सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 63, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 63

सावसिद्धत्वाद्धर्मश्च पराश्रितत्वात्साध्यधर्मः । न च विशेषः साध्यः ।
अपि तु सामान्यम् । अत इह सामान्यं साध्यमुक्तम् । साध्यधर्मश्चासौ
सामान्यं चेति साध्यधर्मसामान्येन समानः पक्षेण सपक्ष इत्यर्थः ।
कोऽसपक्ष इत्याह—
न सपक्षोऽसपक्षः ।
न सपक्षोऽसपक्षः । सपक्षो यो न भवति सोऽसपक्षः ।
कश्च सपक्षो न भवति—
ततोऽन्यस्तद्विरुद्धस्तदभावश्चेति ।
ततः सपक्षादन्यः । तेन च^१ विरुद्धः । तस्य च सपक्षस्याभावः ।
सपक्षादन्यत्वं तद्विरुद्धत्वं^२ च न तावत्प्रत्येतुं शक्यं यावत्सपक्षस्वभावाभावो
न विज्ञातः । तस्मादन्यत्वविरुद्धत्वप्रतीतिसामर्थ्यात्सपक्षाभावरूपौ प्रतीता-
वन्याविरुद्धौ । ततोऽभावः साक्षात्सपक्षाभावरूपः प्रतीयते । अन्यविरुद्धौ
तु सामर्थ्यादभावरूपौ प्रतीयेते । ततस्त्रयाणामप्यसपक्षत्वम् ।
त्रिरूपाणि च ।
उक्तेन त्रैरूप्येण त्रिरूपाणि च त्रीण्येव लिङ्गानीति चकारो वक्तव्या-
न्तरसमुच्चयार्थः । त्रैरूप्यमादौ पृष्टं त्रिरूपाणि च लिङ्गानि परेण ।
तत्र त्रैरूप्यमुक्तम् । त्रिरूपाणि चोच्यन्ते ।
त्रीण्येव च लिङ्गानि
त्रीण्येव त्रिरूपाणि लिङ्गानि । त्रयस्त्रिरूपलिङ्गप्रकारा इत्यर्थः ।
कानि पुनस्तानीत्याह—
अनुपलब्धिः स्वभावकार्ये चेति ।
प्रतिषेध्यस्य साध्यस्यानुपलब्धिस्त्रिरूपा । विधेयस्य साध्यस्य स्वभाव-
स्त्रिरूपः । कार्यं च ।

१ 'च' इति पदं ख० पुस्तके न विद्यते । २ तद्विरुद्धत्वं, ख० च विरुद्धत्वम् ।
४ न्या०