मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)
Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary
आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा
पृष्ठम् ४०
४० मध्यमकशास्त्रे [ २.२२-
अत्राह — इह देवदत्तो गन्ता गच्छतीति लोकप्रसिद्धम् । तत्र यथा वक्ता वाचं भाषते,
कर्त्ता क्रियां करोति, इति प्रसिद्धम्, एवं यया गत्या गन्तेत्यभिव्यज्यते तां गच्छतीति न
यथोक्तदोषः। तदप्यसत् । यस्मात् —
गत्या ययोच्यते गन्ता गतिं तां स न गच्छति।
यया गत्या देवदत्तो गन्तेत्यभिव्यज्यते, स गन्ता सन् तां तावन्न गच्छति, न प्राप्नोति,
यदि वा न करोतीत्यर्थः।
यस्मान्न गतिपूर्वोऽस्ति
गतेः पूर्वो गतिपूर्वः। यदि गन्ता गतेः पूर्वं सिद्धः स्यात्, स तां गच्छेत् । कथम् ?
यस्मात् —
कंश्चित्किंचिद्धि गच्छति ॥ २२ ॥
कश्चिद्देवदत्तः किंचिदर्थान्तरभूतं ग्रामं नगरं वा गच्छतीति दृष्टम् । न चैवं यया गत्या
गन्तेत्युच्यते, तस्याः पूर्वं सिद्धरूपो गतिनिरपेक्षो गन्ता नाम अस्ति यस्तां गच्छेत् ॥ २२ ॥
अथ मन्यसे — यया गत्या गन्तेत्यभिव्यज्यते, तामेव असौ न गच्छति, किं तर्हि
ततोऽन्यामिति । एतदप्यसत् । यस्मात् —
गत्या ययोच्यते गन्ता ततोऽन्यां स न गच्छति ।
गती द्वे नोपपद्येते यस्मादेके प्रगच्छति ॥ २३ ॥
यया गत्या गन्ता अभिव्यज्यते, ततोऽन्यामपि स गन्ता सन् न गच्छति, गतिद्वय-
प्रसङ्गात् । यया गत्या गन्ता अभिव्यज्यते, गन्ता सन् यां चापरां गच्छतीत्येतद् गति-
द्वयं प्रसक्तम् । न च एकस्मिन् गन्तरि गतिद्वयम् । इत्युक्तमेतत् । एतेन वक्ता वाचं भाषते,
कर्ता क्रियां करोति, इति प्रत्युक्तम् ॥ २३ ॥
तदेवम् —
सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति ।
नासद्भूतोऽपि गमनं त्रिप्रकारं स गच्छति ॥ २४ ॥
गमनं सदसद्भूतस्त्रिप्रकारं न गच्छति ।
तत्र गम्यत इति गमनमिहोच्यते । तत्र सद्भूतो गन्ता यो गमिक्रियायुक्तः । असद्भूतो
गन्ता यो गमिक्रियारहितः । सदसद्भूतो य उभयपक्षीयलक्षणः । एवं गमनमपि त्रिप्रकारं गमि-
क्रियासंबन्धेन वेदितव्यम् । तत्र सद्भूतो गन्ता सद्भूतमसद्भूतं सदसद्भूतं त्रिप्रकारं गमनं न
गच्छति । एतच्च कर्मकारकपरीक्षायामाख्यास्यते । एवमसद्भूतोऽपि गन्ता त्रिप्रकारं गमनं न
गच्छति । सदसद्भूतोऽपीति तत्रैव प्रतिपादयिष्यति । यतश्चैवं गन्तृगन्तव्यगमनानि विचार्यमाणानि
न सन्ति,
तस्माद्गतिश्च गन्ता च गन्तव्यं च न विद्यते ॥ २५॥
[पादटिप्पण्यः]
१. T seems to have : स तां न गच्छति न प्राप्नोति for स गन्ता सन्... प्राप्नोति. २. Mss. कंश्चित् for कश्चित्. ३. Paris Ms. प्रयुक्तम्; C प्रत्ययुक्तम् for प्रत्युक्तम् which is supported by T.
पृष्ठम् ४१
-२.२५] गतागतपरीक्षा द्वितीयं प्रकरणम् । ४१
यथोक्तमार्याक्षयमतिनिर्देशसूत्रे —
अगतिरिति भदन्त शारद्वतीपुत्र संकर्षणपदमेतत् । गतिरिति भदन्त शारद्वतीपुत्र
निष्कर्षणपदमेतत् । यत्र न संकर्षणपदं न निष्कर्षणपदं तदार्याणां पदम् । अपदयोगेन
अनागतिरगतिश्चार्याणां गतिरिति ॥
यदि बीजमेवाङ्कुरे संक्रामति, बीजमेव तत्स्यान्न यदङ्कुरः शाश्वतदोषप्रसङ्गश्च ।
अथाङ्कुरोऽन्यत आगच्छति, अहेतुकदोषप्रसङ्गः स्यात् । न चाहेतुकस्योत्पत्तिः खरविषाणस्येव ॥
अत एवाह भगवान् —
बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो ।
न च अन्यु ततो न चैव तदेवमनुच्छेद अशाश्वत धर्मता ॥ इति ॥
मुद्रान्प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते ।
न च तत्र न चैव सान्यतो एवं संस्कारनुच्छेदशाश्वताः ॥ इति च ॥
[ललितविस्तर — १३०१०२, १०४]
तथा —
आदर्शपृष्ठे तथ तैलपात्रे निरीक्षते नारिमुखं अलंकृतम् ।
सो तत्र रागं जनयित्व बालो प्रभाषितो कामि गवेषमाणो ॥
मुखस्य संक्रान्ति यदा न विद्यते बिम्बे मुखं नैव कदाचि लभ्यते ।
मूढो यथा सो जनयेत रागं तयोपमान् जानथ सर्वधर्मान् ॥
[समाधिराजसूत्र — ९०९-१०]
तथा [ आर्यसमाधिराजसूत्रेऽपि ] —
तहि कालि सो दशबलो अनघो
जिनु भाषते इमु समाधिवरम् ।
सुपिनोपमा भवगती सकला
न हि कश्चि जायति न चो म्रियते ॥
न च सत्त्वु लभ्यति न जीवु नरो
इमि धर्म फेनकद्लीसदृशाः ।
मायोपमा गगनविद्युसमा
दकचन्द्रसंनिभ मरीचिसमाः ॥
न च अस्मि लोकि मुतु कश्चि नरो
परलोक संक्रमति गच्छति वा ।
न च कर्म नश्यति कदाचि कृतं
फलु देति कृष्ण शुभ संसरतो ॥
[पादटिप्पण्यः]
१ Mss. बाला for बालो. २ T मूढा यथैते जनयन्ति रागं for मूढो यथा सो जनयेत रागं. ३ Mss. फल देवि ; T फलविपाक for फलु देति.
म. ६
४२ मध्यमकशास्त्रे [२.२५-
न च शाश्वतं न च उच्छेद पुनो¹
न च कर्मसंचयु न चापि स्थितिः।
न च सोऽपि कृत्व पुनरास्पृशति
न च अन्यु कृत्व पुन वेदयते ॥
न च संक्रमो न च पुनागमनं
न च सर्वमस्ति न च नास्ति पुनः।
न च दृष्ट² स्थानगतिशुद्धिरिहो³
न च संस्त्वचार सुपशान्तगति ॥
सुपिनोपमं हि त्रिभवं वशिकं
लधुं भग्रमनित्येन मायसमम् ।
न च आगतं न च इहोपगतं
शून्यानिमित्त सद संततियो ॥
अनुत्पाद शान्त अनिमित्तपदं
सुगतान गोचर जिनान गुणा ।
बल धारणी दशबलान बलं
बुद्धान इयं वृषभिता परमा ॥
वरशुक्लधर्मगुणसंनिचयो
गुणज्ञानधारणबलं परमम् ।
ऋद्धीविकुर्वणविधिः परमो
वरपञ्चभिज्ञप्रतिलाभनयैः ॥
[ समाधिराजसूत्र - २९.१३-१९ ]
इति विस्तरः ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
गतागतपरीक्षा नाम द्वितीयं प्रकरणम् ॥
१ T om. पुनो. २ P दृष्टिस्थान° for दृष्ट स्थान°. ३ P इह for इहो or इहा of Mss.
४ Mss. चोरु; T न सत्त्वविचार प्रशान्तिगतिः. ५ T लघु भङ्गुरमनित्यं मायसमं for the line. ६ The
variants in the printed text of समाधिराज are not noted.
