सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

नियतप्रतिभासं जनयति । विकल्पविज्ञानं त्वर्थान्नोत्पद्यते । ततः प्रतिभास-
नियमहेतोरभावादनियतप्रतिभासम् ।
कुतः पुनरेतद्विकल्पोऽर्थान्नोत्पद्यत इति । अर्थसंनिधिनिरपेक्षत्वात् ।
बालोऽपि हिं यावद्दृश्यमानं स्तनं स एवायमिति पूर्वदृष्टत्वेन न प्रत्यव-
मृशति तावन्नोपरतरुदितो मुखमर्पयति स्तने । पूर्वदृष्टापरदृष्टं चार्थमेकी-
कुर्वद्विज्ञानमसन्निहितविषयम् । पूर्वदृष्टस्यासन्निहितत्वात् । असन्निहित-
विषयं चार्थनिरपेक्षम् । अनपेक्षं च प्रतिभासनियमहेतोरभावादनियत-
प्रतिभासम् । तादृशं चाभिलापसंसर्गयोग्यम् । इन्द्रियविज्ञानं तु संन्निहि-
तमात्रग्राहित्वादर्थसापेक्षम् । अर्थस्य च प्रतिभासनियमहेतुत्वान्नियतप्रति-
भासम् । ततो नाभिलापसंसर्गयोग्यम् । अत एव स्वलक्षणस्यापि वाच्य-
वाचकभावमभ्युपगम्यैतद्विकल्पकत्वमुच्यते ।
यद्यपि हि स्वलक्षणमेव वाच्यं वाचकं च भवेत्तथाप्यभिलापसंसृष्टार्थं
विज्ञानं सविकल्पकम् । न चेन्द्रियविज्ञानमर्थेन नियमितप्रतिभासत्वाद-
भिलापसंसर्गयोग्यप्रतिभासं भवतीति निर्विकल्पकम् । श्रोत्रँज्ञानं तर्हि
शब्दँस्वलक्षणग्राहि । शब्दँस्वलक्षणं किञ्चिद्वाच्यं किञ्चिद्वाचकमित्यभिलाप-
संसर्गयोग्यप्रतिभासं स्यात् । तथा च सविकल्पकं स्यात् । नैष दोषः ।
सत्यपि स्वलक्षणस्य वाच्यवाचकभावे सङ्केतकालदृष्टत्वेन गृह्यमाणं स्वलक्षणं
वाच्यं वाचकं च गृहीतं स्यात् । न च सङ्केतकालभाविदर्शनविषयत्वं
वस्तुनः सम्प्रत्यस्ति ।
यथा हि सङ्केतकालभाविदर्शनमद्य निरुद्धं तद्वत्तद्विषयत्वमप्यर्थस्याद्य
नास्ति । ततः पूर्वकालदृष्टत्वमपश्यच्छ्रोत्रज्ञानं न वाच्यवाचकभावग्राहि ।
अनेनैव न्यायेन योगिज्ञानमपि सकलशब्दार्थावभासित्वेऽपि सङ्केतकाल-
दृष्टत्वाग्रहणात्रिर्विकल्पकम् । तया कल्पनया कल्पनास्वभावेन रहितं शून्यं
सञ्ज्ञानं यदभ्रान्तं तत्प्रत्यक्षमिति परेण सम्बन्धः । कल्पनापोढत्वाभ्रान्तत्वे
परस्परसापेक्षे प्रत्यक्षलक्षणं न प्रत्येकमिति दर्शयितुं तया रहितं यदभ्रान्तं
तत्प्रत्यक्षमिति लक्षणयोः परस्परसापेक्षयोः प्रत्यक्षविषयत्वं दर्शितमिति ।

१ विकल्पविज्ञानम् । २ स्मरति । ३ सन्निहितमात्र० ख० संनिहितार्थमात्र० ।
४ ख० श्रोत्रविज्ञानं । ५ ‘शब्द०’ इति पाठः ख० पुस्तके न विद्यते । ६ शब्दस्वलक्षणं,
ख० शब्दे स्वलक्षणं च । ७ ज्ञानं, ख० विज्ञानं । ८ ख० पुस्तके ‘सूत्रेण ( लिखित-
पुस्तके सूत्रेण )’ इत्यधिकः पाठो विद्यते ।

१२ न्यायबिन्दुः
तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं
ज्ञानं प्रत्यक्षम् ।
तिमिरमक्ष्णोर्विप्लवः¹। इन्द्रियगतमिदं विभ्रमकारणम् । आशुभ्रम-
णमलातादेः । मन्दं हि³ भ्रम्यमाणे⁴ऽलातादौ न चक्रभ्रान्तिरुत्पद्यते ।
तदर्थमाशुग्रहणेन विशेष्यते भ्रमणम् । एतच्च विषयगतं विभ्रमकारणम् ।
नावा गमनं नौयानम् । गच्छन्त्यां नावि स्थितस्य गच्छद्वृक्षादिभ्रान्ति-
रुत्पद्यत इति यानग्रहणम् । एतच्च बाह्याश्रयस्थितं विभ्रमकारणम् ।
संक्षोभो वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभं गतेषु ज्वलितस्तम्भादि-
भ्रान्तिरुत्पद्यते । एतच्चाध्यात्मगतं विभ्रमकारणम् । सर्वैरेव च विभ्रमका-
रणैरिन्द्रियविषयबाह्याध्यात्मिकाश्रयगतैरिन्द्रियमेव विकर्तव्यम् । अविकृत
इन्द्रिय इन्द्रियभ्रान्त्ययोगात् । एते संक्षोभपर्यन्ता आद्यो येषां ते
तथोक्ताः । आदिग्रहणेन काचकामलादय इन्द्रियस्था गृह्यन्ते । आशुन-
यनानयनादयो विषयस्थाः । आशु नयनानयने हि⁹ कार्यमाणे¹⁰ऽलातादाव-
त्रिवर्णदण्डाभासा भ्रान्तिर्भवति । हस्तियानादयो बाह्याश्रयस्था गाढमर्म-
प्रहारादय आध्यात्मिकाश्रयस्था विभ्रमहेतवो गृह्यन्ते । ¹¹तैरनाहितो¹² विभ्रमो
यस्मिंस्तत्तथाविधं ज्ञानं प्रत्यक्षम् ।
तदेवं लक्षणमाख्याय यैरिन्द्रियमेव द्रष्टृ कल्पितं मानसप्रत्यक्षलक्षणे
च दोष उद्भावितः स्वसंवेदनं च नाभ्युपगतं योगिज्ञानं च तेषां विप्रति-
¹³पत्तिनिराकरणार्थं प्रकारभेदं प्रत्यक्षस्य दर्शयन्नाह—
तच्चतुर्विधम् ।
इन्द्रियज्ञानम् ।
इन्द्रियस्य ज्ञानमिन्द्रियज्ञानम् । इन्द्रियाश्रितं यत्तत्प्रत्यक्षम् ।
१ नेत्रयोः। २ ख० भ्रम०। ३ 'हि' इति पदं ख० पुस्तक एवोपलभ्यते । ४ ख०
भ्राम्यमाणे। ५ क० भ्रम०। ६ ज्वलित०, ख० ज्वलितरूपं । ७ ख० आध्यात्मिकं
भ्रान्तिकारणम् । ८ 'इन्द्रिय' इति पाठः ख० पुस्तके नैवोपलभ्यते । ९ 'हि' इति पदं
ख० पुस्तके नैवोपलभ्यते । १० ख० अलाते । ११ ख० एतैः । १२ अनाहितः दूरी
कृतः। १३ ख० निरासार्थम् ।

