सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 62, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 62

२४ न्यायविन्दुः
ननु च सपक्ष एव सत्त्वमित्युक्ते विपक्षेऽसत्त्वमेवेति गम्यत एव ।
तत्किमर्थं पुनरुभयोरुपादानं कृतम् । तदुच्यते । अन्वयो व्यतिरेको वा
नियमवानेव प्रयोक्तव्यो नान्यथेति दर्शयितुं द्वयोरप्युपादानं कृतम् ।
अनियमे हि द्वयोरपि प्रयोगेऽयमर्थः स्यात् । सपक्षे योऽस्ति विपक्षे च
नास्ति स हेतुरिति । तथा च सति स श्यामस्तत्पुत्रत्वादृश्यमानपुत्रवदिति
तत्पुत्रत्वं हेतुः स्यात् । तस्मान्नियमवतोरेवान्वयव्यतिरेकयोः प्रयोगः
कर्त्तव्यः । येन प्रतिबन्धो गम्येत साधनस्य साध्येन । नियमवतोश्च
प्रयोगेऽवश्यकर्त्तव्ये द्वयोरेक एव प्रयोक्तव्यो न द्वाविति नियमवानेवान्वयो
व्यतिरेको वा प्रयोक्तव्य इति शिक्षार्थं द्वयोरुपादानमिति ।
त्रैरूप्यकथनप्रसङ्गेनानुमेयः सपक्षो विपक्षश्चोक्तः । तेषां लक्षणं
वक्तव्यम्, तत्र कोऽनुमेय इत्याह—
अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी ।
अत्र हेतुलक्षणे निश्चेतव्ये धर्म्यनुमेयः । अन्यत्र तु साध्यप्रतिपत्ति-
काले समुदायोऽनुमेयः । व्याप्तिनिश्चयकाले तु धर्मोऽनुमेय इति दर्शयितु-
मत्रग्रहणम् । जिज्ञासितो ज्ञातुमिष्टो विशेषो धर्मो यस्य धर्मिणः स तथोक्तः ।
कः सपक्षः—
साध्यधर्मसामान्येन समानोऽर्थः सपक्षः ।
समानोऽर्थः सपक्षः । समानः सदृशो योऽर्थः पक्षेण सं सपक्ष
उक्त उपचारात् । समानशब्देन विशेष्यते । समानः पक्षः सपक्षः ।
समानस्य च सशब्दादेशः । स्यादेतत् । किं तत्पक्षसपक्षयोः सामान्यं
येन समानः सपक्षः पक्षेणेत्याह । साध्यधर्मसामान्येनेति । साध्यश्चा-
१ तदुच्यते, ख० उच्यते । २ 'अपि' इति पदं ख० पुस्तके नैवोपलभ्यते ।
३ अनियमे, ख० अनियते । ४ प्रयोक्तव्यः, क० कर्तव्यः । ५ स्वार्थानुमानलक्षणे ।
६ 'पर्वतोऽयमग्निमान्धूमवत्त्वात्' इत्यस्मिन्ननुमाने धूमलक्षणोधर्मी वह्निरनुमेयः साध्य-
त्वात् । ७ 'शब्दो नित्यः कृतकत्वात्' इत्यस्मिन्ननुमाने शब्दे नित्यत्वं साध्यते । अत
एवात्र 'शब्दो नित्यः' इति समुदायोऽनुमेयः साध्यत्वात् । ८ 'यत्र यत्र धूमस्तत्र तत्र
वह्निः, यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति' इति व्याप्तौ धूमसद्भावेऽग्निसद्भावो साध्यः ।
धूमोऽत्र वह्नेर्धर्मोऽस्ति । स एवात्र साध्यः । अत एव व्याप्तिनिश्चयकाले धर्मोऽनुमेयः ।
९ इदं पदं क० पुस्तके न विद्यते । १० सामान्यम्, ख० साम्यम् ।