३
चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम्।
अत्राह—यद्यपि गतिश्च गन्ता च गन्तव्यं च न विद्यते, तथापि प्रवचनसिद्धयपेक्षया B 113
द्रष्टृद्रष्टव्यदर्शनादीनामस्तित्वमास्थेयम् । तथा चाभिधर्मे उच्यते।
दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
इन्द्रियाणि षडेतेषां द्रष्टव्यादीनि गोचरः ॥ १ ॥
तस्मात्सन्ति दर्शनादीनि स्वभावत इति । उच्यते । न सन्ति । इह हि पश्यतीति दर्शनं
चक्षुः, तस्य च रूपं विषयत्वेनोपदिश्यते ॥ १ ॥
यथा दर्शनं रूपं न पश्यति तथा प्रतिपादयन्नाह —
स्व²मात्मानं दर्शनं हि तत्तमेव न पश्यति ।
न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान् ॥ २ ॥
तत्र तदेव दर्शनं स्वात्मानं न पश्यति स्वात्मनि क्रियाविरोधात् । ततश्च स्वात्मादर्शना- B 114
च्छ्रोत्रादिवन्नीलादिकं न पश्यति । तस्मान्नास्ति दर्शनम् ॥ २ ॥
यद्यपि स्वात्मानं दर्शनं न पश्यति, तथाप्यग्निवत् परान् द्रक्ष्यति । तथा हि अग्निः
परात्मानमेव दहति न स्वात्मानम्, एवं दर्शनं परानेव द्रक्ष्यति न स्वात्मानमिति । एतदप्ययुक्तम् ।
यस्मात् —
न पर्याप्तोऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये ।
योऽयमग्निदृष्टान्तो दर्शनस्य प्रसिद्धये भवतोपन्यस्तः, स न पर्याप्तो नालं न समर्थो न
युज्यत इत्यर्थः । यस्मात् —
सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः ॥ ३ ॥
सह दर्शनेन वर्तत इति सदर्शनः। योऽयमग्निदृष्टान्तो दर्शनप्रसिद्धये भवतोपन्यस्तः, सोऽपि
सह दर्शनेन दार्ष्टान्तिकार्थेन प्रत्युक्तो दूषितः । केन पुनरित्याह—गम्यमानगतागतैः । यथा गतं
न गम्यते नागतं न गम्यमानम्, एवमग्निनापि दग्धं न दह्यते नादग्धं दह्यत इत्यादिना समं
वाच्यम् । यथा च न गतं नागतं न गम्यमानं गम्यते, एवम्—
नै³ दृष्टं दृश्यते तावददृष्टं नैव दृश्यते ।
दृष्टादृष्टविनिर्मुक्तं दृश्यमानं न दृश्यते ॥
इत्यादि वाच्यम् ॥ ३ ॥
यथा च गन्ता न गच्छति तावदित्याद्युक्तम्, एवं नै⁴ दग्धा दहति तावदित्यादि वाच्यम् । B 115
एवं न द्रष्टा पश्यति तावदित्यादिना अग्निदृष्टान्तेन सह गम्यमानगतागतैर्यस्मात्समं दूषणम्, अतोऽ-
१. T इह चक्षुर्दर्शनात् पश्यतीति for इह...पश्यतीति. २. Mss. स्व आत्मानं...तत्तेमेव न पश्यति
for the first half; Rajendra Lal Mitra reads तत्त्वमेव for तत्तमेव. ३. This stanza is
not to be confounded as a Kārikā of our text, as it is not rendered in T in the
Mūla-Madhyamaka. ४. Mss. न दग्धं दह्यते तावत् ... एवं न दर्शनं पश्यते तावत् for न
दग्धा ... पश्यति तावत्, which reading is confirmed by T.
[पृष्ठम् ४४]
| [३.४- ] | मध्यमकशास्त्रे | ४४ |
|---|
ग्निवद् दर्शनसिद्धिरिति न युज्यते। ततश्च सिद्धमेतत्—स्वात्मवद् दर्शनं परानपि न पश्यतीति ॥ ३॥
यदैवं तदा—
नापश्यमानं भवति यदा किंचन दर्शनम् ।
दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते ॥ ४ ॥
5 यदा चैवमपश्यन्न किंचिद्दर्शनं भवति, तदानीमपश्यतो दर्शनात्वायोगात् स्तम्भादिवत्
पश्यतीति दर्शनमिति व्यपदेशो न युज्यते । यद्यपि दर्शनशब्दादनन्तरं श्लोकबन्धानुरोधेन दर्शनं
पश्यतीति पाठः, तथापि व्याख्यानकाले पश्यतीति दर्शनमित्येवं कथमेतत्तु युज्यते इति
पठितव्यम् ॥ ४ ॥
किं चान्यत्—इह पश्यतीति दर्शनमित्युच्यमाने दर्शनक्रियया दर्शनस्वभावस्य वा
10 चक्षुषः संबन्धः परिकल्प्येत, अदर्शनस्वभावस्य वा ? उभयथा च न युज्यते इत्याह—
पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम् ।
दर्शनस्वभावस्य तावद् दर्शिक्रियायुक्तस्य भूयः पश्यतीत्यादिना संबन्धो नोपपद्यते
दर्शिक्रियाद्वयप्रसङ्गात् दर्शनद्वयप्रसङ्गाच्च । अदर्शनमपि न पश्यति दर्शनक्रियारहितत्वादङ्गुल्यग्र-
वदित्याभिप्रायः । यदा
[B 116] 15 पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम् ।
तदा
दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते ॥
इत्यनेनैव संबन्धः ॥
ये तु मन्यन्ते—निर्व्यापारं हीदं धर्ममात्रमुत्पद्यमानमुत्पद्यते इति, नैव किंचित्
20 कश्चिद्विषयं पश्यति क्रियाया अभावात्, तस्माद्दर्शनं न पश्यतीति सिद्धमेतत्प्रसाध्यत इति । अत्रो-
च्यते । यदि क्रिया व्यवहाराङ्गभूता न स्यात्, तदा धर्ममात्रमपि न स्यात्, क्रिया
पृष्ठम् ४६
उच्यते। स्युरुपादानादीनि यदि विज्ञानादिचतुष्टयमेव स्यात् । यदा तु द्रष्टव्यदर्शनाभावाद्विज्ञानादि-
चतुष्टयं नैवास्ति, तदा -
उपादानादीनि भविष्यन्ति पुनः कथम् ।। ८ ।।
न सन्त्युपादानादीनीत्यर्थः ॥ ८ ॥
इदानीं दर्शनवच्छेषायतनव्याख्यानातिदेशार्थमाह -
व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
दर्शनेनैव जानीयाच्छ्रोतृश्रोतव्यकादि च ॥ ९॥
इति ॥
उक्तं हि भगवता -
न चक्षुः प्रेक्षते रूपं मनो धर्मान्न वेत्ति च ।
एतत्त परमं सत्यं यत्र लोको न गाहते ॥
सामग्न्या दर्शनं यत्र प्रकाशयति नायकः ।
प्राहोपचारभूमिं तां परमार्थस्य बुद्धिमान् ॥ इति ॥
तथा -
चक्षुश्च प्रतीत्य रूपैतः चक्षुर्विज्ञानमिहोपजायते ।
नो चक्षुषि रूप निश्रितं रूपसंक्रान्ति न चैव चक्षुषि ॥
नैरात्म्यऽशुभाश्च धर्मिमे तेष्वात्मोति शुभाश्च कल्पिताः ।
विपरीतमसद्विकल्पितं चक्षुर्विज्ञान ततोऽपि जायते ॥
विज्ञाननिरोधसंभवं विज्ञानउपादवयं विपश्यति ।
न कर्हिचि गतं न चागतं शून्य मायोपम योगि पश्यति ॥
[ ललितविस्तर-१३.१०५-१०७ ]
तथाचार्योपायपृच्छायाम् -
सर्वं सयोगिँ तु पश्यति चक्षुस्तेन न पश्यति प्रत्ययहीनम् ।
नैव च चक्षु प्रपश्यति रूपं तेन संयोगवियोगविकल्पः ॥
आलोकसमाश्रित पश्यति चक्षू रूप मनोरमचित्रविशिष्टम् ।
येन च योगसमाश्रितचक्षुस्तेन न पश्यति चक्षु कदाचि ॥
योऽपि च श्रूयति शब्द् मनोज्ञः सोऽपि च नान्तरि जातु प्रविष्टः ।
संक्रमणं न च लभ्यति तस्य कल्पवशात्तु संमुच्छ्रितु शब्दः ॥ इति ॥
पादटिप्पण्यः
१. T रूपं च for रूपतः. २ Mss. नैरात्म्यस्वभावाश्च धर्मि ये धर्मि एतेषु रात्मेति. Our text is
based on T. ३. T संभवत् for संभवं. ४. Mss. संयोगे for सयोगि. Our text is based
on this very quotation in XIV. ५. T seems to read : यान्यपि रूपाणि चक्षुषा दृश्यन्ते, रात्रौ
प्रत्ययानामभावे न दृश्यन्ते. ६ T शब्दानामुत्पादः for समुच्छ्रितु शब्दः.
पृष्ठम् ४७
तथा -
गीतं न नृत्यमपि वाद्यरुतं न ग्राह्यं
स्वप्नोपमा हि रतयोऽबुधमोहनाश्च ।
संकल्पलालस गता अबुधाऽत्र नाशं
किं क्लेशदास इव बालजनो भवामि ॥ इति ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
चक्षुरादीन्द्रियपरीक्षा नाम तृतीयं प्रकरणम् ॥
पादटिप्पणी
१ T मोहनस्य रतेश्च हेतुः for रतयोऽबुधमोहनाश्च.
31): प-रि-क-ल् twist.
Look at L44:
The first character is त् (t).
The second character has a curve: प (pa).
The third character has a vertical stroke with top hook: र (ra) with an i-matra? Wait, the vertical stroke has a loop on the left? No, that's 'रि'!
Wait, why does the second character look like य?
Wait! Look at "त्य": in this font, look at "त्य" in L44 "त्यर्थः" (tyarthaḥ):
In "त्यर्थः", the 'त्य' is त् connected to य.
Look at the first character of L44:
It has 'त्' connected to 'य'!
Wait, could it be:
"त्य" then "रि"?? No, why would it be "त्यरिकल्प..."?
Wait, could it be "त्परिकल्पयितुमर्हतीत्यर्थः"?
Let's look at "त्प" in "नोपपद्यते" (L27, 28, 29): that's "द्य".
Look at "त्प" in "पृथग्भूतं" (L8): that's पृथ.
Look at "त्प" anywhere: is it "त्परिकल्पयितुमर्हतीत्यर्थः"?