प्रथमपरिच्छेदः १३
मानसप्रत्यक्षे १ परैर्यो २ दोष उद्भावितस्तं ३ निराकर्त्तुं मानसप्रत्यक्ष-
लक्षणमाह—
स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समन-
न्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् ।
स्व आत्मीयो विषय इन्द्रियज्ञानस्य ४ तस्यानन्तरः ५ । न विद्यतेऽन्तर-
मस्येत्यनन्तरः । अन्तरं च व्यवधानं विशेषश्चोच्यते । ततश्चान्तरे
प्रतिषिद्धे समानजातीयो द्वितीयक्षणभाव्युपादेयक्षण इन्द्रियविज्ञानविषयस्य
गृह्यते । तथा च सतीन्द्रियज्ञानविषयक्षणादुत्तरक्षण एकसन्तानान्तर्भूतो
गृहीतः । स सहकारी यस्येन्द्रियविज्ञानस्य तत्तथोक्तम् । द्विविधश्च
सहकारी । परस्परोपकारी एककार्यकारी च । इह च क्षणिके वस्तुन्यति-
शयाधानायोगादेककार्यकारित्वेन सहकारी गृह्यते । विषयविज्ञानाभ्यां हि ६
मनोविज्ञानमेकं क्रियते यतस्तद्वनयोर्न ७ परस्परसहकारित्वम् । ईदृशेनेन्द्रिय-
ज्ञानेनालम्बनप्रत्ययभूतेनापि योगिज्ञानं जन्यते । तन्निरासार्थं सम-
नन्तरप्रत्ययग्रहणं कृतम् ८ । समश्चासौ ज्ञानत्वेनानन्तरश्चासावव्यवहितत्वेन
स चासौ प्रत्ययश्च हेतुत्वात्समनन्तरप्रत्ययस्तेन जनितम् ।
तदनेनैकसन्तानान्तर्भूतयोरेवेन्द्रियज्ञानमनोविज्ञानयोर्जन्यजनकभावे
मनोविज्ञानं प्रत्यक्षमित्युक्तं ९ १० भवति । ततो योगिज्ञानं परसन्तानवर्ति
निरस्तम् ११ । यदा चेन्द्रियज्ञानविषयादन्यो विषयो मनोविज्ञानस्य तदा
गृहीतग्रहणादासञ्जि १२ तोऽप्रामाण्यदोषो निरस्तः । यदा चेन्द्रियज्ञानविषयो-
पादेयभूतः क्षणो गृहीतस्तदेन्द्रियज्ञानेनागृहीतस्य विषयान्तरस्य ग्रहणा-
दन्धबधिराद्यभावदोषप्रसंगो निरस्तः । एतच्च मनोविज्ञानमुपरतव्यापारे
चक्षुषि प्रत्यक्षमिष्यते । व्यापारवति तु चक्षुषि यद्रूपज्ञानं तत्सर्वं चक्षु-
राश्रितमेव । इतरथा चक्षुराश्रितत्वानुपपत्तिः कस्यचिदपि विज्ञानस्य १३ ।
१ ख० मानसे च प्रत्यक्षे । २ अन्यवादिभिः । ३ प्रकटीकृतः । ४ ख० विज्ञानस्य ।
५ 'अनन्तरः' इति पदं ख० पुस्तक एवोपलभ्यते । ६ विषयविज्ञानाभ्यां हि मनोविज्ञानं,
ख० विषयविज्ञानाभ्यां मनोविज्ञानाभ्यां मनोविज्ञानम् । ७ तद्वनयोर्न परस्परसहका-
रित्वं, ख० तदनयोः परस्परस्य सहकारित्वम् । ८ 'कृतम्' इति पदं ख० पुस्तके
नैवोपलभ्यते । ९ इदं पदं ख० पुस्तके न विद्यते । १० 'इति' इति पदं ख० पुस्तके
न विद्यते । ११ अपाकृतं खण्डितमित्यभिप्रायः । १२ प्राप्तः । १३ ख० ज्ञानस्य ।

१४ न्यायबिन्दुः
एतच्च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम् । न त्वस्य प्रसाधकमस्ति
प्रमाणम् । एवं जातीयकं तद्यदि स्यान्न कश्चिद्दोषः स्यादिति वक्तुं लक्षण-
माख्यातमस्येति ।
स्वसंवेदनमाख्यातुमाह—
सर्वचित्तचैत्तानामात्मसंवेदनम् ।
चित्तमर्थमात्रग्राहि । चैत्ता विशेषावस्थाग्राहिणः सुखादयः¹ । सर्वे
च ते चित्तचैत्ताश्च सर्वचित्तचैत्ताः । सुखादय एव स्फुटानुभवत्वात्स्वसंवि-
दिताः । नान्या चित्तावस्थेत्येतदाशङ्कानिवृत्त्यर्थं सर्वग्रहणं कृतम् । नास्ति
सा काचिच्चित्तावस्था यस्यामात्मनः संवेदनं न प्रत्यक्षं स्यात् । येन हि
रूपेणात्मा वेद्यते तद्रूपमात्मसंवेदनं प्रत्यक्षम् । इह च रूपादौ वस्तुनि
दृश्यमानेऽन्तरः सुखाद्याकारस्तुल्यकालं संवेद्यते । न च गृह्यमाणाकारो
नीलादिः सातादिरूपो वेद्यते इति वक्तुं शक्यम्² । यतो नीलादिः सात-
रूपेणानुभूयत³ इति न निश्चीयते । यदि हि सातादिरूपोऽयं⁴ नीलादिरनु-
भूयत इति निश्चीयेत स्यात्तदौ⁵ तस्य सातादिरूपत्वम् । यस्मिन् रूपे प्रत्य-
क्षस्य साक्षात्कृतित्वव्यापारो विकल्पेनानुगम्यते तत्प्रत्यक्षम् । न च
नीलस्य सातरूपत्वमनुगम्यते । तस्मादसातान्नीलाद्यर्थादन्यदेव सातमनु-
भूयते नीलानुभवकाले । तच्च ज्ञानमेव । ततोऽस्ति ज्ञानानुभवः । तच्च⁶
ज्ञानरूपं वेदनमात्मनः साक्षात्कारी निर्विकल्पकमभ्रान्तं च तस्मात्प्रत्यक्षम् ।
योगिप्रत्यक्षं व्याख्यातुमाह—
भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ।
भूतः सद्भूतोऽर्थः । प्रमाणेन दृष्टश्च सद्भूतः । यथा चत्वार्या-
१ बाह्यार्थास्तित्ववादिनां सौत्रान्तिकानां मते वस्तु द्विविधम् । बाह्यमा-
न्तरञ्च । बाह्यं पुनर्द्विविधम् । भूतं भौतिकञ्च । आन्तरमपि द्विविधम् । चित्तं
चैत्तञ्च । चैत्तं चैत्तिकमपि कथ्यते । भूतं पृथिव्यादयश्चत्वारः परमाणवः । भौतिकं रूपा-
दयश्चक्षुरादयश्च । चित्तं विज्ञानम् । चैत्तिकं रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्च-
स्कन्धाः । विज्ञानं पुनर्द्विविधम् । आलयविज्ञानमहमित्याकारकम् । प्रवृत्तिविज्ञान-
मिन्द्रियादिजन्यं रूपादिविषयम् । २ वक्तुं शक्यं, ख० शक्यं वक्तुं । ३ सातरूपेण,
ख० सार्तानुरूपेण । ४ सातादिरूपः, ख० सतरूपः । ५ 'तदा' इति पदं ख० पुस्तक
एवोपलभ्यते । ६ तच्च ज्ञानरूपं वेदनं, ख० तत्त्वज्ञानस्वरूपवेदनम् ।

