्यमाने निषेधो दृश्यानुपलम्भादेव । तथा चास्यैवंजातीयकस्य
प्रयोगस्य स्वभावानुपलब्धावन्तर्भावः ॥ ६ ॥
कार्यविरुद्धोपलब्धिर्यथा । नेहाप्रतिबद्धसामर्थ्यानि
शीतकारणानि सन्त्यग्नेरिति ।
प्रतिषेध्यस्य यत्कार्यं तस्य यद्विरुद्धं तस्योपलब्धेरुदाहरणम् । यथेति ।
इहेति धर्मी । अप्रतिबद्धं सामर्थ्यं येषां शीतकारणानां शीतजननं प्रति नै^१-
तानि सन्तीति साध्यम् । वन्हेरिति^२ हेतुः । यत्र शीतकारणान्यदृश्यानि
शीतस्पर्शोऽप्यदृश्यस्तत्रायं हेतुः प्रयोक्तव्यः । दृश्यत्वे तु शीतस्पर्शस्य
तत्कारणानां वा कार्यानुपलब्धिर्दृश्यानुपलब्धिर्वा गमिका । तस्मादेषाऽप्य-
भावसाधनी । ततो यस्मिन्देशे सदपि शीतकारणमदृश्यं शीतस्पर्शश्च
दूरस्थत्वात्प्रतिपत्तुर्वह्निर्भास्वरवर्णत्वाद् दूरादपि दृश्यस्तत्रायं प्रयोगः ॥ ७ ॥
व्यापकविरुद्धोपलब्धिर्यथा । नात्र तुषारस्पर्शोऽग्नेरिति ।
प्रतिषेध्यस्य यद्व्यापकं तेन यद्विरुद्धं तस्योपलब्धिरुदाहर्तव्या । यथेति ।
अत्रेति धर्मी । तुषारस्पर्शो नेति साध्यम् । वन्हेरिति हेतुः । यत्र व्याप्य-
स्तुषारस्पर्शो व्यापकश्च च शीतस्पर्शो न दृश्यस्तत्रायं हेतुः । तयोर्दृश्यत्वे
स्वभावस्य व्यापकस्य चानुपलब्धिर्यतः प्रयोक्तव्या । तथा च^३ सत्यभाव-
साधनीयम् । दूरवर्तिनश्च प्रतिपत्तुस्तुषारस्पर्शः शीतस्पर्शविशेषः । शीतमात्रं
च^४ परोक्षम् । वह्निस्तु रूपविशेषाद् दूरस्थोऽपि प्रत्यक्षः । ततो वन्हेः शीत-
मात्राभावः । ततः शीतविशेषतुषारस्पर्शाभावनिश्चयः । शीतविशेषस्य
शीतसामान्येन व्याप्तत्वादिति विशिष्ट^५विषयेऽस्याः प्रयोगः ॥ ८ ॥
कारणानुपलब्धिर्यथा । नात्र धूमोऽग्न्यभावादिति ।
प्रतिषेध्यस्य यत्कारणं तस्यानुपलब्धेरुदाहरणम् । यथेति । अत्रेति
धर्मी । न धूम इति साध्यम् । वह्न्यसत्त्वादिति हेतुः । यत्र कार्यं सदपि
दृश्यं^६ न भवति तत्रायं प्रयोगः । दृश्ये तु कार्ये दृश्यानुपलब्धिर्गमिका ।
१ न तानि सन्तीति, ख० तानि न संती (अशुद्धः) । २ वन्हेः, ख० अग्नेः ।
३ पदमिदं ख० पुस्तक एव दृश्यते । ४ पदमिदं ख० पुस्तके न दृश्यते ।
५ विशिष्ट०, ख० विशिष्टे । ६ दृश्यं न भवति, ख० अदृश्यं भवति ।

४० न्यायबिन्दुः

ततोऽयमप्यभावसाधनः । निष्कम्पायतसलिलपूरिते ह्रदे हेमन्तोचित-
बाष्पोद्गमे विरले संध्यातमसि सति सन्नपि तत्र^१ धूमो न दृश्ये^२ इति
कारणानुपलब्ध्या प्रतिषेध्यते^३ । वह्निस्तु यदि तस्याम्भस उपरि प्लवमानो
भवेज्ज्वलितो रूपविशेषादेवोपलब्धो भवेत् । अज्वलितस्त्विन्धनमध्यनिविष्टो
भवेत्तत्रापि दहनाधिकरणमिन्धनं प्रत्यक्षमिति स्वरूपेणाधाररूपेण वा दृश्य
एव वह्निरिति तत्रास्याः प्रयोगः ॥ ६ ॥
कारणविरुद्धोपलब्धिर्यथा । नास्य रोमहर्षादिविशेषाः
संनिहितदहनविशेषत्वादिति ।
प्रतिषेध्यस्य यत्कारणं तस्य यद्विरुद्धं तस्योपलब्धेरुदाहरणम् ।
यथेति । अस्येति धर्मी । रोम्णां हर्ष उद्भेदः स आदिर्येषां दन्तवीणादीनां
शीतकृतानां ते विशिष्यन्ते तदन्येभ्यो भयश्रद्धादिकृतेभ्य इति रोमहर्षादि-
विशेषाः । ते न सन्तीति साध्यम् । दहन एव विशिष्यंते तदस्माद्दहना-
च्छीतनिवर्तनसामर्थ्येनेति दहनविशेषः । कश्चिद्दहनः सन्नपि न शीत-
निवर्तनक्षमो यथा प्रदीपः । तादृशनिवृत्तये विशेषग्रहणम् । संनिहितो
दहनविशेषो यस्य स तथोक्तस्तस्य भावस्तस्मादिति हेतुः । यत्र शीतस्पर्शः
सन्नप्यदृश्यो रोमहर्षादिविशेषाश्चादृश्यास्तत्रायं प्रयोगः । रोमहर्षादिवि-
शेषस्य दृश्यत्वे दृश्यानुपलब्धिः प्रयोक्तव्या । शीतस्पर्शस्य दृश्यत्वे कारणा-
नुपलब्धिः । तस्मादभावसाधनोऽयम् । रूपविशेषाद्विदूराद्दहनं पश्यति ।
शीतस्पर्शस्त्वदृश्यो रोमहर्षादिविशेषाश्च । तेषां कारणविरुद्धोपलब्ध्याभावः^१०
प्रतिद्यत इति । तत्रास्याः प्रयोगः ॥ १० ॥
कारणविरुद्धकार्योपलब्धिर्यथा । न रोमहर्षादिविशेष-
युक्तपुरुषवानयं प्रदेशो धूमादिति ।
प्रतिषेध्यस्य यत्कारणं तस्य यद्विरुद्धं तस्य यत्कार्यं^११ तस्योपलब्धिरुदा-