Yes! The hyphen is at L43: "कांश्चि-"
Then L44: "त्
[पृष्ठ ५०]
५० मध्यमकशास्त्रे [४.९-
तत्र परपक्षदूषणं विग्रहः । शून्यताया करणभूतया रूपं निःस्वभावमित्येवं सस्वभाववादे
प्रतिषिद्धे, यदि परः परिहारं ब्रूयात् — वेदनादयस्तावत्सन्ति, तद्रूपमयस्तीति, तदेतत्सर्वं तस्यापरि-
हृतं भवति । यस्माद्वेदनादीनामपि सद्भावः साध्येन रूपसद्भावेन समो वेदितव्यः । यथा रूपं
स्वकारणात्त्वान्यत्वेन विचार्यमाणमसत्, एवं स्पर्शप्रत्यया वेदना, विज्ञानसहजा संज्ञा,
अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं च विज्ञानं स्वकारणात्पश्वादिः तत्त्वान्यत्वादिना
विचार्यमाणं नास्तीति सर्वमेतत्साम्यसमं भवति । यथा वेदनादयः साध्यसमाः, एवं लक्ष्यलक्षण-
कार्यकारणावयव्यवयवाद्योऽपि सर्वे एव पदार्थाः रूपेण साध्येन समा इति कुतः परस्य परिहारः
संभवेत् ? सर्वं वचनमस्य साध्यसमं भवतीति सर्वत्र शास्त्रे परिहारेण साध्यसमत्वं माध्यमिकेना-
ग्राहणीयमित्याचार्यः शिक्षयति ॥ ८ ॥
10 यथा च परपक्षदूषणे विहितोयं विधिः, एवं व्याख्यानकालेऽपीत्याह —
व्याख्याने य उपालम्भं कृते शून्यताया वदेत् ।
सर्वं तस्यानुपालब्धं समं साध्येन जायते ॥ ९ ॥
B 128 व्याख्यानकालेऽपि यः शिष्यदेशीयश्चोद्यमुपालम्भं कुर्यात्, तस्यापि तच्चोद्यमुपालम्भाख्यं
पूर्ववत्साध्यसमं वेदितव्यम् । यथोक्तम् —
भावस्यैकस्य यो द्रष्टा द्रष्टा सर्वस्य स स्मृतः ।
एकस्य शून्यता यैव सैव सर्वस्य शून्यता ॥ इति ।
15 [ चतुःशतक ? ]
आर्यगगनगञ्जसमाधिसूत्रेऽपि —
एकेन धर्मेण तु सर्वधर्मान्
अनुगच्छते मायमरीचिसादृशान् ।
20 अप्राप्यतुच्छानलिकानशाश्वतान्
सो बोधिमण्डं नचिरेण गच्छति ॥ इति ॥
समाधिराजसूत्रेऽपि —
यथ जात तथोत्मसंज्ञ तथैव सर्वत्र पेक्षिता बुद्धिः ।
सर्वे च तत्स्वभावा धर्म विशुद्धा गगनकल्पाः ॥
[ समाधिराजसूत्र - १२.७ ]
एकेन सर्वं जानाति सर्वमेकेन पश्यति ।
25 कियद्बहु पि भावेत्वा न तस्योत्पद्यते मदः ॥ इति । 16 var 22 Tib ed.
[ समाधिराजसूत्र - ११.४ ]
इत्याचार्यचन्द्रकीर्त्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
स्कन्धपरीक्षा नाम चतुर्थं प्रकरणम् ॥
१ Mss. त्वया आत्मसंज्ञा for तयात्मसंज्ञ; Text यथ ज्ञाताहमसंज्ञाः. २ Mss. भावयित्वा न तस्यो-
पद्यते दमः for भावेत्वा...मदः. Our text is supported by T. Text बहुं पि भाषिला.
[पृष्ठ ५१]
५
धातुपरीक्षा पञ्चमं प्रकरणम्।
B 129 अत्राह—धातवः सन्ति प्रतिषेधाभावात् । उक्तं च भगवता—षड्धातुरयं महाराज पुरुषपुद्गल
इत्यादि । ततश्च प्रवचनपाठाद्धात्तुवत्स्कन्धायतनान्येव सन्तीति । उच्यते । स्युः स्कन्धायतनानि
यदि धातव एव स्युः । कथमित्याह--
नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात् ।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात् ॥ १ ॥ 5
तत्र षड् धातव उक्ताः पृथिव्यप्तेजोवाय्वाकाशविज्ञानाख्याः । तत्राकाशमधिकृत्योच्यते
दूषणं स्वरूपनिरूपणात् । इहाकाशस्यानावरणं लक्षणमुच्यते । यद् यस्मात्पूर्वमाकाशमनावरण-
लक्षणाल्लक्ष्यं स्यात्, तत्र लक्षणप्रवर्तनादनावरणलक्षणात्पूर्वं नाकाशं लक्ष्यरूपमिति ।
यदा चैवम् —
10 नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात् ।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात् ॥
तथाहि अलक्षणं प्रवर्तेताम् । तदभावे खपुष्पवन्नास्त्याकाशमित्याह —
अलक्षणो न कश्चिच्च भावः संविद्यते क्वचित् ।
इति । अत्राह—लक्षणप्रवृत्तिर्लक्ष्ये भवेत्, तत्सद्भावालक्ष्यमप्यस्तीति । एतदपि नास्ति । यस्मात्— B 130
15 असत्यलक्षणे भावे क्रमतां कुह लक्षणम् ॥ २ ॥
लक्षणात्पूर्वमलक्षणो भावो नास्तीत्युक्तम् । ततश्च असति असंविद्यमाने अलक्षणे
लक्षणरहिते भावे कुह इदानीं लक्षणं प्रवर्तेतामिति नास्ति लक्षणप्रवृत्तिः ॥ २ ॥
अपि च । इदं लक्षणं प्रवर्तमानं सलक्षणे वा प्रवर्तेत अलक्षणे वा ? उभयथा च
नोपपद्यत इत्याह—
20 नालक्षणे लक्षणस्य प्रवृत्तिर्न सलक्षणे ।
सलक्षणालक्षणाभ्यां नान्यत्र च प्रवर्त्तते ॥ ३ ॥
तत्र अलक्षणे खरविषाणवन्न लक्षणप्रवृत्तिः । सलक्षणेऽपि भावे न लक्षणप्रवृत्ति-
रुपपद्यते प्रयोजनाभावात् । किं हि लक्षणवतः प्रसिद्धस्य भावस्य पुनर्लक्षणकृत्यं स्यात् ?
इत्यनवस्था अतिप्रसङ्गश्चैवं स्यात् । न ह्यसौ कदाचिन् सलक्षणः स्यादिति सदैव लक्षणप्रवृत्तिः
25 प्रसज्येत । न चैतदिष्टम् । तस्मात्सलक्षणेऽपि भावे न लक्षणप्रवृत्तिरुपपद्यते प्रयोजनाभावात् ।
तत्रैवं स्यात्—सलक्षणालक्षणाभ्यामन्यत्र प्रवर्तिष्यत इति । उच्यते—
सलक्षणालक्षणाभ्यां नान्यत्र च प्रवर्त्तते ।
B 131 किं कारणम् ? असद्भावात् । यदि सलक्षणो नालक्षणः, अथालक्षणो न सलक्षणः ।
अतः सलक्षणश्च अलक्षणश्चेति विप्रतिषिद्धमेतत् । न च विप्रतिषिद्धं संभवति । तस्मादसंभवा-
देव सलक्षणे चालक्षणे च लक्षणप्रवृत्तिर्नोपपद्यते इति ॥ ३ ॥
१ T एवमनवस्थाप्रसङ्गोऽपि स्यात् for अति...स्यात्.
पृष्ठम् ५२
अथापि स्यात्—यद्यपि न लक्षणप्रवृत्तिः, तथापि लक्ष्यमस्तीति । एतदपि नास्ति ।
यस्मात्—
लक्षणात्संप्रवृत्तौ च न लक्ष्यमुपपद्यते ।
यदा लक्षणप्रवृत्तिरेव नास्ति तदा कथं लक्ष्यं स्यात् ? नैव संभवतीत्यभिप्रायः ।
अत्राह—लक्षणप्रवृत्तिस्त्वया निषिद्धा न तु लक्षणम्, ततश्च विद्यते लक्ष्यम्, लक्षण-
सद्भावात् । उच्यते—
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः ॥ ४ ॥
लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते इति प्रतिपादितम् । तदा
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः ।
निराश्रयत्वात् ॥ ४ ॥
यदा चैवं लक्षणं नास्ति, तदा लक्षणसद्भावाद्विद्यते लक्ष्यमिति यदुक्तं तन्न ।
यतश्चैतदेवम्—
तस्मान्न विद्यते लक्ष्यं लक्षणं नैव विद्यते ।
इति निगमनम् ॥
अत्राह—यद्यपि लक्ष्यलक्षणे न स्तः, तथा(प्या)काशमस्ति, भावरूपं च भवदाकाशं
लक्ष्यं लक्षणं वा स्यात् । तस्माल्लक्ष्यलक्षणे अपि स्त इति । एतदप्ययुक्तमित्याह—
लक्ष्यलक्षणनिर्मुक्तो नैव भावोऽपि विद्यते ॥ ५ ॥
लक्ष्यलक्षणे यथा न स्तः, तथोक्तं प्राक् । यदा अनयोरभावः, तदा लक्ष्यलक्षणरहित-
त्वादाकाशकुसुमवन्नास्त्याकाशम् ॥ ५ ॥
यद्याकाशं भावो न भवति, अभावस्तर्हि अस्तु ? एतदपि नास्ति । यस्मात्—
अविद्यमाने भावे च कस्याभावो भविष्यति ।
यदा आकाशं भावो न भवति, तदा भावस्यासत्त्वे कस्याभावः कल्प्यताम् ? वक्ष्यति हि—
भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति ।
भावस्य ह्यन्यथाभावमभावं ब्रुवते जनाः ॥ इति ।
[ म० शा० - १५.५ ]
तस्माद् भावाभावादभावोऽप्याकाशं न संभवति । रूपाभावश्चाकाशमिति व्यवस्थाप्यते ।
यद्यपि रूपं स्यात्तदा रूपाभाव आकाशमिति स्यात् । यदा च यथोक्तेन न्यायेन रूपमेव
नास्ति, तदा कस्याभाव आकाशं स्यात् ?