¹र्यसत्यानि । भूतार्थस्य भावना पुनः पुनश्चेतसि विनिवेशनम्² । भावनायाः³
प्रकर्षो भाव्यमानार्थाभासस्य⁴ ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य पर्यन्तो
यदा स्फुटाभत्वमीषदसम्पूर्णं भवति । यावद्धि स्फुटाभत्वमपरिपूर्णं तावत्त-
स्य प्रकर्षगतिः⁵ । सम्पूर्णं तु यदा तदा नास्ति प्रकर्षगतिः । ततः सम्पूर्णा-
वस्थायाः प्राक्तन्यवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते । तस्मात्पर्यन्ताद्यज्जातं
भाव्यमानस्य संनिहितस्येव स्फुटतराकारग्राहि ज्ञानं योगिनः प्रत्यक्षम् ।
तदिह स्फुटाभत्वारम्भावस्था भावनाप्रकर्षः । अभ्रकव्यवहितमिव यदा
भाव्यमानं वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था । करतलामलकवद्भाव्यमा-
नस्यार्थस्य यद्दर्शनं तद्योगिनः प्रत्यक्षम् । तद्धि स्फुटाभम् । स्फुटाभत्वादेव
च निर्विकल्पकम् । विकल्पविज्ञानं हि संकेतकालदृष्टत्वेन वस्तु गृह्णच्छब्द-
संसर्गयोग्यं गृह्णीयात् । संकेतकालदृष्टत्वं च संकेतकालोत्पन्नज्ञानविषयं-
त्वम्⁶ । यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं सम्प्रत्यसत् । तद्वत्पूर्वविनष्टज्ञान-
विषयत्वमपि सम्प्रति नास्ति वस्तुनः । तदसद्रूपं वस्तुनो गृह्णदसंनिहि-
तार्थग्राहित्वादस्फुटाभम्⁷ । अस्फुटाभत्वादेव च⁸ सविकल्पकम् । ततः
स्फुटाभत्वान्निर्विकल्पकम् । प्रमाणशुद्धार्थग्राहित्वाच्च संवादकम् । अतः
प्रत्यक्षम् । इतरप्रत्यक्षवत् । योगः समाधिः । स यस्यास्ति स योगी ।
तस्य ज्ञानं प्रत्यक्षम् । इति शब्दः परिसमाप्त्यर्थः⁹ । इयदेव प्रत्यक्षमिति ।
तदेवं प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्य प्रकारभेदं प्रतिपाद्य
विषयविप्रतिपत्तिं निराकर्तुमाह—
तस्य विषयः स्वलक्षणम् ।
तस्य¹⁰ चतुर्विधप्रत्यक्षस्य विषयो बोद्धव्यः । स्वलक्षणम् । स्वमसाधारणं
लक्षणं तत्त्वं स्वलक्षणम् । वस्तुनो ह्यसाधारणं च तत्त्वमस्ति सामान्यं च ।

१ चत्वार्यार्यसत्यानि दुःखसमुदयनिरोधमार्गसंज्ञकानि । २ विनिवेशनं स्थापनम् ।
३ 'भावनायाः' इत्यस्य स्थाने ख० पुस्तकस्य 'भावनयो' इति पाठोऽशुद्धः प्रतीयते ।
४ आभासस्य, ख० अवभासस्य । ५ गतिः, ख० गमनम् । ६ यस्मिन् काले संकेत
उत्पद्यते तस्मिन्नेव काले तस्य ज्ञानविषयत्वं संकेतकालोत्पन्नज्ञानविषयत्वम् ।
७ 'अर्थ' इति पाठः ख० पुस्तके न विद्यते । ८ 'एव च' इति पाठः ख० पुस्तक एवोपल-
भ्यते । ९ परिसमाप्त्यर्थः, ख० परिसमाप्तिवचनम् । १० चतुर्विध०, ख० चतुर्विधस्य ।

१६ : न्यायबिन्दुः
यदसाधारणं तत्प्रत्यक्षग्राह्यम् । द्विविधो हि प्रमाणस्य¹ विषयो ग्राह्यश्च यर्द्दा-
कारमुत्पद्यते । प्रापणीयश्च यमध्यवस्यति² । अन्यो हि ग्राह्यो³ऽन्योऽध्यव-
सेयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः । अध्यवसेयस्तु प्रत्यक्षबलोत्प-
न्नेन निश्चयेन संतान एव । संतान⁵ एव च प्रत्यक्षस्य प्रापणीयः । क्षणस्य
प्रापयितुमशक्यत्वात्⁶ । तथानुमानमपि स्वप्रतिभासेऽनर्थेऽनर्थाध्यवसायेन⁷
प्रवृत्तेरनर्थग्राहि । स पुनरारोपितोऽर्थो गृह्यमाणः स्वलक्षणत्वेनावसीयते
यतस्ततः स्वलक्षणमध्यवसितं प्रवृत्तिविषयोऽनुमानस्य । अनर्थस्तु ग्राह्यः ।
तदत्र प्रमाणस्य ग्राह्यं विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्तः ।
कः पुनरसौ विषयो ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्य⁸ इत्याह—
यस्यार्थस्य संनिधानासंनिधानाभ्यां ज्ञान-
प्रतिभासभेदस्तत्स्वलक्षणम् ।
अर्थशब्दो विषयपर्यायः । यस्य ज्ञानविषयस्य । सन्निधानं निकट-
देशावस्थानम् । असन्निधानं दूरदेशावस्थानम् । तस्मात्सन्निधानाद-
सन्निधानाच्च ज्ञानप्रतिभासस्य ग्राह्याकारस्य भेदः स्फुटत्वास्फुटत्वाभ्याम् ।
यो हि ज्ञानस्य⁹ विषयः सन्निहितः ¹⁰सन्स्फुटमाभासं ज्ञानस्य करोति । अस-
न्निहितस्तु योग्यदेशावस्थित एवास्फुटं करोति तत्स्वलक्षणम् । सर्वाण्येव
हि वस्तूनि दूरादस्फुटानि दृश्यन्ते । समीपे स्फुटानि । तान्येव स्वल-
क्षणानि ।
१ प्रमाणस्य विषयः, ख० विषयः प्रमाणस्य । २ अध्यवस्यति ज्ञास्यतीत्यर्थः ।
३ बौद्धनये विज्ञानमर्थजनितमर्थाकारमर्थस्य ग्राहकम् । तदुत्पत्तिमन्तरेण विषयं प्रति
नियमायोगात् । घटज्ञानं घटादेवोत्पद्यत इत्यर्थः । जनितत्वं विज्ञानस्य प्रमाणस्य वा ।
प्रमाणस्य ग्राह्यो विषय एव तस्यार्थाकारत्वम् । तस्य प्रापणीयो विषय एव तस्यार्थ-
ग्राहकत्वम् । ४ अध्यवसेयोऽर्थः । ५ बौद्धमते यत्सत्तत्सर्वं क्षणिकम् । यदेकस्मिन्
क्षणे विद्यते तद्द्वितीये क्षणे विनश्यते । जीवस्य विषयेऽपि त इत्थमेव प्राहुः । एकस्मिन्
प्राणिन्येकस्मिन्क्षणे यो जीवो विद्यते स क्षणान्तरमेव विनश्यते । द्वितीयक्षणे तस्य
सन्तानमात्रमवशिष्यते । आदानप्रदानादीनां स्मृतिरूपव्यवहारस्तु संस्काराज्जायते ।
६ न कोऽपि प्रत्यक्षेण क्षण ग्राहयितुं शक्यः । तस्यात्यन्तसूक्ष्मत्वात् । अत एवाविद्या-
प्रत्ययेन पूर्ववदिवावभासयन्सन्तान एव प्रत्यक्षस्य प्रापणीयः । ७ अनर्थाध्यवसायेन,
ख० अर्थाध्यवसायेन । ८ ज्ञातव्यः । ९ ज्ञानस्य, ख० ज्ञान० । १० सन्, ख० स ।

प्रथमपरिच्छेदः १७
कस्मात्पुनः प्रत्यक्षविषय एव स्वलक्षणम् । तथा हि विकल्पविषयोपि
वहिर्दृश्यात्मक एवावसीयत इत्याह—
तदेव परमार्थसत् ।
परमार्थोऽकृत्रिममनारोपितं रूपम् । तेनास्तीति परमार्थसत् । य
एवार्थः सन्निधानासन्निधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमा-
र्थसन्स एव । स एवं च प्रत्यक्षविषयो यतस्तस्मात्तदेव स्वलक्षणम् ।
कस्मात्पुनस्तदेव परमार्थसदित्याह—
अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः ।
अर्थ्यत इत्यर्थः । हेय उपादेयश्च । हेयो हि हातुमिष्यत उपादेय-
श्चोपादातुम् । अर्थस्य प्रयोजनस्य क्रिया निष्पत्तिस्तस्यां सामर्थ्यं शक्तिस्त-
देव लक्षणं रूपं यस्य वस्तुनस्तदर्थक्रियासामर्थ्यलक्षणम् । तस्य भावः ।
तस्माद्वस्तु शब्दः परमार्थसत्पर्यायः । तदयमर्थो यस्मादर्थक्रियासमर्थं
परमार्थसदुच्यते सन्निधानासन्निधानाभ्यां च ज्ञानप्रतिभासस्य भेदकोऽ-
र्थोऽर्थक्रियासमर्थः । तस्मात्स एव परमार्थसत् । तत एव हि प्रत्यक्ष-
विषयादर्थक्रिया प्राप्यते । न विकल्पविषयात् । अत एव यद्यपि विकल्प-
विषयो दृश्य इवावसीयते तथापि न दृश्य एव । ततोऽर्थक्रियाभावात् ।
दृश्याच्च भावात् । अतस्तदेव स्वलक्षणं न विकल्पविषयम् ।
अन्यत्सामान्यलक्षणम् ।
एतस्मात्स्वलक्षणाद्यदन्यत्स्वलक्षणं यो न भवति ज्ञानविषयस्तत्समा-
न्यलक्षणम् । विकल्पविज्ञानेनावसीयमानो ह्यर्थः सन्निधानासन्निधानाभ्यां
ज्ञानप्रतिभासं न भिनत्ति । तथा ह्यारोप्यमाणो वह्निरारोपादस्ति ।
आरोपाच्चदूरस्थो निकटस्थश्च । तस्य समारोपितस्य सन्निधानादसन्नि-
धानाच्च ज्ञानप्रतिभासस्य न भेदः स्फुटत्वेनास्फुटत्वेन वा । ततः स्वलक्ष-
णादन्य उच्यते । सामान्येन लक्षणं सामान्यलक्षणम् । साधारणं रूप-
१ निश्चीयते । २ 'एव' इति पदं ख० पुस्तक एवोपलभ्यते । ३ यदेवार्थक्रिया-
कारी तदेव परमार्थसत् । नित्यं नार्थक्रियाकारी तन्न तत्परमार्थसत् । ४ तत्सामान्य-
लक्षणम्, ख० तस्मात्सामान्यलक्षणम् । ५ नीशीयमानः ।
३ न्या०