१ पदमिदं ख० पुस्तके न विद्यते । २ दृश्यः, ख० दृश्यते । ३ प्रतिषेध्यते,
ख० प्रतिषिध्यते । ४ ज्वलितः, ख० प्रज्वलितः । ५ इन्धन, ख० वन । ६ विशिष्यन्ते,
ख० विशेष्यन्ते । ७ विशिष्यते, ख० विशेष्यते । ८ पदमिदं ख० पुस्तके नैवोपलभ्यते ।
९ दहनविशेषस्यैव शीतनिवृत्तौ कारणत्वात्, न दहनसामान्यस्य । १० क० भाव
(अशुद्धः), ख० भावम् । ११ कार्यं, मुद्रितपुस्तके 'कार्थं' (अशुद्धः) ।

हर्तव्या । यथेति । अयं देश इति धर्मी । योगो युक्तं रोमहर्षादिविशेषै-
र्युक्तं रोमहर्षादिविशेषयुक्तम् । तस्य सम्बन्धी पुरुषो रोमहर्षादिविशेषयुक्त-
पुरुषः । तद्वान्न भवतीति साध्यम् । धूमादिति हेतुः । रोमहर्षादिविशे-
षस्य प्रत्यक्षत्वे दृश्यानुपलब्धिः । कारणस्य शीतस्पर्शस्य प्रत्यक्षत्वे कारणा-
नुपलब्धिः । वह्नेस्तु प्रत्यक्षत्वे कारणविरुद्धोपलब्धिः प्रयोक्तव्या । त्रया-
णामप्यदृश्यत्वेऽयं प्रयोगः । तस्मादभावसाधनोऽयम् । तत्र दूरस्थस्य
प्रतिपत्तुर्दहनशीतस्पर्शरोमहर्षादिविशेषा अप्रत्यक्षाः सन्तोऽपि धूमस्तु
प्रत्यक्षो यत्र तत्रैतत्प्रमाणम् । धूमस्तु यादृशस्तस्मिन्देशे स्थितं शीतं
निवर्तयितुं समर्थस्य वह्नेरनुमापकः स इह ग्राह्यः । धूममात्रेण तु वह्नि-
मात्रेऽनुमितेऽपि न शीतस्पर्शानिवृत्तिर्नापि रोमहर्षादिविशेषनिवृत्तिरवसातुं
शक्येते न धूममात्रं हेतुरिति द्रष्टव्यमिति ॥ ११ ॥
यद्येकः प्रतिषेधहेतुरुक्तः कथमेकादशाभावहेतव इत्याह—
इमे सर्वे कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः
स्वभावानुपलब्धौ संग्रहमुपयान्ति ।
इमेऽनुपलब्धिप्रयोगाः । इदमानन्तरप्रयोगान्ता निर्दिष्टाः । तत्र
कियतामपि ग्रहणे प्रसक्त आह कार्यानुपलब्ध्यादय इति । कार्यानुपल-
ब्ध्यादीनामपि त्रयाणां चतुर्णां वा ग्रहणे प्रसक्ते सत्याह । दशेति । दशा-
नामप्युदाहृतमात्राणां ग्रहणप्रसङ्गे सत्याह । सर्व इत्येतदुक्तं भवति । अप्र-
युक्ता अपि प्रयुक्तोदाहरणसदृशाश्च सर्व एवेति दशग्रहणमन्तरेण सर्वग्रहणे
क्रियमाणे प्रयुक्तोदाहरणकात्स्न्यं गम्येत । दशग्रहणात्तूदाहरणकात्स्न्र्येऽवगते
सर्वग्रहणमतिरिच्यमानमुदाहृतसदृशकात्स्न्र्यावगतये जायते । ते स्वभावा-
नुपलब्धौ संग्रहतादात्म्येन गच्छन्ति । स्वभावानुपलब्धिस्वभावा इत्यर्थः ।
१ देशः, ख० प्रदेशः । २ पदमिदं ख० पुस्तके नोपलभ्यते । ३ विशेषयुक्त०, ख०
विशेषगुणयुक्त० । ४ रोमहर्षादि०, ख० रोमहर्ष० । ५ तत्र, क० यत्र । ६ तस्मिन्देशे,
ख० सदृशे । ७ पदमिदं क० पुस्तके न विद्यते । ८ 'विशेष' इति पाठो ख० पुस्तके
न विद्यते । ९ पाठोऽयं क० पुस्तके नास्ति । १० प्रयोगान्ताः, क० प्रयोक्तान (अशुद्धः),
ख० प्रकांता ११ सत्याह, क० त्याह (अशुद्धः) । १२ ख० पुस्तके 'सति' इति
पाठो न विद्यते । १३ दशग्रहणात्तूदाहरण०, ख० दशग्रहगोदाहरण० ।
६ न्या०

