न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 67, कुल 176 में से
संदर्भ में पढ़ेंद्वितीयपरिच्छेदः २६
ननु त्रिरूपत्वादेकमेव लिङ्गमयुक्तम्१। अथ प्रकारभेदाद्भेदः। एवं
सति स्वभावहेतोरेकस्याऽनन्तप्रकारत्वात्त्रित्वमयुक्तमित्याह—
अत्र द्वौ वस्तुसाधनौ।
अत्रेति एषु२ त्रिषु३ हेतुषु४ मध्ये द्वौ हेतू वस्तुसाधनौ विधेः साधनौ
गमकौ।
एकः प्रतिषेधहेतुः।
एकः प्रतिषेधस्य हेतुर्गमकः। प्रतिषेध इति चार्थोऽभावोऽभावव्यवहार-
श्चोक्तो द्रष्टव्यः। तदयमर्थो हेतुः साध्यसिद्ध्यर्थत्वात्साध्याङ्गम्। साध्यं
प्रधानम्। अतश्च साध्योपकरणस्य हेतोः प्रधानसाध्यभेदाद्भेदो न स्वरूप-
भेदात्। साध्यञ्च कश्चिद्विधिः कश्चित्प्रतिषेधः। विधिप्रतिषेधयोश्च
परस्पर५परिहारेणावस्थानात्तयोर्हेतू भिन्नौ। विधिरपि कश्चिद्धेतोर्भिन्नः कश्चि-
दभिन्नः। भेदाभेदयोरप्य