१८ न्यायबिन्दुः
मित्यर्थः । समारोप्यमाणं हि रूपं सकलवह्निसाधारणम् । ततस्तत्^१सामान्य-
लक्षणम् ।
तच्चानुमानस्य ग्राह्यं दर्शयितुमाह—
सोऽनुमानस्य विषयः ।
सोऽनुमानस्य विषयो ग्राह्यरूपः । सर्वनाम्नोऽभिधेयवल्लिङ्गपरिग्रहः ।
सामान्यलक्षणम् । अनुमानस्य विषयं व्याख्यातुकामेनायं स्वलक्षणस्वरूपा-
ख्यानग्रन्थ आवर्तनीयः^२ स्यात् । ततो लाघवार्थं प्रत्यक्षपरिच्छेद एवानु-
मानविषय उक्तः ।
विषयविप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह—
तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वात् ।
यदेवानन्तरमुक्तं प्रत्यक्षं तदेव प्रमाणस्य फलम् । कथं प्रमाणफल-
मित्याह । अर्थस्य प्रतीतिरवगमः^३ । सैव रूपं यस्य प्रत्यक्षज्ञानस्य तदर्थ-
प्रतीतिरूपम् । तस्य भावः । तस्मादेतदुक्तं भवति । प्रापकं ज्ञानं प्रमाणं ।
प्रापणशक्तिश्च न केवलार्थाविनाभावित्वाद्भवति । बीजाद्यविनाभाविनो-
प्यङ्कुरादेरप्रापकत्वात् । तस्मादर्था^४दुत्पत्तावप्यस्य ज्ञानस्यास्ति कश्चिदवश्य-
कर्त्तव्यः प्रापकव्यापारः । येन कृतेनार्थः प्रापितो भवति । स एव च
प्रमाणफलम् । यदनुष्ठानात्प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात्प्रवृत्ति-
विषयप्रदर्शनमेव प्रापकस्य प्रापकव्यापारो नाम । तदेव च प्रत्यक्षमर्थ-
प्रतीतिरूपमर्थदर्शनरूपम्^५ । अतस्तदेव प्रमाणफलम् ।
यदि तर्हि ज्ञानं प्रमितिरूपत्वात्प्रमाणफलं किं तर्हि प्रमाणमित्याह—
अर्थसारूप्यमस्य प्रमाणं ।
अर्थेन सह यत्सारूप्यं सादृश्यमस्य^६ ज्ञानस्य तत्प्रमाणमिह । यस्मा-
द्विषयाज्ज्ञान^७मुदेति तद्विषयसदृशं तद्भवति । यथा नीलादुत्पद्यमानं नील-
सदृशम् । तच्च सारूप्यं सादृश्यमाकार इत्याभास इत्यपि व्यपदिश्यते^१० ।
१ ततस्तत्सामान्यलक्षणम्, ख० ततस्तस्मात्सामान्यलक्षणम् । २ पुनः कथनीयः
स्यात् । ३ अवगमो ज्ञानम् । ४ अर्थात्, ख० प्राथादर्थात् । ५ अर्थदर्शन०, ख०
अर्थप्रदर्शन० । ६ सादृश्यम्, ख० यत्साहश्यम् । ७ ज्ञानं, ख० विज्ञानम् ।
८ विज्ञानमर्थजनितमर्थाकारमर्थस्य च ग्राहकमिति यदुक्तं पुरस्तादस्माभिः ।
९ 'सारूप्यम्' इति पदं ख० पुस्तक एवोपलभ्यते । १० कथ्यते ।

ननु च ज्ञानादव्यतिरिक्तं सादृश्यम् । तथा च सति तदेव ज्ञानं
प्रमाणम् । तदेव प्रमाणफलम् । न चैकं वस्तु साध्यं साधनं चोपपद्यते ।
तत्कथं सारूप्यप्रमाणमित्याह—
तद्वशादर्थप्रतीतिसिद्धेरिति ।
तदिति सारूप्यं तस्य वशात्सारूप्यसामर्थ्यात् । अर्थस्य प्रतीतिरव-
बोधस्तस्याः सिद्धिः । तत्सिद्धेः¹ कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं
विज्ञानं सारूप्यवशात्सिध्यति प्रतीत भवतीयर्थः । नीलनिर्भासं हि विज्ञानं
यतस्तस्मान्नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो विज्ञान²-
मुत्पद्यते न तद्वशात्तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुम् । नील-
सदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते । न चात्र जन्यजनक-
भावनिबन्धनः साध्यसाधनभावः येनैकस्मिन्वस्तुनि विरोधः स्यात्³ । अपि
तु व्यवस्थाप्यव्यवस्थापकभावेन । तत एकस्य वस्तुनः किंचिद्रूपं प्रमाणं
किंचित्प्रमाणफलं न विरुध्यते । व्यवस्थापनहेतुर्हि सारूप्यम् । तस्य
ज्ञानस्य व्यवस्थाप्यं च नीलसंवेदनरूपम् । व्यवस्थाप्यव्यवस्थापकभावोऽपि
कथमेकस्य ज्ञानस्येति⁴ चेदुच्यते । सदृशमनुभूयमानं तद्विज्ञानम् । यतो
नीलस्य ग्राहकमवस्थाप्यते निश्चयप्रत्ययेन । तस्मात्सारूप्यमनुभूतं व्यव-
स्थापनहेतुः । निश्चयप्रत्ययेन च तज्ज्ञानं नीलसंवेदनमवस्थाप्यमानं
व्यवस्थाप्यम् । तस्मादसारूप्यव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः ।
अनीलबोधव्यावृत्त्या च नीलबोधरूपत्वं व्यवस्थाप्यम् । व्यवस्थापकश्च
विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नो द्रष्टव्यः ।
ननु निर्विकल्पकत्वात्प्रत्यक्षं नैव नीलबोधरूपत्वेनात्मानमवस्थापयितुं
शक्नोति । निश्चयप्रत्ययेनाव्यवस्थापितं सदपि नीलबोधरूपं विज्ञानम-
सत्कल्पमेव । तस्मान्निश्चयेन नीलबोधरूपं व्यवस्थापितं विज्ञानं नीलबो-
धात्मना सद्भवति । तस्मादध्यवसायं कुर्वदेव प्रत्यक्षं प्रमाणं भवति ।


१ तत्सिद्धेः, ख० ततः सिद्धेः । २ विज्ञानम्, ख० ज्ञानम् । ३ यत्र ह्येकस्मिन्नेव
वस्तुनि जन्यजनकभावनिबन्धनः साध्यसाधनभावो भवति तत्र विरोध आपद्यते ।
अत्र तु व्यवस्थाप्यव्यवस्थापकभावोऽस्ति । अत एवात्र न कश्चिद्विरोधः । ४ ‘इति’
इति पदं ख० पुस्तक एवोपलभ्यते ।