४२ न्यायबिन्दुः

ननु च स्वभावानुपलब्धिप्रयोगाद्भिद्यन्ते कार्यानुपलब्ध्यादयस्तत्कथम-
न्तर्भवन्तीत्याह—
पारम्पर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदेऽपि
प्रयोगदर्शनाभ्यासात्स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवतीति
स्वार्थेऽप्यनुमानेऽस्याः प्रयोगनिर्देशः ।
प्रयोगभेदेऽपि । प्रयोगस्य शब्दव्यापारस्य भेदेऽपि अन्तर्भवन्ति ।
कथं प्रयोगभेद इत्याह । अर्थान्तरविधीत्यादि १ । प्रतिषेध्यादर्थादर्थान्तरस्य २
विधिरुपलब्धिः । स्वभावविरुद्धोपलब्धिप्रयोगेषु प्रतिषेधः । कार्यानुप-
लब्ध्यादिप्रयोगेष्वर्थान्तरविधिनाऽर्थान्तरप्रतिषेधेन च प्रयोगा भिद्यन्ते ।
यदि प्रयोगान्तरेष्वर्थान्तरविधिप्रतिषेधौ कथं तर्ह्यन्तर्भवन्तीत्याह । पारम्प-
र्येणेति । प्रणालिकयेत्यर्थः । एतदुक्तं भवति । न साक्षादेते प्रयोगा
दृश्यानुपलब्धिमभिदधति । दृश्यानुपलब्ध्यव्यभिचारिणं त्वर्थान्तरस्य विधि-
निषेधं वाऽभिदधति । ततः प्रणालिकयाऽमीषां स्वभावानुपलब्धौ संग्रहो
न साक्षादिति । यदि प्रयोगभेदेन भेदः परार्थानुमाने वक्तव्य एषः ।
शब्दभेदो हि प्रयोगभेदः । शब्दश्च ३ परार्थानुमानमित्याशङ्क्याह प्रयोग-
दर्शनेत्यादि । प्रयोगाणां शास्त्रघटितानां ४ दर्शनमुपलम्भः । तस्याभ्यासः
पुनः पुनरावर्तनम् । तस्मान्निमित्तात्स्वयमपीति प्रतिपत्तुरात्मनोऽप्येवमित्य-
नन्तरोक्तेन क्रमेण व्यवच्छेदस्य प्रतिषेधस्य प्रतीतिर्भवतीति ५ । इति
शब्दस्तस्मादर्थे । तदयमर्थः । यस्मात्स्वयमप्येवमनेनोपायेन प्रतिप-
द्यते प्रयोगाभ्यासात्तस्मात्स्वप्रतिपत्तावप्युपयुज्यमानस्यास्य प्रयोगभेदस्य
स्वार्थानुमाने निर्देशः । यत्पुनः परप्रतिपत्तावेवोपयुज्यते तत्परार्थानुमान
एव वक्तव्यमिति ।
ननु च कार्यानुपलब्ध्यादिषु कारणादीनामदृश्यानामेव प्रतिषेधः ६
दृश्यनिषेधे स्वभावानुपलम्भप्रयोगप्रसङ्गात् । तथा च सति न तेषां


१ अर्थान्तरविधीत्यादि, लिखितपुस्तकयोः, अर्थान्तरविधीति । २ प्रतिषेध्यादर्था-
दर्थान्तरस्य, ख० प्रतिषेध्यादर्थान्तरस्या । ३ शब्दश्च, ख० शब्दस्तु । ४ घटितानाम्, ख०
परिचितितानाम् । ५ 'इति' पदं ख० पुस्तके न विद्यते । ६ प्रतिषेधः, ख० निषेधः ।

द्वितीयपरिच्छेदः ४३
दृश्यानुपलब्धेर्निषेधस्तत्कथमेषां प्रयोगाणां दृश्यानुपलब्धावन्तर्भाव इत्याह-
सर्वत्र चास्यामभावव्यवहारसाधन्यामनुपलब्धौ येषां
स्वभावविरुद्धादीनामुपलब्ध्या कारणादीनामनुपलब्ध्या च
प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्तानामेवोपलब्धिरनु-
पलब्धिश्च वेदितव्या ।
अभावश्च तस्य च व्यवहारोऽभावव्यवहारौ । स्वभावानुपलब्धावभा-
वव्यवहारः साध्यः । शिष्टेष्वभावः । तयोः साधन्यामनुपलब्धौ । 'सर्वत्र
चेति चशब्दो हिशब्दस्यार्थे । यस्मात्सर्वत्रानुपलब्धौ सत्यां येषां प्रतिषेध
उक्तस्तेषामुपलब्धिलक्षणप्राप्तानां दृश्यानामेव स प्रतिषेधस्तस्माद् दृश्यानुप-
लब्धावन्तर्भावः । कुत एतद्दृश्यानामेवेत्याह स्वभावत्यादि । अत्रापि
चकारो हेत्वर्थः । यस्मात्स्वभावविरुद्ध आदियेषां तेषामुपलब्ध्या कारणमा-
दिर्येषां तेषामनुपलब्ध्या प्रतिषेध उक्तस्तस्माद् दृश्यानामेव प्रतिषेध
इत्यर्थः । यदि नाम स्वभावविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या च प्रति-
षेध उक्तस्तथापि कथं दृश्यानामेव प्रतिषेध इत्याह उपलब्धिरित्यादि ।
अत्रापि चकारो हेत्वर्थः । यस्माद्ये विरोधिनो व्याप्यव्यापकभूताः कार्य-
कारणभूताश्च ज्ञातास्तेषामवश्यमेवोपलब्धिरुपलब्धिपूर्वा चानुपलब्धिर्वेदि-
तव्या । उपलब्ध्यनुपलब्धी च द्वे येषां स्तस्ते दृश्या एव । तस्मात्स्वभा-
वविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या चोपलब्ध्यनुपलब्धिमतां विरुद्धा-
दीनां प्रतिषेधः क्रियमाणो दृश्यानामेव कृतो द्रष्टव्यः । बहुषु चोद्येषु प्रक्रा-
न्तेषु परिहारसमुच्चयार्थश्चकारो हेत्वर्थो भवति । यस्मादिदं चेदं च समा-
धानमस्ति तस्मात्तत्तच्चोद्यमयुक्तमिति चकारार्थः ।
कस्मात्पुनः प्रतिषेध्यानां विरुद्धादीनामुपलब्ध्यनुपलब्धी वेदितव्ये
इत्याह-
अन्येषां विरोधकार्यकारणभावासिद्धिः ।
उपलब्ध्यनुपलब्धिमद्भ्योऽन्येऽनुपलब्धा एव ये तेषां विरोधश्च
१ तस्य च व्यवहारः, ख० तद्व्यवहारश्च । २ पदमिदं ख० पुस्तके नैवोपलभ्यते ।
३ दृश्यानामेव, ख० दृश्यमानानामेव । ४ पदमिदं ख० पुस्तके न विद्यते ।

