न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 64, कुल 176 में से
संदर्भ में पढ़ेंअनुपलब्धिमुदाहर्तुमाह—
तत्रानुपलब्धिर्यथा न प्रदेशविशेषे कचिद्धट
उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति ।
यथेत्यादि । यथेत्युपदर्शनार्थम् । यथेयमनुपलब्धिस्तथान्यापि ।
न त्वियमेवेत्यर्थः । प्रदेश एकदेशः । विशिष्यत इति विशेषः प्रतिपत्तृ-
प्रत्यक्षः । तादृशश्च न सर्वः प्रदेशः । तदाह क्वचिदिति । प्रतिपत्तृप्रत्यक्षे
क्वचिदेव प्रदेश इति धर्मी । न घट इति साध्यम् । उपलब्धिर्ज्ञानम्¹ ।
तस्या लक्षणं जनिका सामग्री । तया ह्यनुपलब्धिर्लक्ष्यते । तत्प्राप्तोऽर्थो
जनकत्वेन सामग्र्यन्तर्भावादुपलब्धिलक्षणप्राप्तो दृश्य इत्यर्थः । तस्यानुप-
लब्धेरित्ययं हेतुः । अथ यो यत्र नास्ति स कथं तत्र दृश्यः । दृश्यत्व-
समारोपादसन्नपि दृश्य उच्यते । यस्यैव संभाव्यते यद्यसावत्र भवेद्दृश्य
एव भवेदिति स तत्राविद्यमानोऽपि दृश्यः समारोप्यः । कश्चैवं संभाव्यः ।
यस्य समग्राणि स्वालम्बनदर्शनकारणानि भवन्ति । कदा च तानि
समग्राणि गम्यन्ते । यदैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भः । एकेन्द्रियज्ञानग्राह्यं
लोचनादिप्रणिधानाभिमुखं वस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसर्गि कथ्यते² ।
तयोर्हि सतोर्नैकनियता भवति प्रतिपत्तिः । योग्यताया द्वयोरप्यविशिष्टत्वात् ।
तस्मादेकज्ञानसंसर्गिणि दृश्यमाने सत्येकस्मिन्नितरत्समग्रदर्शनसामग्रीकं
यदि भवेद्दृश्य³मेव भवेदिति संभावितं दृश्यमारोप्यते । तस्यानुपलम्भो
दृश्यानुपलम्भः । तस्मात्स एव घटविविक्त⁴प्रदेशस्तदालम्बनं च ज्ञानं
दृश्यानुपलम्भनिश्चयहेतुत्वाद्दृश्यानुपलम्भ उच्यते । यावद्ध्येकज्ञानसंसर्गि
वस्तु⁵ न निश्चितं तज्ज्ञानं च न तावद्दृश्यानुपलम्भनिश्चयः । ततो वस्त्व-
प्यनुपलम्भ उच्यते तज्ज्ञानं च । दर्शननिवृत्तिमात्रं तु स्वयम निश्चितत्वाद्-
गमकम् । ततो⁶ दृश्यघटरहितः प्रदेशस्तज्ज्ञानं च वचनसामर्थ्यादेव
दृश्यानुपलम्भरूपमुक्तं द्रष्टव्यम् ।
१ उपलब्धिर्ज्ञानम् । तस्या लक्षणं जनिका सामग्री, क० उपलब्धिज्ञानं तस्य
लक्षणं । जनिका सामग्री । २ कथ्यते, ख० गम्यते । ३ दृश्यं, ख० दृश्यत्वम् ।
४ घटविविक्त०, ख० घटादिविविक्त । ५ वस्तु न निश्चितं तज्ज्ञानं च, ख० वस्तु तज्ज्ञानं
वा (अशुद्धः) न निश्चितम् । ६ ततो दृश्यघटरहितः, ख० तादृशघटरहितः ।