अत्राह—विद्येते एव भावाभावौ, तत्परीक्षकसद्भावात् । अस्ति च भवान् भावाभावयोः
परीक्षकः, य एवाह—
अविद्यमाने भावे च कस्याभावो भविष्यति ।
पृष्ठम् ५३
इति । तस्माद् भवतो भावाभावपरीक्षकस्य सद्भावात् परीक्ष्यावपि भावाभावौ विद्येते
इति । उच्यते । एतदप्ययुक्तम् । यस्मात्—
भावाभावविधर्मा च भावाभावमवैति कः ॥ ६ ॥
स्यातां भावाभावौ यदि, तदा तयोः परीक्षको भावो वा स्यादभावो वा । यदि भाव
इष्यते, तस्य
लक्ष्यलक्षणनिर्मुक्तो नैव भावोऽपि विद्यते ।
इत्युक्तं दूषणम् । अथ अभावः,
अविद्यमाने भावे च कस्याभावो भविष्यति ।
इत्यत्रोक्तमेतदूषणम् । न च भावाभावविसदृशधर्मा कश्चित् तृतीयः पदार्थोऽस्ति, योऽनयोरवगमक
इति नास्ति भावाभावयोः परीक्षकः । अत एवोक्तं भगवता—
भावानभावानिति यः प्रजानाति
स सर्वभावेषु न जातु सज्जते ।
यः सर्वभावेषु न जातु सज्जते
स आनिमित्तं भजते समाधिम् ॥ इति ।
[ समाधिराजसूत्र-३८.११ ]
तथा—
²योऽपि च चिन्तयि शून्यकधर्मान्
सोऽपि कुमार्गप्रपन्नकु बालः ।
अक्षर कीर्तित शून्यक धर्माः
ते च अनक्षर अक्षर उक्ताः ॥
शान्त प्रशान्त य चिन्तयि धर्मान्
सोऽपि च ³चिन्तै न जातु न भूतः ।
चित्तवितर्केण सर्पि पपञ्चाः
सूक्ष्म अचिन्तिय बुध्यथ धर्मान् ॥
इति विस्तरः ॥ ६ ॥
इदानीं प्रतिपादितमर्थं निगमयन्नाह—
तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम् ।
आकाशम्
इति । यथा चाकाशम्, एवम्—
आकाशसमा धातवः पञ्च ये परे ॥ ७ ॥
पादटिप्पण्यः (Footnotes)
१ Mss. भावाभावावच वेत्ति कः (?); T confirms our reading.
२ T seems to read येऽपि and तेऽपि for योऽपि and सोऽपि.
३ P चित्त against Mss. which seem to read चिन्तु or चित्त.
[५४] मध्यमकशास्त्रे [५.८]
पृथिव्यादिधातवो ये पञ्च परेऽवशिष्यन्ते, तेऽपि आकाशवद् भावाभावलक्ष्यलक्षणपरिकल्प-
स्वरूपरहिताः परिज्ञेया इत्यर्थः ॥ ७ ॥
तदेवं पदार्थानां स्वभावे व्यवस्थिते अविद्यातिमिरोपहतमतिनयनतया अनादिसंसाराभ्यस्त-
तया भावाभावादिविपरीतदर्शना निर्वाणानुगाम्यविपरीततैःस्वभावदर्शनसन्मार्गपरिभ्रष्टाः
अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः ।
भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम् ॥ ८ ॥
द्रष्टव्योपशमं शिवलक्षणं सर्वकल्पनाजारहितं ज्ञानज्ञेयनिवृत्तिस्वभावं शिवं परमार्थ-
स्वभावम् । परमार्थमजरममरमप्रपञ्चं निर्वाणं शून्यतास्वभावं ते न पश्यन्ति मन्दबुद्धितया अस्तित्त्वं
नास्तित्वं चाभिनिविष्टाः सन्त इति । यथोक्तमार्यरत्नावल्याम्—
नास्तिको दुर्गतिं याति सुगतिं यात्यनास्तिकः ।
यथाभूतपरिज्ञानान्मोक्षमद्वयनिःश्रितः ॥ इति ॥
आर्यसमाधिराजे चोक्तं भगवता—
अस्तीति नास्तीति उभेऽपि अन्ता
शुद्धी अशुद्धीति इमेऽपि अन्ता ।
तस्मादुभे अन्त विवर्जयित्वा
मध्येऽपि स्थानं न करोति पण्डितः ॥
अस्तीति नास्तीति विवाद एषः
शुद्धी अशुद्धीति अयं विवादः ।
विवादप्राप्त्या¹ न दुखं प्रशाम्यते²
अविवादप्राप्त्या³ च दुखं निरुद्ध्यते ॥ इति ।
[समाधिराजसूत्र-९.२७-२८]
तस्मादसंभव एव यत्सांसारिकेण मार्गेण निर्वाणमधिगम्यत इति ॥ ८ ॥
इत्याचार्यचन्द्रकीर्त्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
धातुपरीक्षा नाम पञ्चमं प्रकरणम् ॥
¹ Mss. विवादप्राप्ता for ०प्राप्त्या; text विवादप्राप्तान.
² C निरुध्यते; प्रशाम्यति for प्रशाम्यते
³ Mss. अविवादप्राप्ता for ०प्राप्त्या; text अविवादप्राप्तान.
⁴ C स्मृतेरुपस्थानकथं कथ्येता for the line.
६
रागरक्तपरीक्षा षष्ठं प्रकरणम् ।
अत्राह—विद्यन्त एव स्कन्धायतनधातवः । कुतः ? तदाश्रयसंक्लेशोपलब्धेः । इह
यन्नास्ति, न तदाश्रयसंक्लेशोपलब्धिरस्ति वन्ध्यादुहितुरिव वन्ध्यासूनोः । सन्ति च रागादयः
क्लेशाः¹ संक्लेशनिबन्धनम् । यथोक्तं भगवता—बालो भिक्षवे अश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितः
चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्यभिनिविशते । सोऽभिनिविष्टः सन् रागमुत्पादयति ।
रक्तः सन् रागर्ज द्वेषजं मोहजं कर्माभिसंस्करोति कायेन वाचा मनसेति विस्तरः । उच्यते ।
स्युः स्कन्धायतनधातवो यदि रागादय एव क्लेशाः स्युः² । इहायं रागः परिकल्प्यमानो बाल-
पृथग्जनैः सति रक्ते नरे³ परिकल्प्येत असति वा ? उभयथा च न युज्यत इत्याह—
रागाद्यदि भवेत्पूर्वं रक्तो रागतिरस्कृतः ।
तं प्रतीत्य भवेद्रागो रक्ते रागो भवेत्सति ॥ १ ॥
तत्र रागः सक्तिरध्यवसानं सङ्गोऽभिनिवेश इति पर्यायाः । रक्तो रागाश्रयः । स यदि
रक्तो रागात्पूर्वं रागतिरस्कृतो रागरहितो भवेत्, तदा तं रागतिरस्कृतं रक्तं प्रतीत्य रागो भवेत् ।
एवं सति रक्ते रागो भवेदिति युक्तम् । न त्वेवं संभवति, यद्रागरहितो रक्तः स्यात्⁴ । अर्हतामपि
रागप्रसङ्गात् ॥ १ ॥
यद्येवं सति रक्ते न रागः, असति तर्हि रक्ते रागोऽस्तु । एतदप्ययुक्तमित्याह –
रक्तेऽसति पुना रागः कुत एव भविष्यति ।
यदा सति रक्ते रागो नास्ति, तदा कथमसति रक्ते निराश्रयो रागः सेत्स्यति ? न हि
असति फले तत्पकता संभवतीति ॥
अत्राह – यद्यपि त्वया रागो निषिद्धः, तथापि रक्तोऽस्ति, अप्रतिषेधात् । न च रागमन्तरेण
रक्तो युक्तः, तस्मादयमप्यस्तीति । उच्यते । स्याद्रागो यदि रक्तः स्यात् । यस्मादयं रक्त
इष्यमाणः सति वा रागे परिकल्प्येत, असति वा ? उभयथा च नोपपद्यते इत्याह –
सति वासति वा रागे रक्तेऽप्येष समः क्रमः ॥ २ ॥
तत्र यदि सति
[पृष्ठम् ५६]
५६ मध्यमकशास्त्रे [ ६.३-
अत्राह – नैव हि रागरक्तयोः पौर्वापर्येण संभवो यत इदं दूषणं स्यात्, किं तर्हि
रागरक्तयोः सहैवोद्भवः । चित्तसहभूतेन रागेण हि चित्तं रज्यते, तच्च रक्तमिति । अतो विद्येते
एव रागरक्ताविति । उच्यते । एवमपि –
सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः ।
5 सहोत्पादोऽपि न युक्तो रागरक्तयोः । यस्मात् –
भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् ॥ ३ ॥
सहभावात् सव्येतरगोविषाणवदित्यभिप्रायः ॥ ३ ॥
अपि च । अनयो रागरक्तयोः सहभावः एकत्वे परिकल्प्येत पृथक्त्वे वा ? तत्र यदि
एकत्वे, तन्न युज्यते । यस्मात्
10 नैकत्वे सहभावोऽस्ति
[B 140] कस्मात्पुनर्नास्तीत्याह –
न तेनैव हि तत्सह ।
न हि रागस्वात्मा रागाद्व्यतिरिक्तो रागेण सहेति व्यपदिश्यते ॥
इदानीं पृथक्त्वेऽपि सहभावाभावमाह –
15 पृथक्त्वे सहभावोऽथ कुत एव भविष्यति ॥ ४ ॥
न हि पृथग्भूतयोरालोकान्धकारयोः संसारनिर्वाणयोर्वा सहभावो दृष्ट इति ॥ ४ ॥
किं चान्यत् –
एकत्वे सहभावश्चेत्स्यात्सहायं विनापि सः ।
पृथक्त्वे सहभावश्चेत्स्यात्सहायं विनापि सः ॥ ५ ॥
20 यदि एकत्वे सहभावः स्यात्, तदा यत्र यत्रैकत्वं तत्र तत्र सहभाव इत्येकस्यापि सहभावः
स्यात् । पृथक्त्वेऽपि सहभावे इष्यमाणे यत्र यत्र पृथक्त्वं तत्र तत्र सहभाव इति अश्वादिव्यतिरिक्तस्य
पृथगवस्थितस्य गोः असहायस्य सहभावः स्यात् ॥ ५ ॥
किं च –
पृथक्त्वे सहभावश्च यदि किं रागरक्तयोः ।
25 सिद्धः पृथक्पृथग्भावः संहभावो यतस्तयोः ॥ ६ ॥
[B 141] पृथक्त्वे सहभावश्च रागरक्तयोः परिकल्प्यते । किमनयोः सिद्धः पृथक्पृथग्भावः ? किं
रागनिरपेक्षो रक्तः सिद्धो यतस्तयोः सहभावः स्यात् ? पृथक्पृथक्सिद्धयोरेव हि गवाश्वयोः सहभावो