४४ न्यायबिन्दुः

कार्यकारणभावश्च केनचित्सहाभावश्च व्याप्यस्य व्यापकस्याभावेन सिध्यति
यस्मात्ततो विरोधिकार्यकारणभावासिद्धेः कारणाद्युपलब्ध्यनुपलब्धिमन्त एव
विरुद्धादयो निषेध्याः । उभयवन्तश्च दृश्या एव । तस्माद् दृश्यानामेव
प्रतिषेधः । तदयमर्थः । विरोधे १ कार्यकारणभावश्च व्यापकाभावे व्याप्या-
भावश्च दृश्यानुपलब्धेरेवेति । एकसंनिधावपराभावप्रतीतौ ज्ञातो विरोधः ।
कारणाभिमताभावे च कार्याभिमताभावप्रत्ययेऽवसितकार्यकारणभावः ।
व्यापकाभिमताभावे च व्याप्याभावे निश्चिते निश्चितो व्याप्यव्यापकभावः ।
तत्र व्याप्यव्यापकभावप्रतीतेर्निमित्तमभावः प्रतिपत्तव्यः । २ इह गृहीते
वृक्षाभावे हि शिंशपात्वाभावप्रतीतौ प्रतीतो व्याप्यव्यापकभावः । अभाव-
प्रतिपत्तिश्च सर्वत्र दृश्यानुपलब्धेरेव । तस्माद्विरोधं कार्यकारणभावं व्याप्य-
व्यापकभावं च स्मरता विरोधकार्यकारणभावव्याप्यव्यापकभावविषयाभाव-
प्रतिपत्तिनिबन्धनं दृश्यानुपलब्धिः स्मर्तव्या । दृश्यानुपलब्ध्यस्मरणे विरो-
धादीनामस्मरणम् । तथा च सति न विरुद्धादिविधिप्रतिषेधाभ्यामितरा-
भावप्रतीतिः स्यात् । विरोधादिग्रहणकालभाविन्यां च दृश्यानुपलब्धाव-
वश्यस्मर्तव्यायां तत एवाभावप्रतीतिः । तत्र यद्यपि सम्प्रति ३ नास्ति दृश्यानु-
पलब्धिर्विरोधादिग्रहणकाले त्वासीत् । या दृश्यानुपलब्धिः सम्प्रति स्मर्य-
माणा सैवाभावप्रतिपत्तिनिबन्धनम् । ततः सम्प्रति नास्ति दृश्योपलब्धि-
रित्यभावसाधनत्वेन दृश्यानुपलब्धिप्रयोगाङ्गिष्यन्ते कार्यानुपलब्ध्यादि-
प्रयोगाः । विरुद्धविधिना कारणादिनिषेधेन च यतो दृश्यानुपलब्धिरा-
क्षिप्ता ततो दृश्यानुपलब्धेरेव कालान्तरवृत्तायाः स्मृतिविषयभूताया अभाव-
प्रतिपत्तिः । अमीषां च प्रयोगाणां दृश्यानुपलब्धावन्तर्भावः । तदनेन
सर्वेण दृश्यानुपलब्धावन्तर्भावो दशानामनुपलब्धिप्रयोगाणां पारम्पर्येण
दर्शित इति वेदितव्यम् ।
उक्ता दृश्यानुपलब्धिरभावेऽभावव्यवहारे साध्ये प्रमाणम् । अदृश्या-
नुपलब्धिः किं स्वभावा किं व्यापारा चेत्याह—
विप्रकृष्टविषयानुपलब्धिः प्रत्यक्षानुमानान्निवृत्ति-


१ विरोधः, ख० विरोधश्च । २ पदमिदं ख० पुस्तके न विद्यते । ३ सम्प्रति नास्ति,
ख० सम्प्रतितनी ।

द्वितीयपरिच्छेदः ४५
लक्षणा संशयहेतुः प्रमाणनिवृत्तावप्यर्थाभावासिद्धेरिति ।
विप्रकृष्टस्त्रिभिर्देशकालस्वभावविप्रकर्षैर्यस्याः विषयः सा विप्रकृष्टविष-
येति संशयहेतुः । किं स्वभावा सेत्याह । प्रत्यक्षा‌नुमाननिवृत्तिर्लक्षणं स्वभावो
यस्याः सा प्रत्यक्षा‌नुमाननिवृत्तिलक्षणा ज्ञानज्ञेयस्वभावेति यावत् । ननु
च प्रमाणात्प्रमेयसत्ताव्यवस्था । ततः प्रमाणाभावात्प्रमेयाभावप्रतिपत्तिर्युक्ते-
त्याह । प्रमाणनिवृत्तावपीत्यादि । कारणं व्यापकं च निवर्तमानं कार्यं
व्याप्यं च निवर्तयेत् । न च प्रमाणं प्रमेयस्य कारणं नापि व्यापकमतः
प्रमाणयोर्निवृत्तावप्यर्थस्य प्रमेयस्य निवृत्तिर्न सिध्यति । ततोऽसिद्धेः संशय-
हेतुरदृश्यानुपलब्धिः । न निश्चयहेतुः । यत्पुनः प्रमाणसत्तया प्रमेयसत्ता
सिध्यति तद्युक्तम् । प्रमेयकार्यं हि प्रमाणम् । न च कारणमन्तरेण कार्य-
मस्ति । न तु कारणान्यवश्यं कार्यवन्ति भवन्ति । तस्मात्प्रमाणात्प्रमेयसत्ता
व्यवस्थाप्या । न प्रमाणाभावात्प्रमेयाभावव्यवस्थेति ॥
इति न्यायबिन्दुटीकायां द्वितीयः परिच्छेदः समाप्तः ।
१ पदमिदं ख० पुस्तके नैवोपलभ्यते । २ लक्षणा, क० लक्षणा । न ज्ञान० ।
३ नतु, ख० न च ।