२० न्यायबिन्दुः
अकृते त्वध्यवसाये नीलबोधरूपत्वेनाव्यवस्थापितं भवति विज्ञानम् ।
तथा च प्रमाणफलमर्थाधिगमरूपत्वं१मनिष्पन्नम् । अतः साधकतमाभा-
वात्प्रमाणमेव न स्याज्ज्ञानम् । जनितेन त्वध्यवसायेन सारूप्यवशान्नील-
बोधरूपे ज्ञानेऽवस्थाप्यमाने२ सारूप्यं व्यवस्थापनहेतुत्वात्प्रमाणं सिद्धं
भवति । यद्येवमध्यवसायसहितमेव प्रत्यक्षं प्रमाणं स्यान्न केवलमिति चेत् ।
नैतदेवम् । यस्मात्प्रत्यक्षबलोत्पन्नेनाध्यवसायेन दृष्टत्वेनाऽर्थोऽवसीयते
नोत्प्रेक्षितत्वेन । दर्शनं३ चार्थसाक्षात्कारणाख्यं प्रत्यक्षव्यापारः । उत्प्रेक्षणं
तु४ विकल्पव्यापारः । तथा हि परोक्षमर्थं विकल्पयन्त उत्प्रेक्षामहे न तु
पश्याम इत्युत्प्रेक्षात्मकं विकल्पव्यापारमनुभावदवस्यन्ति५ । तस्मात्स्वव्यापारं
तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति । यत्रार्थे प्रत्यक्षपूर्वकोऽध्यवसायस्तत्र
प्रत्यक्षं केवलमेव प्रमाणम् ॥
इति न्यायबिन्दुटीकायां प्रथमः परिच्छेदः समाप्तः६ ॥


१ रूपत्वं, ख० रूपम् । २ अवस्थाप्यमाने, ख० व्यवस्थाप्यमाने । ३ दर्शनं, ख०
अदर्शनं ( ० त्वेनादर्शनं ) । ४ ‘तु’ इति पाठो ख० पुस्तके नैवोपलभ्यते । ५ अवस्य-
न्ति, ख० अध्यवस्यन्ति । ६ ‘मङ्गलमस्तु’ इत्यधिको पाठो विद्यते क० पुस्तके । ख०
‘इति आचार्यधर्मोत्तरविरचितायां न्यायबिन्दुटीकायां प्रथमः प्रत्यक्षपरिच्छेदः ।’

अथ द्वितीयपरिच्छेदः।
एवं प्रत्यक्षंव्याख्यायानुमानं व्याख्यातुमाह¹—
अनुमानं द्विधा।
द्विप्रकारकम् । अथानुमानलक्षणे वक्तव्ये किमस्मात्प्रकारभेदः
कथ्यते । उच्यते । परार्थानुमानं शब्दात्मकं स्वार्थानुमानं तु ज्ञानात्मकम्।
तयोरत्यन्तभेदा²न्नैकं लक्षणमस्ति । ततस्तयोः प्रतिनियतं³ लक्षणमाख्यातुं⁴
प्रकारभेदः कथ्यते । प्रकारभेदो हि व्यक्तिभेदः । व्यक्तिभेदे च कथिते
प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुम् । नान्यथा । ततो लक्षणनिर्देशा⁵-
ङ्गमेव प्रकारभेदकथनम् । अशक्यतां च प्रकारभेदकथन मन्तरेण लक्षण-
निर्देशस्य ज्ञात्वा प्राक्प्रकारभेदः कथ्यत इति ।
किं पुनस्तद्वैविध्यमित्याह—
स्वार्थं परार्थं च ।
स्वस्मादिदं स्वार्थम् । येन स्वयं प्रतिपद्यते तत्स्वार्थम् । परस्मादिदं
परार्थम् । येन परं प्रतिपादयति तत्परार्थम् ।
तत्र स्वार्थं त्रिरूपाल्लिङ्गाद्यदनुमेये ज्ञानं तदनुमानम् ।
तत्र तयोः स्वार्थपरार्थानुमानयोर्मध्ये स्वार्थं ज्ञानं किंविशिष्टमित्याह-
त्रिरूपादिति । त्रीणि रूपाणि यस्य वक्ष्यमाणलक्षणानि तत्तिरूपम् ।
लिङ्ग्यते गम्यतेऽनेनार्थ इति लिङ्गम् । तस्मात्त्रिरूपाल्लिङ्गाद्यज्जातं ज्ञान-
मिति । एतद्धेतुद्वारेण विशेषणम् । तन्निरूपाच्च लिङ्गात्त्रिरूपालिङ्गालम्ब-
नमप्युत्पद्यत इति विशिनष्टि । अनुमेय इति । एतच्च विषयद्वारेण विशे-
षणम् । त्रिरूपाल्लिङ्गाद्यदुत्पन्नमनुमेयालम्बनं ज्ञानं तत्स्वार्थमनुमानमिति ।
लक्षणविप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह—
प्रमाणफलव्यवस्थात्रापि प्रत्यक्षवत् ।
प्रमाणस्य यत्फलं तस्य या व्यवस्थात्रानुमानेऽपि प्रत्यक्षवत्⁶प्रत्यक्ष इव
१ व्याख्यातुकामः। २ विभिन्नत्वात् । ३ निश्चितम् । ४ कथयितुम् । ५ निर्दे-
शार्थमेव । ६ प्रत्यक्षवत्प्रत्यक्ष इव । लिखितपुस्तकयोः प्रत्यक्ष इव प्रत्यक्षवत् । सम्भ-
वतोऽनावश्यकतयायं पाठः न संस्कृतः ।

वेदितव्या । यथा हि नीलरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्था-
प्यते । तेन नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम् । नीलबोधरूपं तु
व्यवस्थाप्यमानं प्रमाणफलम् । तद्वदनुमानं नीलाकारमुत्पद्यमानं नील-
बोधरूपमवस्थाप्यते । तेन नीलसारूप्यमस्य प्रमाणम् । नीलविकल्पनरूपं
त्वस्य¹ प्रमाणफलम् । सारूप्यवशाद्धि तन्नीलप्रतीतिरूपं सिध्यति । नान्यथेति ।
एवमिह संख्यालक्षणफलविप्रतिपत्तयः । प्रत्यक्षपरिच्छेदे तु गोचरवि-
प्रतिपत्तिर्निराकृता ।
लक्षणनिर्देशप्रसङ्गेन तु त्रिरूपं लिङ्गं प्रस्तुतम् । तदेव व्याख्यातुमाह—
त्रैरूप्यम् पुनः²
लिङ्गस्य यत्त्रैरूप्यं यानि त्रीणि रूपाणि तदिदमुच्यत इति शेषः ।
किं पुनस्तत्³त्रैरूप्यमित्याह—
लिङ्गस्यानुमेये सत्त्वमेव ।
अनुमेयं वक्ष्यमाणलक्षणम् । त