दृष्टः । न त्वेवं रागरक्तौ पृथक्पृथक्सिद्धाविति नास्त्यनयोः सहभावः ॥ ६ ॥
अथवा । पृथक्पृथगसिद्धयोर्न सहभाव इति कृत्वा –
सिद्धः पृथक्पृथग्भावो यदि वा रागरक्तयोः ।
परिकल्प्यते भवता, किमिदानीं सहभावेनार्थिकिंचिकरेण परिकल्पितेनेत्याह –
सहभावं किमर्थं तु परिकल्पयसे तयोः ॥ ७ ॥
१ Mss. सहभावस्ततस्तयोः for सहभावो यतस्तयोः which is confirmed by T and Com.
[पृष्ठम् ५७]
-६.१० ] रागरक्तपरीक्षा षष्ठं प्रकरणम् । ५७
रागरक्तयोः सिद्धयर्थं सहभावः परिकल्प्यते । सच पृथक्पृथगसिद्धयोर्नास्तीति पृथक्पृथक्
सिद्धिरभ्युपगम्यते त्वया । नन्वेवं सति सिद्धत्वात्किमनयोः सहभावेन कृत्यम् ?
अथ –
पृथङ् न सिध्यतीत्येवं सहभावं विकाङ्क्षसि ।
पृथक्पृथग् रागरक्तयोः सिद्धिर्नास्तीति कृत्वा यद्यनयोः सहभावमिच्छसि, स च 5
पृथक्पृथगसिद्धयोर्नास्तीति –
सहभावप्रसिद्ध्यर्थं पृथक्त्वं भूय इच्छसि ॥ ८ ॥
नन्वेवं सति इतरेतराश्रयायां सिद्धौ स्थितायां कस्येदानीं सिद्धौ सत्यां कस्य
सिद्धिर्अस्तु ? ॥ ८ ॥
यावता – 10
[B 142] पृथग्भावाप्रसिद्धेश्च सहभावो न सिध्यति ।
कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि ॥ ९ ॥
नास्त्येव स पृथग्भावः सहभावानपेक्षो यस्मिन् पृथग्भावे सति सहभावसिद्धिः स्यादित्य-
संभावयन्नाह –
कतमस्मिन्पृथग्भावे सहभावं सतीच्छसि ॥ ९ ॥ 15
तदेवं यथोदितविचारपरामर्शेन रागरक्तयोरसिद्धिं निगमयन्नाह –
एवं रक्तेन रागस्य सिद्धिर्न सह नासह ।
इति । यथा च रागरक्तयोर्न पौर्वापर्येण सिद्धिः नापि सहभावेन, एवं सर्वभावानामपीत्यति-
दिशन्नाह –
रागवत्सर्वधर्माणां सिद्धिर्न सह नासह ॥ १० ॥ 20
इति द्वेषद्विष्टमोहमूढादीनां रागैरक्तवदसिद्धिर्योज्यते ॥ १० ॥
अत एवोक्तं भगवता –
[B 143] यो रज्येत यत्र वा रज्येत येन वा रज्येत, यो दुष्येत यत्र वा दुष्येत येन वा दुष्येत,
यो मुह्येत यत्र वा मुह्येत येन वा मुह्येत, स तं धर्मं न समनुपश्यति तं धर्मं नोपलभते । स तं
धर्ममसमनुपश्यन्ननुपलभमानोऽरक्तोऽदुष्टोऽमूढोऽविपर्यस्तचित्तः समाहित इत्युच्यते । तीर्णः पारग 25
इत्युच्यते । क्षेमप्राप्त इत्युच्यते । अभयप्राप्त इत्युच्यते । यावत् क्षीणास्रव इत्युच्यते । निःक्लेशो
वशीभूतः सुविमुक्तचित्तः सुविमुक्तप्रज्ञ आजानयो महाभागः कृतकृत्यः कृतकरणीयः
अपहृतभारोऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः सर्वचेतोवशितापरम-
पारमिप्राप्तः श्रमण इत्युच्यते । इति विस्तरः ॥
[ समाधिराजसूत्र – ९ ]
१. T असंभाव्यन् for असंभावयन्. २. T रागरक्तयोः सिद्धिर्योज्यते for रागैरक्तवदसिद्धिर्योज्यते.
३. Our passage is abridged.
म. ८
[पृष्ठम् ५८]
५८ मध्यमशास्त्रे [६. १०-
तथा -
ये रागदोषमदमोहसभाव ज्ञात्वा
संकल्पहेतुजनितं वितथप्रवृत्तम् ।
न विकल्पयन्ति न विरागमपीह तेषाम्
[आशु] सर्वभवभावविभावितानाम् ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
रागरक्तपरीक्षा नाम षष्ठं प्रकरणम् ॥
[पृष्ठम् ५९]
७
संस्कृतपरीक्षा सप्तमं प्रकरणम् ।
अत्राह - विद्यन्त एव संस्कृतस्वभावाः, स्कन्धायतनधातवः उत्पादादिसंस्कृतलक्षण-
सद्भावात् । उक्तं हि भगवता - त्रीणीमानि संस्कृतस्य संस्कृतलक्षणानि । संस्कृतस्य
भिक्षवः उत्पादोऽपि प्रज्ञायते, व्ययोऽपि, स्थित्यन्यथात्वमपीति । न च अविद्यमानस्य खरविषाण-
स्येव जात्यादिलक्षणमस्ति । तस्मात्संस्कृतलक्षणोपदेशाद्विद्यन्त एव स्कन्धायतनधातवः इति । ५
उच्यते । स्युः स्कन्धायतनधातवः संस्कृतस्वभावास्तावकेन मतेन, यदि जात्यादिलक्षणमेव भवेत् ।
इहायमुत्पादः संस्कृतलक्षणत्वेनेष्यमाणः संस्कृतो वा तल्लक्षणत्वेनेष्यते, असंस्कृतो वा ? तत्र -
यदि संस्कृत उत्पादस्तत्र युक्ता त्रिलक्षणी ।
त्रयाणां लक्षणानां समाहारस्त्रिलक्षणी । इयं च उत्पादस्थितिमङ्गसमाहारस्वभाव-
सर्वसंस्कृतावव्यभिचारिणीति कृत्वा यदि उत्पादः संस्कृत इति परिकल्प्यते, तदा उत्पादेऽपि १०
त्रिलक्षणी प्रसज्यते । ततश्च रूपादिष्विवैतल्लक्ष्यमुत्पादस्य स्यात्, न संस्कृतलक्षणत्वम् ।
अथोत्पादेऽपि त्रिलक्षणी नेष्यते, तदा त्रिलक्षणीरहितत्वादाकाशवत् संस्कृतलक्षणत्वमस्यावहीयते
इत्याह -
अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम् ॥ १ ॥
इति । नैतत्संस्कृतलक्षणमित्यभिप्रायः ॥ १ ॥ १५
अपि च । इमे उत्पादादयः संस्कृतस्य लक्षणत्वेन परिकल्प्यमाना व्यस्ता वा पृथग्वा
लक्षणत्वेन परिकल्प्येरन्, समस्ता वा सहभूता वा ? उभयथा च न युज्यत इत्याह -
उत्पादाद्यास्त्रयो व्यस्ता नालं लक्षणकर्मणि ।
संस्कृतस्य समस्ताः स्युरेकत्र कथमेकदा ॥ २ ॥
तत्र व्यस्ता लक्षणकर्मणि न युज्यन्ते । यदि उत्पादकाले स्थितिभङ्गौ न स्यातां तदा २०
स्थितिभङ्गरहितस्य आकाशस्येव संस्कृतलक्षणत्वेनानुपपन्न एवोत्पादः । अथ स्थितिकाले
उत्पादभङ्गौ न स्तः, तदा तद्रहितस्य स्थितिः स्यात् । उत्पादभङ्गरहितश्च पदार्थो नास्त्येवेति न
अस्याविद्यमानस्य खपुष्पवत् स्थितियुज्यते । किं च । स्थितियुक्तस्य पश्चादनित्यतयापि योगो न
स्यात्, तद्विरोधिधर्माक्रान्तत्वात् । अथ स्यात् - पूर्वं शाश्वतो भूत्वा पश्चादशाश्वत इति, न
चैकपदार्थः शाश्वतश्चाशाश्वतश्च युक्त इति नोत्पादभङ्गरहितस्य स्थितिः । तथा यदि भङ्गकाले २५
स्थित्युत्पादौ न स्याताम्, एवमध्यनुत्पन्नस्य स्थितिरहितस्य खपुष्पस्य विनाशोऽपि नास्तीति ।
एवं तावदुत्पादादयो व्यस्ता नालं लक्षणकर्मणि नालं न पर्याप्ता इत्यर्थः ॥
इदानीं समस्ता अपि न युज्यन्त इत्याह -
समस्ताः स्युरेकत्र कथमेकदा ।
१. T om. संस्कृत°. २ Mss. लक्ष्यते उत्पादस्य for लक्ष्यत्वमुत्पादस्य which is confirmed
by T.