अथ तृतीयपरिच्छेदः।
स्वार्थपरार्थानुमानयोः स्वार्थं व्याख्याय परार्थं व्याख्यातुकाम आह-
त्रिरूपलिङ्गाख्यानं परार्थानुमानम्।
त्रिरूपलिङ्गाख्यानमिति। त्रीणि रूपाण्यन्वयव्यतिरेकपक्षधर्मत्वसंज्ञ-
कानि यस्य तत्त्रिरूपम्। त्रिरूपं च तल्लिङ्गं¹ च तस्याख्यानम्। आख्या-
यते प्रकाश्यतेऽनेनेति त्रिरूपं लिङ्गमित्याख्यानम्। किं पुनस्तद्वचनम्।
वचनेन हि त्रिरूपं लिङ्गमाख्यायते। परस्मादिदं परार्थम्।
ननु च सम्यग्ज्ञानात्मकमनुमानमुक्तम्। तत्किमर्थं सम्प्रति वचनात्म-
कमनुमानमुच्यत इत्याह।
कारणे कार्योपचारात्।
कारणे कार्योपचारादिति त्रिरूपलिङ्गाभिधानात्त्रिरूपलिङ्गस्मृतिरुत्प-
द्यते स्मृतेश्चानुमानम्। तस्यानुमानस्य परम्परया त्रिरूपलिङ्गाभिधानं कार-
णम्। तस्मिन्कारणे वचने कार्यस्यानुमानस्योपचारः समारोपः क्रियते।
ततः समारोपात्कारणं वचनमनुमानशब्देनोच्यते। औपचारिकं³ वचनम-
नुमानं न मुख्यमित्यर्थः। न च यावत्किंचिदुपचारादनुमानशब्देन वक्तुं
शक्यं तावत्सर्वं व्याख्येयम्। किं त्वनुमानं व्याख्यातुकामेनानुमानस्वरूपस्य
व्याख्येयत्वान्निमित्तं व्याख्येयम्। निमित्तं च त्रिरूपं लिङ्गम्। तच्च स्वयं
वा प्रतीतमनुमानस्य निमित्तं भवति परेण वा प्रतिपादितं भवति²। तस्मा-
ल्लिङ्गस्य स्वरूपं ⁴व्याख्येयं तत्प्रतिपादकश्च शब्दः। तत्र स्वरूपं स्वार्थानु-
माने व्याख्यातम्। प्रतिपादकः शब्द इह व्याख्येयः। ततः प्रतिपादकं
शब्दमवश्यं वक्तव्यं दर्शयन्ननुमानशब्देनोक्तवानाचार्य इति परमार्थः।


१ तल्लिङ्गं, क० लिङ्गं। २ पाठोऽत्र क० पुस्तके नैवोपलभ्यते। ३ औपचारिकम्,
क० औपचारकम्। ४ पदमिदं ख पुस्तक एवोपलभ्यते। ५ व्याख्येयम्, ख० च
व्याख्यातव्यम्।

द्वितीयपरिच्छेदः ४७
परार्थानुमानस्य प्रकारभेदं दर्शयितुमाह—
तद्द्विविधं प्रयोगभेदात् ।
तद्द्विविधमिति । तदिति परार्थानुमानम् । द्वौ विधौ प्रकारौ यस्य
तद्द्विविधम् । कुतो द्विविधमित्याह । प्रयोगस्य शब्दव्यापारस्य भेदात् ।
प्रयुक्तिः प्रयोगोऽर्थाभिधानम् । शब्दस्यार्थाभिधानव्यापारभेदाद्द्विविधम-
नुमानम् ।
तदेवाभिधानव्यापारनिबन्धनं द्वैविध्यं दर्शयितुमाह—
साधर्म्यवद्वैधर्म्यवच्चेति² ।
समानो धर्मो यस्य सोऽयं सधर्मा तस्य भावः साधर्म्यम् । विसदृशो
धर्मोऽस्य³ विधर्मा विधर्मणो भावो वैधर्म्यम् । दृष्टान्तधर्मिणा सह साध्य-
धर्मिणः सादृश्यं हेतुकृतं साधर्म्यमुच्यते । असादृश्यं च हेतुकृतं वैधर्म्य-
मुच्यते । तत्र यस्य साधनवाक्यस्य साधर्म्यमभिधेयं⁴

४८ :न्यायबिन्दुः
प्रकाशयत एव । ततः प्रकाशयितव्यं प्रयोजनमनयोरभिन्नम् । तथा च न
ततो भेदः कश्चित् । अभिधेयभेदोऽपि तर्हि न स्यादित्याह । अन्यत्र
प्रयोगभेदादिति । प्रयोगोऽभिधानं वाचकत्वम् । वाचकत्वभेदादन्यो भेदः
प्रयोजनकृतो नास्तीत्यर्थः । एतदुक्तं भवति । अन्यदभिधेयमन्यत्प्रकाश्यं
प्रयोजनम् । तत्राभिधेयापेक्षया वाचकत्वं भिद्यते । प्रकाश्यं त्वभिन्नम् ।
अन्वये हि कथिते वक्ष्यमाणेन न्यायेन व्यतिरेकगतिर्भवति । व्यतिरेके
चान्वयगतिः । ततस्त्रिरूपं लिङ्गं प्रकाश्यमभिन्नम् । न च यत्राभिधेयभेद-
स्तत्र सामर्थ्यगम्योऽप्यर्थो भिद्यते । यस्मात्पीनो देवदत्तो दिवा न भुङ्क्ते ।
पीनो देवदत्तो रात्रौ भुङ्क इति । अनयोर्वाक्ययोरभिधेयभेदेऽपि गम्य-
मानमेकमेव । तद्वदिहाभिधेयभेदेऽपि गम्यमानं वस्त्वेकमेव ।
तत्र साधर्म्यवद्यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सो-
ऽसद्व्यवहारविषयः सिद्धः ।
तत्रेति । तयोः साधर्म्यवैधर्म्यवतोरनुमानयोः साधर्म्यवत्तावदुदाहर-
णमुदा¹हर्तुमनुपलब्धिमाह यदित्यादिना । यदुपलब्धिलक्षणप्राप्तं यद्दृश्यं
सन्नोपलभ्यत इति । अनेन दृश्यानुपलम्भोऽनूद्यते । सोऽसद्व्यवहारस्य
विषयः सिद्धः² । तदसदिति व्यवहर्तव्यमित्यर्थः । अनेनासद्व्यवहारयोग्य-
त्वस्य³ विधिः कृतः । ततश्चासद्व्यवहारस्य योग्यत्वे दृश्यानुपलम्भो निय-
तः कथितः । दृश्यमनुपलब्धमसद्व्यवहारयोग्यमेवेत्यर्थः । साधनस्य च
साध्येऽर्थे नियतत्वकथनं व्याप्तिकथनम् । यथोक्तम् । व्याप्ति⁴र्व्यापकस्य तत्र
भाव एव व्याप्यस्य च⁵ तत्रैव भाव इति ।
व्याप्तिसाधनस्य प्रमाणस्य विषयो दृष्टान्तस्तमेव दर्शयितुमाह-
यथान्यः कश्चिद्दृष्टः शशविषाणादिः ।
यथान्य इति । साध्यधर्मिणोऽन्यो दृष्टान्त इत्यर्थः । दृष्ट इति प्रमा-
णेन निश्चितः । शशविषाणं हि न चक्षुषा विषयीकृतम् । अपि तु प्रमा-
१ 'उदादरणमुदाहर्तुं इति पाठो ख० पुस्तक एवोपलभ्यते, अन्यत्र तु 'उदाहरन्'
इत्येवास्ति । २ पदमिदं ख० पुस्तके नोपलभ्यते । ३ योग्यत्वस्य, ख० योग्यत्वे ।
४ व्याप्तिः, क० व्याप्ति० । ५ च, क० वा ।