द्वितीय परिच्छेद: स्वार्थानुमान प्रमाण एवं त्रिरूप-हेतु लक्षण

द्वितीयपरिच्छेदः २३
नैवकारेणासाधारणो धर्मो निरस्तः । यदि ह्यनुमेय एव सत्त्वमिति कुर्या-१
च्छावणत्वमेव हेतुः स्यात् । निश्चितग्रहणेन संदिग्धासिद्धः सर्वो निरस्तः ।
सपक्ष एव सत्त्वम् ।
सपक्षो वक्ष्यमाणलक्षणः । तस्मिन्नेव सत्त्वं निश्चितं द्वितीयं रूपम् ।
इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः । स२ हि नास्ति सपक्षे । एवकारेण
साधारणानैकान्तिकः । अनित्यः शब्दः प्रमेयत्वात्३ । स५ हि न सपक्ष
एव वर्तते किं तूभयत्रापि । सत्त्वग्रहणात्पूर्वावधारणवचनेन सपक्षऽव्यापि-६
सत्ताकस्यापि प्रयत्नानन्तरीयकस्य हेतुत्त्वं कथितम् । पश्चादवधारणे
त्वयमर्थः स्यात् । सपक्षे सत्त्वमेव यस्य स हेतुरिति प्रयत्नानन्तरीयकत्वं
न हेतुः स्यात् । निश्चित८वचनेन संदिग्धान्वयोऽनैकान्तिको निरस्तः ।
यथा सर्वज्ञः कश्चिद्वक्तृत्वात् । वक्तृत्वं हि सपक्षे सर्वज्ञे संदिग्धम् ।
असपक्षे चासत्त्वमेव निश्चितम् ।
असपक्षो वक्ष्यमाणलक्षणः । तस्मिन्नसत्त्वमेव निश्चितं तृतीयं रूपम् ।
तत्रासत्त्वग्रहणेन विरुद्धस्य निरासः । विरुद्धो हि विपक्षेऽस्ति । एवकारेण
साधारणस्य विपक्षैकदेशवृत्तेर्निरासः । नित्यः१० शब्दः कृतकत्वात् खवत्११ ।
प्रयत्नानन्तरीयकत्वे साध्ये ह्यनित्यत्वं विपक्षैकदेशे विद्युदादावस्त्याकाशादौ
नास्ति । ततो नियमेनास्य निरासः । १२असत्त्ववचनात्पूर्वस्मिन्नवधारणेऽ-
यमर्थः स्यात् । विपक्ष एव यो नास्ति स हेतुः । तथा च प्रयत्नानन्तरी-
यकत्वं सपक्षेऽपि१३ सर्वत्र नास्ति । ततो न हेतुः स्यात् । ततः पूर्वं न
कृतम् । निश्चितग्रहणेन संदिग्धविपक्षाद्व्यावृत्तिकोऽनैकान्तिको निरस्तः ।
१ कुर्यात्, ख० ब्रूयात् । २ विरुद्धः । ३ वाक्यमिदं ख० पुस्तक एवोप लभ्यते ।
४ साधारणानैकान्तिकः । ५ पक्षे सपक्षे च । ६ क० पुस्तके 'सपक्षव्यापिसत्ताकस्य'
इत्यस्य स्थाने 'सपक्षऽव्यापिसत्ताकस्य' इति पाठो विद्यते । यच्च मुद्रितपुस्तकस्य
सम्पादकस्य सम्मतौ 'सपक्ष' इत्यस्य 'सपक्षा' इति संस्कृतरूपोऽस्ति । अस्माकं सम्मतौ
तु 'ऽ'इति चिन्होऽसावधानतयैव केनचिल्लेखकेन प्रयुक्तः । ७ तु. क० हि । ८ निश्चि-
तवचनेन, क० निश्चयवचनेन । ९ यद्यप्यमरकोशे 'सर्वज्ञस्सुगतो बुद्धो' इत्येवमादि-
लिखितमस्ति, तथापि प्रत्यक्षानुमानप्रमाणवादिनस्ते बौद्धाः न कश्चित्सर्वज्ञमामनन्ति ।
१० वाक्यमिदं ख० पुस्तक एवोपलभ्यते । ११ आकाशवत् । १२ असत्त्ववचनात्, ख०
असत्त्वशब्दात् । १३ इदं पदं ख० पुस्तकेनैवोपलभ्यते ।

२४ न्यायविन्दुः
ननु च सपक्ष एव सत्त्वमित्युक्ते विपक्षेऽसत्त्वमेवेति गम्यत एव ।
तत्किमर्थं पुनरुभयोरुपादानं कृतम् । तदुच्यते । अन्वयो व्यतिरेको वा
नियमवानेव प्रयोक्तव्यो नान्यथेति दर्शयितुं द्वयोरप्युपादानं कृतम् ।
अनियमे हि द्वयोरपि प्रयोगेऽयमर्थः स्यात् । सपक्षे योऽस्ति विपक्षे च
नास्ति स हेतुरिति । तथा च सति स श्यामस्तत्पुत्रत्वादृश्यमानपुत्रवदिति
तत्पुत्रत्वं हेतुः स्यात् । तस्मान्नियमवतोरेवान्वयव्यतिरेकयोः प्रयोगः
कर्त्तव्यः । येन प्रतिबन्धो गम्येत साधनस्य साध्येन । नियमवतोश्च
प्रयोगेऽवश्यकर्त्तव्ये द्वयोरेक एव प्रयोक्तव्यो न द्वाविति नियमवानेवान्वयो
व्यतिरेको वा प्रयोक्तव्य इति शिक्षार्थं द्वयोरुपादानमिति ।
त्रैरूप्यकथनप्रसङ्गेनानुमेयः सपक्षो विपक्षश्चोक्तः । तेषां लक्षणं
वक्तव्यम्, तत्र कोऽनुमेय इत्याह—
अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी ।
अत्र हेतुलक्षणे निश्चेतव्ये धर्म्यनुमेयः । अन्यत्र तु साध्यप्रतिपत्ति-
काले समुदायोऽनुमेयः । व्याप्तिनिश्चयकाले तु धर्मोऽनुमेय इति दर्शयितु-
मत्रग्रहणम् । जिज्ञासितो ज्ञातुमिष्टो विशेषो धर्मो यस्य धर्मिणः स तथोक्तः ।
कः सपक्षः—
साध्यधर्मसामान्येन समानोऽर्थः सपक्षः ।
समानोऽर्थः सपक्षः । समानः सदृशो योऽर्थः पक्षेण सं सपक्ष
उक्त उपचारात् । समानशब्देन विशेष्यते । समानः पक्षः सपक्षः ।
समानस्य च सशब्दादेशः । स्यादेतत् । किं तत्पक्षसपक्षयोः सामान्यं
येन समानः सपक्षः पक्षेणेत्याह । साध्यधर्मसामान्येनेति । साध्यश्चा-
१ तदुच्यते, ख० उच्यते । २ 'अपि' इति पदं ख० पुस्तके नैवोपलभ्यते ।
३ अनियमे, ख० अनियते । ४ प्रयोक्तव्यः, क० कर्तव्यः । ५ स्वार्थानुमानलक्षणे ।
६ 'पर्वतोऽयमग्निमान्धूमवत्त्वात्' इत्यस्मिन्ननुमाने धूमलक्षणोधर्मी वह्निरनुमेयः साध्य-
त्वात् । ७ 'शब्दो नित्यः कृतकत्वात्' इत्यस्मिन्ननुमाने शब्दे नित्यत्वं साध्यते । अत
एवात्र 'शब्दो नित्यः' इति समुदायोऽनुमेयः साध्यत्वात् । ८ 'यत्र यत्र धूमस्तत्र तत्र
वह्निः, यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति' इति व्याप्तौ धूमसद्भावेऽग्निसद्भावो साध्यः ।
धूमोऽत्र वह्नेर्धर्मोऽस्ति । स एवात्र साध्यः । अत एव व्याप्तिनिश्चयकाले धर्मोऽनुमेयः ।
९ इदं पदं क० पुस्तके न विद्यते । १० सामान्यम्, ख० साम्यम् ।

सावसिद्धत्वाद्धर्मश्च पराश्रितत्वात्साध्यधर्मः । न च विशेषः साध्यः ।
अपि तु सामान्यम् । अत इह सामान्यं साध्यमुक्तम् । साध्यधर्मश्चासौ
सामान्यं चेति साध्यधर्मसामान्येन समानः पक्षेण सपक्ष इत्यर्थः ।
कोऽसपक्ष इत्याह—
न सपक्षोऽसपक्षः ।
न सपक्षोऽसपक्षः । सपक्षो यो न भवति सोऽसपक्षः ।
कश्च सपक्षो न भवति—
ततोऽन्यस्तद्विरुद्धस्तदभावश्चेति ।
ततः सपक्षादन्यः । तेन च^१ विरुद्धः । तस्य च सपक्षस्याभावः ।
सपक्षादन्यत्वं तद्विरुद्धत्वं^२ च न तावत्प्रत्येतुं शक्यं यावत्सपक्षस्वभावाभावो
न विज्ञातः । तस्मादन्यत्वविरुद्धत्वप्रतीतिसामर्थ्यात्सपक्षाभावरूपौ प्रतीता-
वन्याविरुद्धौ । ततोऽभावः साक्षात्सपक्षाभावरूपः प्रतीयते । अन्यविरुद्धौ
तु सामर्थ्यादभावरूपौ प्रतीयेते । ततस्त्रयाणामप्यसपक्षत्वम् ।
त्रिरूपाणि च ।
उक्तेन त्रैरूप्येण त्रिरूपाणि च त्रीण्येव लिङ्गानीति चकारो वक्तव्या-
न्तरसमुच्चयार्थः । त्रैरूप्यमादौ पृष्टं त्रिरूपाणि च लिङ्गानि परेण ।
तत्र त्रैरूप्यमुक्तम् । त्रिरूपाणि चोच्यन्ते ।
त्रीण्येव च लिङ्गानि
त्रीण्येव त्रिरूपाणि लिङ्गानि । त्रयस्त्रिरूपलिङ्गप्रकारा इत्यर्थः ।
कानि पुनस्तानीत्याह—
अनुपलब्धिः स्वभावकार्ये चेति ।
प्रतिषेध्यस्य साध्यस्यानुपलब्धिस्त्रिरूपा । विधेयस्य साध्यस्य स्वभाव-
स्त्रिरूपः । कार्यं च ।