६० मध्यमकशास्त्रे [७. ३-
एकत्र पदार्थे, एकस्मिन् काले, परस्परविरुद्धत्वान्द्रागवैराग्यवत्, आलोकान्धकारवद्वा न
युज्यन्त इत्यभिप्रायः । यस्मिन्नेव क्षणे पदार्थो जायते, तस्मिन्नेव तिष्ठति विनश्यति चेति कः
सचेताः प्रतिपद्येत ? तस्मात्समस्तानापि उत्पादादीनां संस्कृतस्य लक्षणकर्मणि नास्ति
सामर्थ्यम् ॥ २ ॥
5 अथ यदुक्तं 'यदि संस्कृत उत्पादः' [७. १] इत्यादि, तेन यदि उत्पादादीनां त्रिलक्षणी
प्राप्ता प्रसक्ता, ततः को दोषः ? अथासंस्कृतः, एवमप्यदोष इति । उच्यते -
उत्पादस्थितिमङ्गानामन्यत्संस्कृतलक्षणम्
अस्ति चेदनवस्थैवं नास्ति चेत्ते न संस्कृताः ॥ ३ ॥
ननु च पक्षद्वयेऽपि विहित एव दोषः, तत्र किं पुनरुक्ताभिधानेनेति । सत्यमुक्तो दोषः,
10 स खलु नाचार्येण, किं तर्हि वृत्तिकारेण । अथ पूर्वप्रतिज्ञातमेव दूषणान्तराभिधानेन
स्पष्टीकरणार्थं पुनराचार्योऽभिहितवान् । यदि उत्पादस्थितिमङ्गानामन्यदुत्पादादिकं संस्कृतलक्षण-
मिष्यते, तदा तेषामप्यन्यत्, तेषामप्यन्यत्, इत्यपर्यवसानदोषः स्यात् । सति च
अपर्यवसानदोषे, किं पूर्वं स्याद् यत उत्तरकालमपरं भवेदिति व्यवस्थाभावादसंभव एव
उत्पादादीनामित्यभिप्रायः । अथवा, पूर्वं मुख्यस्यानुत्पादस्यैव दूषणमुक्तम्, अधुना तु
15 सामान्येनेति । नास्ति चेत्ते न संस्कृता इति गतार्थमेतत् ॥ ३ ॥
B 148 अत्राहः सांमितीयाः - सन्ति चोत्पादादीनामुत्पादादयः, न च अनवस्थाप्रसङ्गः, लक्षणाना-
लक्षणानां परस्परनिष्पादकत्वात् । यस्मादिह संस्कृतधर्मः कुशलः क्लिष्टो वा उत्पद्यमानः आत्मना
पञ्चदशः उत्पद्यते । स धर्मस्तस्य चोत्पादः समन्वागमः स्थितिरजरा अनित्यता । यद्यसौ धर्मः
क्लिष्टो भवति, तस्य मिथ्याविमुक्तिः । अथ शुभः, तस्य सम्यग्विमुक्तिः । यदि नैर्याणिको भवति,
20 तस्य नैर्याणिकता । अथ अनैर्याणिकः, तस्य अनैर्याणिकता । इत्येष परिवारः । इदानीमुत्पाद-
स्यापर उत्पादः यावदनैर्याणिकतानैर्याणिकतेत्येष परिवारस्य परिवारः । तत्र योऽयं मौल उत्पादः
स आत्मानं विहाय अन्यांश्चतुर्दश धर्मान् जनयति । उत्पादोत्पादसंज्ञकस्तु अनुलक्षणभूत उत्पादो
B 149 मौलमेवोत्पादं जनयति । एवं यावदनैर्याणिकता चतुर्दश धर्मान् न निर्याणयति, न तन्निर्वाणं
प्रापयतीत्यर्थः । अनैर्याणिकतानैर्याणिकता तु नै³ निर्याणयति । तदेवमुत्पादादीनामनवस्थां
25 परिहरन्नाह -
उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम् ।
उत्पादोत्पादमुत्पादो मौलो जनयते पुनः ॥ ४ ॥
द्विविधो ह्युत्पादः । एको मौल उत्पादः, अपरश्च उत्पादोत्पादसंज्ञकः, उत्पादस्योत्पाद
इति कृत्वा । तत्र योऽयमुत्पादोत्पादसंज्ञक उत्पादः, स मूलोत्पादस्य केवलमुत्पादकः । तं चेदानी-
१. P उत्पद्यन्ते for उत्पद्यते. २. Mss. विहरस्त्वोन्यान् for विहाय अन्यान् which is
confirmed by T. ३. Mss. and P प्रापयति अनैर्याणिकतानैर्याणिकतामेवेति. Our text is
supported by T.
-७. ८] संस्कृतपरीक्षा सप्तमं प्रकरणम् । ६१
मुत्पादोत्पादाख्यमुत्पादं मौल उत्पादो जनयति । तदेवं परस्परनिर्वर्तनादस्ति च त्रिलक्षणी उत्पादा-
दीनाम्, न चानवस्थाप्रसङ्ग इति ॥ ४ ॥
अत्रोच्यते - B 150
उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि ।
मौलेनाजनितस्तं ते स कथं जनयिष्यति ॥ ५ ॥
यदि तव उत्पादोत्पादो मूलोत्पादस्य जनक इति मतम्, स कथमिदानीं मौलेनोत्पा-
देनानुत्पादितः सन् उत्पादोत्पादो मौलं जनयिष्यति ? ॥ ५ ॥
अथ मन्यसे - उत्पादित एव मौलेनोत्पादेन उत्पादोत्पादो मौलं जनयिष्यति, एतदप्य-
सदित्याह-
स ते मौलेन जनितो मौलं जनयते यदि । 10
मौलः स तेनाजनितस्तमुत्पादयते कथम् ॥ ६ ॥
स उत्पादोत्पादसंज्ञक उत्पादो मौलेन जनितो यदि मौलं जनयति, स मौल उत्पादोत्पादे-
नाजनितोऽविद्यमानः कथमुत्पादोत्पादं जनयिष्यति ? तस्मान्मौलेन जनितः सन् उत्पादोत्पादो
मौलं जनयतीति न युज्यते । ततश्च परस्परनिर्वर्त्यनिर्वर्तकत्वाभावात्स एव अनवस्थाप्रसङ्ग इति
नास्त्युत्पादः ॥ ६ ॥ 15
अत्राह-उत्पद्यमान एव मूलोत्पाद उत्पादोत्पादमुत्पादयति, स एवोत्पादोत्पादो मूलोत्पादं
जनयिष्यतीति । उच्यते -
अयमुत्पद्यमानस्ते काममुत्पादयेदिमम् ।
यदीममुत्पादयितुमजातः शक्नुयादयम् ॥ ७ ॥
काममयं मूलोत्पाद उत्पद्यमान उत्पादयेदुत्पादम्, यद्ययमेव अजातः शक्नुयादपरमजात- 20 B 151
मुत्पादयितुम् । उत्पद्यमानो हि नाम अनागतः । स च अजातः कथमूत्पादयिष्यतीति न
युक्तमेवैतदित्यभिप्रायः । एवमुत्पादोत्पादेऽपि वाच्यम् ॥ ७ ॥
अत्राह - नैव हि उत्पद्यस्यापर उत्पादोऽस्ति यतोऽनवस्थाप्रसङ्गः स्यात् । किं तर्हि -
प्रदीपः स्वपरात्मानौ संप्रकाशयिता यथा ।
उत्पादः स्वपरात्मानवुभावुत्पादयेत्तथा ॥ ८ ॥ 25
यथा प्रदीपः प्रकाशस्वभावत्वादात्मानं प्रकाशयति घटादींश्च, एवमुत्पादोऽप्युत्पादस्वभाव-
त्वादात्मानमुत्पादयिष्यति परं चेति ॥ ८ ॥
उच्यते । स्यादेतदेवं यदि प्रदीपः स्वपरात्मानौ संप्रकाशयेत् । न चैवम् । यस्मात् -
१ Mss. उत्पादस्याय च for उत्पादस्यापर which is confirmed by T. २ Mss.
संप्रकाशयितु for संप्रकाशयिता.