तृतीयपरिच्छेदः ४६
येन दृश्यानुपलम्भेनासद्व्यवहारयोग्यं विज्ञातम् । शशविषाणादि¹र्यस्या-
सद्व्यवहारविषयस्य स तथोक्तः । शशविषाणादौ हि दृश्यानुपलम्भमात्र²-
निमित्तोऽसद्व्यवहारः प्रमाणेन सिद्धः । तत एव प्रमाणादनेन वाक्येना-
भिधीयमाना व्याप्तिर्ज्ञातव्या ।
सम्प्रति व्याप्तिं कथयित्वा दृश्यानुपलम्भस्य पक्षधर्मत्वं दर्शयितुमाह—
नोपलभ्यते च क्वचित्प्रदेशविशेष उपलब्धि-
लक्षणप्राप्तो घट इति ।
नोपलभ्यते चेति । प्रदेश एकदेशः पृथिव्याः । स एव विशिष्य-
तेऽन्यस्मादिति विशेषः । एकः प्रदेशविशेष इत्येकस्मिन्प्रदेशे क्वचि-
दिति । प्रतिपत्तुः प्रत्यक्ष एकोऽपि प्रदेशः स एवाभावव्यवहाराधिकरणं यः
प्रतिपत्तुः प्रत्यक्षो नान्यः । उपलब्धिलक्षणप्राप्त इति दृश्यः । यथा चा-
सतोऽपि घटस्य समारोपितमुपलब्धिलक्षणप्राप्तत्वं तथा व्याख्यातम् ।
स्वभावहेतोः साधर्म्यवन्तं प्रयोगं दर्शयितुमाह—
तथा स्वभावहेतोः प्रयोगः—
यत्सत्तत्सर्वमनित्यं यथा घटादिरिति ।
तथेति । यथानुपलब्धेस्तथा स्वभावहेतोः साधर्म्यवान्प्रयोग इत्य-
र्थः । यत्सदिति सत्त्वमनूद्य तत्सर्वमनित्यमित्यनित्यत्वं विधीयते । सर्व-
ग्रहणं च नियमार्थम् । सर्वमनित्यं न किंचिन्नित्यं यत्सत्तदनित्यमेवानि-
त्यत्वादन्यत्र नित्यत्वे सत्त्वं नास्तीत्येवं सत्त्वमनित्यत्वे साध्ये नियतं ख्या-
पितं भवति³ । तथा च सति व्याप्तिप्रदर्शनवाक्यमिदम् । यथा घटादि-
रिति । व्याप्तिसाधनस्य प्रमाणस्य विषयकथनमेतत् ।
शुद्धस्य स्वभावहेतोः प्रयोगः ।

५० न्यायबिन्दुः

  • सविशेषणं दर्शयितुमाह—
    यदुत्पत्तिमत्तदनित्यमिति ।
    यदुत्पत्तिमदिति । उत्पत्तिः स्वरूपलाभो यस्या¹स्ति तदुत्पत्तिमत्² ।
    उत्पत्तिमत्त्वमनूद्य तदनित्यमित्यनित्यत्वविधेः³ । तथा च सत्युत्पत्तिमत्त्वम-
    नित्यत्वे नियतं⁴माख्यातम् ।
    स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः ।
    स्वभावभूतः स्वभावात्मको धर्मस्तस्य भेदेन भेदं हेतूकृत्य प्रयोगः ।
    अनुत्पन्नेभ्यो हि व्यावृत्तिमाश्रित्योत्पन्नो भाव उच्यते । सैव व्यावृत्तिः ।
    यदा व्यावृत्त्यन्तरनिरपेक्षा वक्तुमिष्यते तदा व्यतिरेकिणीव निर्दिश्यते ।
    भावस्योत्पत्तिरिति । तया च व्यतिरिक्तयेवोत्पत्त्या विशिष्टं वस्तूत्पत्तिमदु-
    क्तम् । तेन स्वभावभूतेन धर्मेण कल्पितभेदेन विशिष्टः स्वभावः प्रयुक्तो
    द्रष्टव्यः ।
    यत्कृतकं तदनित्यमित्युपाधिभेदेन ।
    यत्कृतकमिति ! कृतकत्वमनूद्यानित्यत्वं विधीयत इति । अनित्यत्वे⁵
    नियतं कृतकत्वमुक्तमतो व्याप्तिरनित्यत्वेन कृतकस्य दर्शिता । उपाधिभे-
    देन स्वभावस्य प्रयोग इति सम्बन्धः । उपाधिर्विशेषणम् । तस्य भेदेन
    भिन्नेनोपाधिना विशिष्टः स्वभावः प्रयुक्त इत्यर्थः । इह कदाचिच्छुद्ध एवार्थ
    उच्यते । कदाचिदव्यतिरिक्तेन विशेषणेन विशिष्टः । कदाचिद्व्यतिरिक्तेन ।
    देवदत्त इति शुद्धः । लम्बकर्ण इत्यभिन्नकर्णद्वयविशिष्टः । चित्रगुरिति
    व्यतिरिक्तचित्रगवीविशिष्टः । तद्वत्सत्त्वं शुद्धमुत्पत्तिमत्त्वमव्यतिरिक्तविशेष-
    णम् । कृतकत्वं व्यतिरिक्तविशेषणम् ।
    ननु च चित्रगुशब्दे व्यतिरिक्तस्य विशेषणस्य वाचकश्चित्रशब्दो
    गोशब्दश्चास्ति । कृतकशब्दे तु निर्विशेषणवाचिनः शब्दस्य प्रयोगोऽस्तीत्या-
    शङ्क्याह ।
    १ यस्य, ख० स यस्य । २ उत्पत्तिमत् , क० उत्पत्तिमत् , यदुत्पत्तिमदिति ।
    ३ विधेः, ख० विधिः । ४ नियतं व्याप्तमित्यर्थः । ५ अनित्यत्वे, क० अनियतत्वे ।