१ 'च' इति पदं ख० पुस्तके न विद्यते । २ तद्विरुद्धत्वं, ख० च विरुद्धत्वम् ।
४ न्या०

अनुपलब्धिमुदाहर्तुमाह—
तत्रानुपलब्धिर्यथा न प्रदेशविशेषे कचिद्धट
उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति ।
यथेत्यादि । यथेत्युपदर्शनार्थम् । यथेयमनुपलब्धिस्तथान्यापि ।
न त्वियमेवेत्यर्थः । प्रदेश एकदेशः । विशिष्यत इति विशेषः प्रतिपत्तृ-
प्रत्यक्षः । तादृशश्च न सर्वः प्रदेशः । तदाह क्वचिदिति । प्रतिपत्तृप्रत्यक्षे
क्वचिदेव प्रदेश इति धर्मी । न घट इति साध्यम् । उपलब्धिर्ज्ञानम्¹ ।
तस्या लक्षणं जनिका सामग्री । तया ह्यनुपलब्धिर्लक्ष्यते । तत्प्राप्तोऽर्थो
जनकत्वेन सामग्र्यन्तर्भावादुपलब्धिलक्षणप्राप्तो दृश्य इत्यर्थः । तस्यानुप-
लब्धेरित्ययं हेतुः । अथ यो यत्र नास्ति स कथं तत्र दृश्यः । दृश्यत्व-
समारोपादसन्नपि दृश्य उच्यते । यस्यैव संभाव्यते यद्यसावत्र भवेद्दृश्य
एव भवेदिति स तत्राविद्यमानोऽपि दृश्यः समारोप्यः । कश्चैवं संभाव्यः ।
यस्य समग्राणि स्वालम्बनदर्शनकारणानि भवन्ति । कदा च तानि
समग्राणि गम्यन्ते । यदैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भः । एकेन्द्रियज्ञानग्राह्यं
लोचनादिप्रणिधानाभिमुखं वस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसर्गि कथ्यते² ।
तयोर्हि सतोर्नैकनियता भवति प्रतिपत्तिः । योग्यताया द्वयोरप्यविशिष्टत्वात् ।
तस्मादेकज्ञानसंसर्गिणि दृश्यमाने सत्येकस्मिन्नितरत्समग्रदर्शनसामग्रीकं
यदि भवेद्दृश्य³मेव भवेदिति संभावितं दृश्यमारोप्यते । तस्यानुपलम्भो
दृश्यानुपलम्भः । तस्मात्स एव घटविविक्त⁴प्रदेशस्तदालम्बनं च ज्ञानं
दृश्यानुपलम्भनिश्चयहेतुत्वाद्दृश्यानुपलम्भ उच्यते । यावद्ध्येकज्ञानसंसर्गि
वस्तु⁵ न निश्चितं तज्ज्ञानं च न तावद्दृश्यानुपलम्भनिश्चयः । ततो वस्त्व-
प्यनुपलम्भ उच्यते तज्ज्ञानं च । दर्शननिवृत्तिमात्रं तु स्वयम निश्चितत्वाद्-
गमकम् । ततो⁶ दृश्यघटरहितः प्रदेशस्तज्ज्ञानं च वचनसामर्थ्यादेव
दृश्यानुपलम्भरूपमुक्तं द्रष्टव्यम् ।


१ उपलब्धिर्ज्ञानम् । तस्या लक्षणं जनिका सामग्री, क० उपलब्धिज्ञानं तस्य
लक्षणं । जनिका सामग्री । २ कथ्यते, ख० गम्यते । ३ दृश्यं, ख० दृश्यत्वम् ।
४ घटविविक्त०, ख० घटादिविविक्त । ५ वस्तु न निश्चितं तज्ज्ञानं च, ख० वस्तु तज्ज्ञानं
वा (अशुद्धः) न निश्चितम् । ६ ततो दृश्यघटरहितः, ख० तादृशघटरहितः ।

द्वितीयपरिच्छेदः २७
का पुनरुपलब्धिलक्षणप्राप्तिरित्याह—
उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं
स्वभावविशेषश्च ।
उपलब्धिलक्षणप्राप्तिरुपलब्धिलक्षणप्राप्तत्वं घटस्य । उपलम्भप्रत्यया-
न्तरसाकल्यमिति । ज्ञानस्य घटोऽपि जनकः । अन्ये च चक्षुरादयः ।
घटाद्दृश्यादन्ये हेतवः प्रत्ययान्तराणि । तेषां साकल्यं संनिधिः । स्वभाव
एव विशिष्यते तदन्यस्मादिति विशेषो विशिष्ट इत्यर्थः । तदयं विशिष्टः
स्वभावः प्रत्ययान्तरसाकल्यं चैतद्द्वयमुपलब्धिलक्षणप्राप्तत्वं घटादेर्द्रष्टव्यम् ।
कीदृशः स्वभावविशेष इत्याह—
यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु यत्प्रत्यक्ष
एव भवति स स्वभावः ।
सत्स्वित्यादि । उपलम्भस्य यानि घटाद्दृश्यात्प्रत्ययान्तराणि तेषु
सत्सु विद्यमानेषु यः स्वभावः सन् प्रत्यक्ष एव भवति स स्वभावविशेषः ।
तदयमत्रार्थः । एकप्रतिपत्तृपेक्षमिदं प्रत्यक्षलक्षणम् । तथा च सति द्रष्टुं
प्रवृत्तस्यैकस्य द्रष्टुर्दृश्यमान उभयवान्भावः । १ । अदृश्यमानास्तु देश-
कालस्वभावविप्रकृष्टाः स्वभावविशेषरहिताः प्रत्ययान्तरसाकल्यवन्तस्तु ।
यैर्हि प्रत्ययैः स द्रष्टा पश्यति ते संनिहिताः । अतश्च² संनिहिताय द्रष्टुं
प्रवृत्तः सः । २ । द्रष्टुमप्रवृत्तस्य तु योग्यदेशस्था अपि द्रष्टुं ते न शक्याः।
प्रत्ययान्तरवैकल्यवन्तः स्वभावविशेषयुक्तास्तु । ३ । दूरदेशकालास्तूभय-
विकलाः । ४ । तदेवं पश्यतः कस्यचिन्न प्रत्ययान्तरविकलो नाम³ । १ ।
स्वभावविशेषविकलस्तु भवेत् । २ । अपश्यतस्तु शक्यो द्रष्टुं योग्यदेशस्थः
प्रत्ययान्तरविकलः । ३ । अन्ये तूभयविकला इति । ४⁴ ।
१ उपलम्भप्रत्ययान्तरसाकल्यस्वभावविशेषवान् । २ क० पुस्तकस्य 'आतश्च' इति
पाठोऽशुद्धः प्रतीयते । ख० अतश्च सन्निहिता यद्वद्रष्टुं प्रवृत्तः (अशुद्धः) स।
३ पश्यतः कस्यचित् पुरुषस्य न प्रत्ययान्तरविकलत्वं भवति । ४ ख० पुस्तकेऽङ्काङ्का
न विद्यन्ते ।