संस्कृत-संस्कर्तव्य एवं कर्म-कारक परीक्षा (प्रकरण ६-१२)
[पृष्ठम् ६२]
६२ मध्यमकशास्त्रे [७.९-
प्रदीपे नान्धकारोऽस्ति यत्र चासौ प्रतिष्ठितः ।
किं प्रकाशयति दीपः प्रकाशो हि तमोवधः ॥ ९ ॥
इह प्रकाशो नाम तमस्य(सो ?) वधः । तमश्च प्रदीपस्वात्मनि तावन्न संभवति,
विरोधात्, यत्तमो निघ्नतः स्वात्मप्रकाशत्वं स्यात् । न चापि प्रदीपो यत्र देशे तिष्ठति तत्र
[B 152] ^5 तमोऽस्ति, यत्तमो निघ्नतः प्रदीपस्य परप्रकाशकत्वं स्यात् । अतोऽपि नास्ति प्रदीपस्य स्वपरात्म-
प्रकाशकत्वम् । यदा चैवम्, तदा प्रदीपवदुत्पादस्य स्वपरात्मोत्पादकत्वं न संभविष्यति, इति
अयुक्तमेतत् ॥ ९ ॥
अत्राह — यदेतदुक्तं प्रदीपे नान्धकारोऽस्तीति, एतदसत्यन्धकारघाते युक्तमेव वक्तुम् ।
यस्मात्तु उत्पद्यमानेनैव प्रदीपेन तमो निहतम्, तत्र प्रदीपे नान्धकारोऽस्ति, यत्र च प्रदीपोऽस्ति,
^1^0 तत्राप्यन्धकारो नास्तीति युज्यते । यदि प्रदीपेन नान्धकारघातः कृतः, तदा अनुत्पन्ने इव प्रदीपे
उत्पन्नेऽपि घटादयो नोपलभ्येरन्, अन्धकारघाताभावात्प्रागवस्थायामिव । तस्मादस्यैव अन्धकारघात-
लक्षणं प्रकाशनं प्रदीपस्य । तच्चानेन उत्पद्यमानेन प्रदीपेन कृतमिति । उच्यते —
कथमुत्पद्यमानेन प्रदीपेन तमो हतम् ।
नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा ॥ १० ॥
^1^5 इह आलोकान्धकारयोर्यौगपद्याभावात् प्राप्तेरभावः । यदा चैवं प्राप्तेरभावः, तदा कथं
केन प्रकारेणेदानीमुत्पद्यमानेन प्रदीपेन तमो हतमिति युक्तं परिकल्पयितुम् ? यस्माच्च एवमुत्पद्यमानः
प्रदीपः तमो न प्राप्नोति, तस्मान्नैव अप्राप्तत्वात्प्रदीपः किंचिदपि प्रकाशयतीत्यवसीयताम् ॥ १० ॥
अथ मन्यसे — यथा अप्राप्तामेव अविद्यां ज्ञानं निहन्ति, अप्राप्तमेव रूपं चक्षुः पश्यति,
अप्राप्तमेव अयः अयस्कान्तो मणिराकर्षति, एवमेव अप्राप्तमेवान्धकारं प्रदीपो निहनिष्यतीति ।
^2^0 एतदप्यसारमित्याह —
[B 153] अप्राप्यैव प्रदीपेन यदि वा निहतं तमः ।
इहस्थः सर्वलोकस्थं स तमो निहनिष्यति ॥ ११ ॥
यदि अप्राप्यैव प्रदीपेन तमो निहतम्, एवं सति, इहस्थ एव प्रदीपः सर्वलोकस्थं तमो
निहनिष्यति, अप्राप्तत्वात्समीपस्थमिवेत्यभिप्रायः । एतेन न्यायेन ज्ञानेन अविद्याघातः, चक्षुषा
^2^5 रूपदर्शनम्, अयस्कान्तमणिना अयआकर्षणमिव इत्येवमादिकं साध्यसमं ज्ञेयम् ॥
अथ अप्राप्तावपि सत्यामयस्कान्तमणिप्रभृतीनां योग्यदेशावस्थितानामेव स्वकार्यकर्तृत्वं
भविष्यतीति चेत्, तदपि न युक्तम् । अप्राप्तौ हि सत्यां विप्रकृष्टदेशान्तरवास्तित्वेनाव्यवहित-
शान्तरावस्थितवच्च अप्राप्तत्वाद् योग्यदेशावस्थितानामपि योग्यदेशावस्थितत्वं न युक्तमिति कुतो
योग्यदेशावंस्थितानां स्वकार्यकर्तृत्वं प्रसेत्स्यति ?
१. Mss. seem to om. वत्, but it is confirmed by T. २. T °वस्थितद्वारेण for वस्थितानां.
[पृष्ठम् ६३]
०७.१२] संस्कृतपरीक्षा सप्तमं प्रकरणम् । ६३
दृष्टमेतल्लोकत इति चेन्नैतदेवम् । यथा हि भवान् परिकल्पयति न तथा लोके दृष्टम् ।
यस्मात् न लोकः प्राप्यप्राप्तिचिन्तामेवमादौ विषयेऽवतार्य प्रदीपादीनां प्रकाशकत्वादिकं कल्पयति ।
यद्योदितं तु विचारमनवतार्य प्रदीपेन तमो हतम्, चक्षुषा रूपदर्शनम्, अयस्कान्तमणिना
अयआकर्षणम् इत्यादि इच्छति । पश्यतु वा लोक एवम् । तत्त्वविचारकाले तु लोकस्याप्रामाण्यान्न
तेन बाधा शक्यते कर्तुम् । एवं तावदप्राप्य प्रकाशनमयुक्तम् । प्राप्तावपि विषयादिग्रहणमयुक्तमेव । ^5
प्राप्तिर्हि एकत्रत्वे सति भवति । यदा चैकत्वं तदा स्वरूपैवैदर्शनाकर्षणादिकं नास्ति ॥ [B 154]
यद्यपि चेयं प्राप्यप्राप्त्यादिचिन्ता लौकिकव्यवहारे नावतरतीति निरुपपत्तिकत्वेन मृषार्थ-
त्वादस्य, तथापि तत्त्वविचारेऽवतार्या, मा भूत्परमार्थतोऽपि निरुपपत्तिकपक्षाम्युपगम इत्यलं
प्रसङ्गेन ॥ ११ ॥ ^1^0
यदि च स्वपरात्मानौ प्रदीपः प्रकाशयतीति परिकल्प्यते त्वया, तमसोऽपि तर्हि प्रतिपक्ष-
भूतस्य स्वपरात्मनोः प्रच्छादनं प्रकल्प्यतामित्याह —
प्रदीपः स्वपरात्मानौ संप्रकाशयते यदि ।
तमोऽपि स्वपरात्मानौ छादयिष्यत्यसंशयम् ॥ १२ ॥
प्रतिद्वन्द्वित्वात्प्रदीपवत् तमोऽपि स्वपरात्मगतं व्यापारं करिष्यति, ततश्च परवदात्मानमपि ^1^5
च्छादयिष्यति । यदि च आत्मानं छादयेत्तमः, तस्यैवानुपलब्धिः स्यात्, घटादिवत्तमसा
प्रच्छादितत्वात् । अत एवोक्तमार्योपालिपुच्छायाम् —
[B 155] इह शासनि सूरमणीये
प्रत्रजेंथ गृहेलिङ्ग जहित्वा ।
फलॅवँन्तु भविष्यथ श्रेष्ठॉ ^2^0
एषु निदेशितु कारुणिकेन ॥
प्रव्रजित्वा गृहेलिङ्ग जहित्वा
सँर्वफलस्य भविष्यति प्राप्तिः ।
पुन धर्मसभाव तुलित्वा
सर्वफलान फलान च प्राप्तिः ॥ ^2^5
अलभन्त फलं तथ प्राप्तिं
आश्चर्यं पुन जायति तेषाम् ।
अंहोऽतिकारुणिको नरसिंहो
सुष्ठुपदेशित युक्ति जिनेन ॥ इति ॥
१. Mss. प्राप्तः प्राप्त्ये चिन्तां for प्राप्यप्राप्तिचिन्ताम्. २. Paris Ms. seems to om. वत्.
३. प्रत्रयथा for प्रत्रजथा elsewhere. ४. Mss. बलवन्तु; T supports our reading. ५. सेट्ठो for
श्रेष्ठो for metrical reasons. ६. Mss. सत्यफलस्य for सर्वफलस्य; our reading in supported
by T. ७. T हा बत for अहोऽति°.
[पृष्ठम् ६४]
तथार्यरत्नकूटसूत्रे —
यथा हि दीपे लयने चिरस्य
कृते हि गेहे पुरुषेण केनचित्।
तत्रान्धकारस्य न भोति एवं
चिरस्थितो नाहमितो गमिष्ये ॥
तमोन्धकारस्य न शक्तिरस्ति
कृते प्रदीपे न विगच्छनाय।
प्रतीत्य दीपं च विनश्यते तैम
उभयं पि शून्यं न च किं च मन्यति ॥
ज्ञानं तथा आर्य प्रतीत्य नाश्रवं
अज्ञान क्लेशोपचितं विगच्छति।
संपर्क तेषां न कदाचि विद्यते
ज्ञानस्य क्लेशस्य च नित्यकालम् ॥
ज्ञानं न कल्पेति अत्रानु नो भवेत्
ज्ञानं प्रतीत्यैव विनश्यते तमो।
भयं पि अग्राद्य खपुष्पसंनिभं
ज्ञानं तथाज्ञानु भयं पि शून्यम् ॥ इति ॥ १२ ॥
किं चान्यत्—इहायमुत्पादो यद्यात्मानमुत्पादयेत्, स उत्पन्नो वा स्वात्मानमुत्पादयेत्, अनु-
त्पन्नो वा ? उभयथा च नोपपद्यते इत्याह —
अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम्।
अथोत्पन्नो जनयते जाते किं जन्यते पुनः ॥ १३ ॥
यदि अनुत्पन्न उत्पादः स्वात्मानमुत्पादयेत्, मण्डूकजटाशिरोमणिरप्यात्मानमुत्पादयेत् ।
अथ उत्पन्न उत्पादयेत्, किमुत्पन्नस्यापरेणोत्पादेन प्रयोजनमिति। एवं तावदुत्पाद आत्मानं
नोत्पादयति ॥ १३ ॥
इदानीं परमपि यथा नोत्पादयति तथा प्रतिपादयन्नाह—
नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथंचन।
उत्पद्यते तथारख्यातं गम्यमानगतागतैः ॥ १४ ॥
पादटिप्पण्यः :