तृतीयपरिच्छेदः ५१
अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ
कृतक इति ।
अपेक्षितेति । परेषां कारणानां व्यापारः स्वभावस्य निष्पत्तौ निष्प-
त्त्यर्थमपेक्षितः परव्यापारो येन स तथोक्तः । हीति यस्मादर्थे । यस्माद-
पेक्षितपरव्यापारः कृतक उच्यते तस्माद्व्यतिरिक्तेन विशेषणेन विशिष्टः
स्वभाव उच्यते । यद्यपि व्यतिरिक्तं विशेषणपदं न प्रयुक्तं तथापि कृतक-
शब्देनैव व्यतिरिक्तं विशेषणमन्तर्भावितमत एव संज्ञाप्रकारोऽयं कृतकशब्दः ।
यस्मात्संज्ञायामयं कन्प्रत्ययो विहितः । यत्र च विशेषणमन्तर्भाव्यते तत्र
विशेषणपदं न प्रयुज्यते । क्वचित्प्रतीयमानं विशेषणं यथा कृत इत्युक्ते
हेतुभिरित्येतत्प्रतीयते । तत्र च हेतुशब्दः प्रयुज्यते । कदाचिन्न वा
प्रयुज्यते । प्रयुज्यमानस्वशब्दश्च यथा प्रत्ययभेदभेदिशब्दे प्रत्ययभेदः ।
एवं प्रत्ययभेदभेदित्वादयो द्रष्टव्याः ।
यथा च कृतकशब्दो भिन्नविशेषणस्वभावाभिधाय्येवं प्रत्ययभेदभेदि-
त्वादित्येषां प्रयत्नानन्तरीयकत्वादीनां तेऽपि स्वभावहेतोः प्रयोगा भिन्न-
विशेषणस्वभावाभिधायिनो द्रष्टव्याः । प्रत्ययानां कारणानां भेदो विशेष-
स्तेन प्रत्ययभेदेन भेत्तुं शीलं यस्य स प्रत्ययभेदभेदी शब्दस्तस्य भावः
प्रत्ययभेदभेदित्वम् । ततः प्रत्ययभेदभेदित्वाच्छब्दस्य कृतकत्वं साध्यते ।
प्रयत्नानन्तरीयकत्वादनित्यत्वं साध्यते । तत्र प्रत्ययभेदशब्दो व्यतिरिक्त-
विशेषणाभिधायी प्रत्ययभेदभेदिशब्दे प्रयुक्तः । प्रयत्नानन्तरीयकशब्दे च
प्रयत्नशब्दः । तदेवं त्रिविधः स्वभावहेतुप्रयोगो दर्शितः । शुद्धोऽव्यतिरिक्त-
विशेषणो व्यतिरिक्तविशेषणश्च । एवमर्थं चैतदाख्यातम् । वाचकभेदान्मा
भूत्कस्यचित्स्वभावहेतावपि प्रयुक्ते व्यामोह इति ।
सन्नुत्पत्तिमान्कृतको वा शब्द इति पक्षधर्मोपदर्शनम् ।
१ कृतकस्य लक्षणमिदम् । २ न, ख० न च । ३ विशेषणं, ख विशेषणपदम् ।
४ इदं पदं ख० पुस्तके न विद्यते । ५ प्रत्ययभेदभेदिशब्दे, ख० प्रत्ययभेदशब्दे । ६ पद-
मिदं ख० पुस्तके नैवोपलभ्यते । ७ क० प्रयोगः, ख० योगः । ८ एवमर्थं, ख०
एतदर्थम् । किञ्चिदपि टीकाकारेणास्योपरि न लिखितम् ।

