सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 65, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 65

द्वितीयपरिच्छेदः २७
का पुनरुपलब्धिलक्षणप्राप्तिरित्याह—
उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं
स्वभावविशेषश्च ।
उपलब्धिलक्षणप्राप्तिरुपलब्धिलक्षणप्राप्तत्वं घटस्य । उपलम्भप्रत्यया-
न्तरसाकल्यमिति । ज्ञानस्य घटोऽपि जनकः । अन्ये च चक्षुरादयः ।
घटाद्दृश्यादन्ये हेतवः प्रत्ययान्तराणि । तेषां साकल्यं संनिधिः । स्वभाव
एव विशिष्यते तदन्यस्मादिति विशेषो विशिष्ट इत्यर्थः । तदयं विशिष्टः
स्वभावः प्रत्ययान्तरसाकल्यं चैतद्द्वयमुपलब्धिलक्षणप्राप्तत्वं घटादेर्द्रष्टव्यम् ।
कीदृशः स्वभावविशेष इत्याह—
यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु यत्प्रत्यक्ष
एव भवति स स्वभावः ।
सत्स्वित्यादि । उपलम्भस्य यानि घटाद्दृश्यात्प्रत्ययान्तराणि तेषु
सत्सु विद्यमानेषु यः स्वभावः सन् प्रत्यक्ष एव भवति स स्वभावविशेषः ।
तदयमत्रार्थः । एकप्रतिपत्तृपेक्षमिदं प्रत्यक्षलक्षणम् । तथा च सति द्रष्टुं
प्रवृत्तस्यैकस्य द्रष्टुर्दृश्यमान उभयवान्भावः । १ । अदृश्यमानास्तु देश-
कालस्वभावविप्रकृष्टाः स्वभावविशेषरहिताः प्रत्ययान्तरसाकल्यवन्तस्तु ।
यैर्हि प्रत्ययैः स द्रष्टा पश्यति ते संनिहिताः । अतश्च² संनिहिताय द्रष्टुं
प्रवृत्तः सः । २ । द्रष्टुमप्रवृत्तस्य तु योग्यदेशस्था अपि द्रष्टुं ते न शक्याः।
प्रत्ययान्तरवैकल्यवन्तः स्वभावविशेषयुक्तास्तु । ३ । दूरदेशकालास्तूभय-
विकलाः । ४ । तदेवं पश्यतः कस्यचिन्न प्रत्ययान्तरविकलो नाम³ । १ ।
स्वभावविशेषविकलस्तु भवेत् । २ । अपश्यतस्तु शक्यो द्रष्टुं योग्यदेशस्थः
प्रत्ययान्तरविकलः । ३ । अन्ये तूभयविकला इति । ४⁴ ।
१ उपलम्भप्रत्ययान्तरसाकल्यस्वभावविशेषवान् । २ क० पुस्तकस्य 'आतश्च' इति
पाठोऽशुद्धः प्रतीयते । ख० अतश्च सन्निहिता यद्वद्रष्टुं प्रवृत्तः (अशुद्धः) स।
३ पश्यतः कस्यचित् पुरुषस्य न प्रत्ययान्तरविकलत्वं भवति । ४ ख० पुस्तकेऽङ्काङ्का
न विद्यन्ते ।