अनुपलब्धिमुदाहृत्य स्वभावमुदाहर्तुमाह—
स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः ।
स्वभावो हेतुरिति सम्बन्धः । १कीदृशो हेतुः साध्यस्यैव स्वभाव
इत्याह । स्वस्यात्मनः सत्ता सैव केवला स्वसत्तामात्रम् । तस्मिन् सति
भवितुं शीलं यस्येति । यो हेतोरात्मनः सत्तामपेक्ष्य विद्यमानो भवति न
तु हेतुसत्ताया व्यतिरिक्तं कञ्चिद्धेतुमपेक्षते स२ स्वसत्तामात्रभावी साध्यः ।
तस्मिन् साध्ये यो हेतुः स स्वभावः । तस्य साध्यस्य नान्यः ।
उदाहरणम्—
यथा वृक्षोऽयं शिंशपात्वादिति ।
अयमिति धर्मी । वृक्ष इति साध्यम् । शिंशपात्वादिति हेतुः ।
तदयमर्थो वृक्षव्यवहारयोग्योऽयं शिंशपाव्यवहारयोग्यत्वादिति । तत्र प्रचुर-
शिंशपे देशेऽविदितशिंशपाव्यवहारो जडो यदा४ केनचिदुच्चां शिंशपामुपा-
दर्श्योच्यते अयं वृक्ष इति तदासौ जाड्याच्छिंशापाया उच्चत्वमपि वृक्षव्य-
वहारनिमित्तमवस्यति । तदा यामेवानुच्चां शिंशपां पश्यति तामेवावृक्षमव-
स्यति । स मूढः शिंशपात्वमात्रनिमित्ते वृक्षव्यवहारे प्रवर्त्यते । नोच्चत्वादि
निमित्तान्तरमिह वृक्षव्यवहारस्य । अपि तु शिंशपात्वमात्रं निमित्तं शिंश-
पागतशाखादिमत्त्वं निमित्तमित्यर्थः ।
कार्यमुदाहर्तुमाह—
कार्यं यथाग्निरत्र धूमादिति ।
१०अग्निरिति साध्यम् । अत्रेति धर्मी । धूमादिति हेतुः । कार्यकारण-
भावो लोके ११प्रत्यक्षानुपलम्भनिबन्धनः प्रतीत इति न स्वभावस्येव कार्यस्य
लक्षणमुक्तम् ।
१ साध्यस्यैव स्वभाव, ख० साध्यस्य भावः । २ इदं पदं क० पुस्तके नैवोपलभ्यते ।
३ शिंशप०, क० प्रथमस्थाने 'सिसंप' द्वितीयस्थाने च 'शिंशप' इति लिखति । द्वितीय-
पंक्तावपिदमेव, 'प्रचुरसिसपे' किन्तु 'अविदितशिशपा० ।' ४ यदा, ख० यथा । ५ उपा-
दर्श्य, ख० उपदर्श्य । ६ वृक्षव्यवहारनिमित्तं, ख० वृक्षव्यवहारस्य निमित्तम् ।
७ शिंक्षापां पश्यति, ख० पश्यति शिंशपाम् । ८ अनुच्चं, क० अनुच्चत्त्वम् । ९ ख०
पुस्तके 'स मूढः' इत्यस्यानन्तरं '।' इति विरामः प्रयुक्तः । १० अग्निरिति, क० वह्निरिति ।
११ प्रत्यक्षानुपलम्भनिबन्धनः, ख० प्रत्यक्षानुपलम्भः निबन्धनम् ।

द्वितीयपरिच्छेदः २६
ननु त्रिरूपत्वादेकमेव लिङ्गमयुक्तम्१। अथ प्रकारभेदाद्भेदः। एवं
सति स्वभावहेतोरेकस्याऽनन्तप्रकारत्वात्त्रित्वमयुक्तमित्याह—
अत्र द्वौ वस्तुसाधनौ।
अत्रेति एषु२ त्रिषु३ हेतुषु४ मध्ये द्वौ हेतू वस्तुसाधनौ विधेः साधनौ
गमकौ।
एकः प्रतिषेधहेतुः।
एकः प्रतिषेधस्य हेतुर्गमकः। प्रतिषेध इति चार्थोऽभावोऽभावव्यवहार-
श्चोक्तो द्रष्टव्यः। तदयमर्थो हेतुः साध्यसिद्ध्यर्थत्वात्साध्याङ्गम्। साध्यं
प्रधानम्। अतश्च साध्योपकरणस्य हेतोः प्रधानसाध्यभेदाद्भेदो न स्वरूप-
भेदात्। साध्यञ्च कश्चिद्विधिः कश्चित्प्रतिषेधः। विधिप्रतिषेधयोश्च
परस्पर५परिहारेणावस्थानात्तयोर्हेतू भिन्नौ। विधिरपि कश्चिद्धेतोर्भिन्नः कश्चि-
दभिन्नः। भेदाभेदयोरप्य

३० न्यायबिन्दुः
यत्र स्वभावेन न प्रतिबद्धस्तस्य तदप्रतिबद्धस्य तदव्यभिचारनियमाभावस्त-
स्याप्रतिबद्धविषयस्याव्यभिचारस्तद्व्यभिचारस्तस्य नियमस्तदव्यभिचारनि-
यमस्तस्याभावात् । अयमर्थः । न हि यो यत्र स्वभावेन न प्रतिबद्धः स
तमप्रतिबद्धविषयमवश्यमेव न व्यभिचरतीति नास्ति तयोरव्यभिचार-
नियमः । अविनाभावनियमः । अव्यभिचारनियमाच्च गम्यगमकभावः ।
नहि योग्यतया प्रदीपवत्परोक्षार्थप्रतिपत्तिनिमित्तमिष्टं लिङ्गम् । अपि
त्वव्यभिचारित्वेन निश्चितम् । ततः स्वभावप्रतिबन्धे सत्यविनाभाव-
निश्चयः । ततो गम्यगमकभावः । तस्मात्स्वभावप्रतिबन्धे सत्यर्थोऽर्थं गम-
येन्नान्यथेति स्थितम् ।
ननु च परायतस्य प्रतिबन्धोऽपरायत्ते । तदिह साध्यसाधनयोः
कस्य कं प्रतिबन्ध इत्याह —
स च प्रतिबन्धः साध्येऽर्थे लिङ्गस्य वस्तुतस्ता-
दात्म्यात्साध्यार्थादुत्पत्तेश्च ।
स च स्वभावप्रतिबन्धो लिङ्गस्य साध्येऽर्थे । लिङ्गं परायतत्वात्प्रति-
बद्धम् । साध्यस्त्वर्थोऽपरायत्तत्वात्प्रतिबन्धविषयो न प्रतिबद्ध इत्यर्थः ।
तत्रायमर्थस्तादात्म्यविशेषेऽपि यत्प्रतिबद्धं तद्गमकम् । यत्प्रतिबन्धविषय-
स्तद्गम्यम् । यस्य च धर्मस्य यन्नियतः स्वभावः स तत्प्रतिबद्धो यथा प्रयत्ना-
नन्तरीयकत्वाख्योऽनित्यत्वे । यस्य तु स चान्यश्च स्वभावः स प्रतिबन्ध-
विषयः । न तु प्रतिबद्धः । यथानित्यत्वाख्यः प्रयत्नानन्तरीयकत्वाख्ये ।
निश्चयापेक्षो हि गम्यगमकभावः । प्रयत्नानन्तरीयकत्वमेव चानित्यस्वभावं
निश्चितम् । अतस्तदेवानित्यत्वे प्रतिबद्धं, तस्मान्नियतविषय एव गम्यगम-
कभावो नान्यथेति । कस्मात्पुनः स्वभावप्रतिबन्धो लिङ्गस्य न वस्तुन
इत्याह । वस्तुत इत्यादि । स साध्योऽर्थ आत्मा स्वभावो यस्य तत्तदात्मा
१ अभावः, ख० अभावात् । २ अप्रतिबद्ध०, ख० अप्रतिबन्ध० । ३ इदं पदं
ख० पुस्तके न विद्यते । ४ अप्रतिबद्ध० ख० अप्रतिबन्ध० । ५ अविनाभावनिश्चयः,
ख० अविनाभावित्वनिश्चयः । ६ क, ख० कः । ७ अस्माकं सम्मतौ 'वस्तुतः' अन्यत्र
तु 'वस्तुनः' । ८ 'न वस्तुनः' इति पाठः ख० पुस्तक एवोपलभ्यते । ९ 'अर्थ आत्मा'
इति पाठः ख० पुस्तके न विद्यते ।