सर्वे एते साधनधर्मा यथास्वं प्रमाणैः सिद्धसाधन-
धर्ममात्रानुबन्ध एव साध्यधर्मेऽवगन्तव्याः ।
अथ किमेते स्वभावहेतवः सिद्धसंबन्धे स्वभावे साध्ये प्रयोक्तव्याः,
आहोस्विदसिद्धसंबन्ध इत्याशङ्क्य सिद्धसंबन्धे प्रयोक्तव्या इति दर्शयितु-
माह । सर्व एत इति । गमकत्वात्साधनानि पराश्रितत्वाच्च धर्माः साधन-
धर्मा एव साधनधर्ममात्रम् । मात्रशब्देनाधिकस्यापेक्षणीयस्य निरासः ।
तस्यानुबन्धोऽनुगमनमन्वयः सिद्धः साधनधर्ममात्रानुबन्धो यस्य स
तथोक्तः । केन सिद्ध इत्याह । यथा स्वं प्रमाणैरिति² । यस्य साध्यधर्मस्य
यदात्मीयं प्रमाणं तेनैव प्रमाणेन सिद्ध इत्यर्थः । स्वभावहेतूनां च बहुभे-
दत्वात् । संबन्धसाधनान्यपि प्रमाणानि बहूनीति प्रमाणैरिति बहुवचन-
निर्देशः । गमयितव्यत्वात्साध्यः पराश्रितत्वाच्च धर्मः साध्यधर्मस्तदयं
परमार्थः । न हेतुः प्रदीपवद्योग्यतया गमकोऽपि तु नान्न्तरीयकतया
विनिश्चितः । साध्याविनाभावित्वनिश्चयनमेव हि⁴ हेतोः साध्यप्रतिपादन-
व्यापारो नान्यः कश्चित् । प्रथमं बाधकेन प्रमाणेन साध्यप्रतिबन्धो
निश्चेतव्यो हेतोः पुनरनुमानकालेन साधनं साध्यानान्तरीयकं सामान्येन
स्मर्तव्यम् । कृतकत्वं नामानित्यत्वस्वभावमिति सामान्येन स्मृतै⁵मर्थं
पुनर्विशेषे योजयतीदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावमेवेति ।
तत्र सामान्यस्मरणं लिङ्गज्ञानम् । विशिष्टस्य तु शब्दगतकृतकस्थानित्यत्व-
स्वभावस्य स्मरणमनुमानज्ञानम् । तथा च सत्यविनाभावित्वज्ञानमेव
परोक्षार्थप्रतिपादकत्वं नाम । तेन निश्चिततन्मात्रानुबन्धिशाध्यधर्मे
स्वभावहेतवः प्रयोक्तव्या नान्यत्रेत्युक्तम् ।
यद्येवं सम्बन्धो निश्चेतव्यः । साध्यस्य साधनेन सह साधनधर्म-
मात्रानुबन्धस्तु साध्यस्य कस्मान्निश्चितो मृग्यत इत्याह । त⁶स्यैवेति ।
सिद्धसाधनधर्ममात्रानुबन्धस्य ।
१ गमकत्वात्, क० गमत्वात् । २ 'इति' इति पाठः ख० पुस्तके नोपलभ्यते ।
३ पाठोऽयं ख० पुस्तके नोपलभ्यते । ४ 'हि' इति पाठः ख० पुस्तके नैवोपलभ्यते ।
५ स्मृतमर्थम्, ख० स्मृतमर्थाय । ६ नायं 'तस्यैवेति' मूलेऽवलोक्यते । तस्मादस्माकं
सम्मतौ किञ्चिच्छुद्धं वाक्यं वाऽऽत्र परित्यक्तम् , मूलपुस्तकस्य लेखकेन प्रमादवशात् ।

तत्स्वभावत्वात्स्वभावस्य च हेतुत्वात् ।
तत्स्वभावत्वादिति । साधनधर्मस्वभावत्वात् । यो हि साध्यधर्मः
साधनधर्ममात्रानुबन्धवान्स एव तस्य साधनधर्मस्य स्वभावो नान्यः । भव-
त्वीदृश एव स्वभावः । स्वभाव एव तु साध्ये कस्माद्धेतुप्रयोगः । स्वभावस्य
हेतुत्वात् । स्वभाव ¹इह हेतुः प्रक्रान्तः । तस्मात्स एव साध्यः कर्तव्यः ।
यः साधनस्य स्वभावः स्यात्साधनधर्ममात्रानुबन्धश्च² स्वभावो नान्यः ।
यदि साध्यधर्मः साधनस्य स्वभावः प्रतिज्ञार्थैकदेशस्तर्हि हेतुः
स्यादित्याह ।
वस्तुतस्तयोस्तादात्म्यात्तन्निष्पत्तावनिष्पन्नस्य तत्स्वभा-
वत्वाभावाद्व्यभिचारसंभवाच्च ।
वस्तुत इति । वस्तुतः परमार्थतः साध्यसाधनयोस्तादात्म्यम् ।
समारोपितस्तु साध्यसाधनयो³र्भेदः । साध्यसाधनभावो हि निश्चयारूढे
रूपे । निश्चयारूढं च रूपं समारोपितेन भेदेनेतरव्यावृत्तिकृतेन भिन्नमित्य-
न्यत्साधनमन्यत्साध्यम् । दूराद्धि शाखादिमानर्थो⁴ वृक्ष इति निश्चीयते न
शिंशपेति । अथ च स एव वृक्षः । सैव शिंशपा । तस्माद्भिन्नमपि वस्तु
निश्चयो भिन्नमादर्शयति व्यावृत्तिभेदेन । तस्मान्निश्चयारूढरूपापेक्षयान्य-
त्साधनमन्यत्साध्यम् , अतो न प्रतिज्ञार्थैकदेशो हेतुर्वास्तवं च तादात्म्य-
मिति । कस्मात्पुनः साधनधर्ममात्रानुबन्ध्येव⁵ साध्यः स्वभावो नान्य
इत्याह । तन्निष्पत्ताविति । यो हि यन्नानुबध्नाति स तन्निष्पत्तावनिष्पन्नः⁶ ।
तस्य तन्निष्पत्तावनिष्पन्नस्य साधनस्वभावत्वमयुक्तम् । यतो निष्पत्त्यनि-
ष्पत्ती भावाभावरूपे । भावाभावौ च परस्परपरिहारेण स्थितौ । यदि च
पूर्वनिष्पन्नस्यानिष्पन्नस्य चैक्यं भवेत् , एकस्यैवार्थस्य भावाभावौ स्यातां
युगपन्न च विरुद्धयोर्भावाभावयोरैक्यं युज्यते । विरुद्धधर्मसंसर्गात्मकत्वा-
¹ इह, ख० एव । ² अनुबन्धश्च स्वभावः, ख० अनुबन्धवांश्च भावः । ³ साध्य-
साधनयोः, ख० साध्यसाधनभेदः । ⁴ 'अर्थो' इत्यस्य स्थाने मुद्रितपुस्तके 'अथो' इति
पाठो विद्यते । यश्चास्माकं सम्मतौ अशुद्ध एव । ⁵ अनुबन्ध्वेव, ख० अनुबन्धे च ।
⁶ क० स तन्निष्पत्तावनिष्पन्नस्य साधन० ।