१. T om. लयने.
२. P तमो भयं against Mss.
३. Mss. seem to read sometime मुण्डक for मण्डूक. Compare कूर्मरोम with मण्डूकजटा.
[पृष्ठम् ६५]
यदि हि किंचिदुत्पद्येत तदुत्पाद उत्पादयेत् । न तु किंचिदुत्पद्यतेऽध्वत्रयेऽप्युत्पादा-
संभवात् । एतच्च गम्यमानगतागतैः प्रागेवोक्तम् । तत्र यथा गतं न गम्यते, अतीतवर्तमानयो-
र्विरोधात् । नाप्यगतं गम्यते, अनागतवर्तमानयोर्विरोधात् । नापि गम्यमानं गम्यते,
गतागतव्यतिरिक्तगम्यमानानुपलब्धादित्युक्तम् । एवमुत्पद्यमानो भावो नोत्पद्यते, उत्पन्नानुत्पन्न-
व्यतिरेकेणोत्पद्यमानाभावात् । उत्पन्नोऽपि नोत्पद्यते, अतीतवर्तमानयोर्विरोधात् । उत्पन्न
इत्युपरतोत्पत्तिक्रिय उच्यते, उत्पद्यत इति वर्तमानक्रियाविष्टः । ततश्च उत्पन्न उत्पद्यते इत्युच्यमाने
अतीतवर्तमानयोरेककालता स्यात् । अनुत्पन्नोऽपि नोत्पद्यते, अनागतवर्तमानयोर्विरोधात् ।
तस्मादुत्पादः परमुत्पादयतीति न युक्तम् ॥ १४ ॥
अत्राह – उत्पद्यमानमेवोत्पद्यते नोत्पन्नं नाप्यनुत्पन्नमिति । अथ मन्यसे – उत्पन्नानुत्पन्न-
व्यतिरेकेण उत्पद्यमानासंभवान्नोत्पद्यमानमुत्पद्यत इति, एतच्च नास्ति, यस्मादिह उत्पत्तिक्रियायुक्त-
मुत्पद्यमानमिति व्यपदिश्यते । तस्मादुत्पत्तौ सत्यामुत्पत्तिं प्रतीत्य उत्पद्यमानसिद्धेः उत्पद्यमान-
मेवोत्पद्यते, तच्चोत्पद्यमानमुत्पाद उत्पादयेदिति । उच्यते -
उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा।
कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते ॥ १५ ॥
यदुक्तम्—उत्पत्तिं प्रतीत्य उत्पद्यमानं भवति, तच्चोत्पद्यत इति । ननु विशेषत एतद्वक्तव्यं
स्यात्—अस्योत्पत्तिं प्रतीत्य इदं नामोत्पद्यमानं भवतीति । न चैवमुच्यते । न हि तदुत्पद्यमानं
विशेषतो निर्धारयितुं शक्यते इदं तदुत्पद्यमानमिति, अनुत्पन्नत्वात्तन्निमित्तग्रहणतः । ततश्च
उत्पद्यमानासंभवादुत्पत्तिक्रियापि नास्तीति । कथमसत्यामुत्पत्तौ तां प्रतीत्य उत्पद्यमानं स्यात् ?
तस्मादुत्पद्यमानमुत्पद्यते, तच्च उत्पाद उत्पादयेदित्ययुक्तम् ॥ १५ ॥
अत्राह—अहो बत अहमतीव भवतो दृष्टादृष्टपदार्थनिरपेक्षदात्यन्तास्तिकाद्बिभेमि, यो हि
नाम भवांस्तथागतप्रवचनव्याख्यानव्याजेन दूषणमात्रकौशलमेवात्मनः प्रकटयन् परमर्षिगदित-
मिदंप्रत्ययताप्रतीत्यसमुत्पादलक्षणं परमार्थसत्यं तथागतानां निहन्ति । इह भगवता तथागतेन
प्रकृतीश्वरस्वभावकालाणु नारायण जैमिनिकणादकपिलादितीर्थकरकर्तृवादनिरॉसेन सर्वभावानां तत्त्व-
मादर्शितम्, यदुत अस्मिन् सति इदं भवति, अस्योत्पादादिदमुत्पद्यते, यदुत अविद्याप्रत्ययाः
संस्काराः इत्याद्यविपरीतं प्रतीत्यसमुत्पादं प्रकटयता । तस्य च त्वया नोत्पद्यमानं नोत्पन्नं
नानुत्पन्नमित्यादिना दूषणं विदधता तथागतजनन्याः प्रतीत्यसमुत्पत्तिमातुर्वध एवाचरित इत्येलं
भवता सर्वनास्तिकेन त्वयेति । उच्यते । नाहं सकलदशबलजननीं प्रतीत्यसमुत्पत्तिमातरं
निहन्मि । भवानेव तु परमगम्भीरप्रतीत्यसमुत्पादाधिमुक्तिविरहाद्विपरीतं तदर्थमवधार्य अस्माकमेव
अँधिलयं करोति । ननु च इदं प्रतीत्येदं भवतीत्येवमभिधानेन भगवता तथागतेन निःस्वभाव-
त्वमेव सर्वधर्माणां स्पष्टमावेदितम् । यस्मात्—
पादटिप्पण्यः :
१. T °अणुनायणदि° for अणु नारायणजैमिनिकणादकपिलादि°.
२. T अलं त्वया सार्धं विवादेन for अलं भवता सर्वनास्तिकेन त्वया.
३. Mss. अधिरयं or अधिरैयं for अधिलयं.
म. ९
[पृष्ठम् ६६]
प्रतीत्य यद्यद्भवति तत्तच्छान्तं स्वभावतः ।
[B 160] यो हि पदार्थो विद्यमानः स स्वभावः स्वेनात्मना स्वं स्वभावमनपायिनं बिभर्ति । स
संविद्यमानत्वान्नैयान्यकिंचिदपेक्षते, नाप्युत्पद्यते, इति कृत्वा स्वभावभावाभ्युपगमे सति कुतः
प्रतीत्यसमुत्पाद इति भवतैव स्वभाववतां भावानानभ्युपगच्छता सर्वथा प्रतीत्यसमुत्पाद एव
बाधितो भवति । ततश्च परमधर्मबुद्धदर्शनमपि बाधितं भवति — यः प्रतीत्यसमुत्पादं पश्यति स
धर्मं पश्यति, यो धर्मं पश्यति स बुद्धं पश्यतीत्यागमात् । मया तु यत्प्रतीत्य बीजाख्यं कारणं
यद्भवत्यङ्कुराख्यं कार्यम्, तच्च उभयमपि शान्तं स्वभावविरहितं प्रतीत्यसमुत्पन्नं प्रतिपादयता सर्वथा
भगवतां तथागतानां प्रतीत्यसमुत्पत्तिमाता द्योतिता भवति । यत एवम् —
तस्मादुत्पद्यमानं च शान्तमुत्पत्तिरेव च ॥ १६ ॥
इति स्फुटमवसीयताम् ॥ १६ ॥
अत्राह — यदुक्तम् —
उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा ।
कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते ॥
इति, तदयुक्तम् । यस्मादिदमुत्पद्यमानमित्येव संभवति । तथा हि घटोत्पत्तिं प्रतीत्य घट
उत्पद्यमानो भवति, तं च उत्पद्यमानमुत्पाद उत्पादयतीत्युच्यते । एतदप्ययुक्तम् । यस्मात् —
यदि कश्चिदनुत्पन्नो भावः संविद्यते क्वचित् ।
उत्पद्येत स किं तस्मिन् भाव उत्पद्यतेऽसति ॥ १७ ॥
[B 161] यदि कश्चिदनुत्पन्नः उत्पादात्पूर्वं घटो नाम क्वचित्संविद्येत, स उत्पत्तिक्रियां प्रतीत्योत्पद्येत ।
न चैवं कश्चिदुत्पादात्पूर्वं क्वचिदस्ति । तस्मिन्नसति घटे किमुत्पद्यते ?
अथ स्यात् — यद्युत्पादात्पूर्वं घटो नास्ति, तथापि उत्पन्नः सन् घटसंज्ञां प्रतिलप्स्यते,
तद्भाविन्या संज्ञया न दोष इति । एतदप्ययुक्तम् । यदि हि उत्पत्तिक्रिया प्रवर्तेत, तदा वर्तमानी-
भूतो भावो घटाख्यां प्रतिलभेत । यदा तु अनागतभावासंबन्धेन क्रियाया अप्रवृत्तिः, तदा कुतो
वर्तमानता ? अथ अघटाश्रयेण क्रिया प्रारभ्येत, तद्वक्तव्यम् — योऽसौ अघटः, स किं
भवितुमर्हति पटः, उत नैव किंचित् ? यदि पट उत्पद्यमानः स कथमुत्पन्नः सन् घटो भविष्यतीति ।
अथ नैवं किंचित्, कथं तदाश्रया क्रिया प्रवर्तेत ? कथं वा स उत्पन्नः सन् घटो भवेत् ?
इति सर्वथा भावित्वकल्पनाप्ययुक्ता । तस्मादुत्पद्यमानमप्युत्पादो नोत्पादयतीति सिद्धम् ॥ १७ ॥
अपि च । एवं न युज्यमानायामप्युत्पद्यमानस्योत्पत्तौ भवतो मतमभ्युपेत्योच्यते —
उत्पद्यमानमुत्पादो यदि चोत्पादयेत्त्वयम् ।
उत्पादयेत्तमुत्पादमुत्पादः कतमः पुनः ॥ १८ ॥
१. T om. परमं. २. C घटाश्रयेण for अघटाश्रयेण which is confirmed by T.
[पृष्ठम् ६७]
यद्यपि उत्पद्यमानं पदार्थमुत्पाद उत्पादयेद्भवन्मतेन, इदं तु वक्तव्यम् — तमिदानीमुत्पादः [B 162]
कतमोऽपरः उत्पादमुत्पादयिष्यतीति ॥ १८ ॥
अथ स्यात् — उत्पादस्यापर उत्पादः उत्पादकः परिकल्प्येत, तदा अनवस्थादोषप्रसङ्ग
इत्याह —
अन्य उत्पादत्येनं यद्युत्पादोऽनवस्थितिः ।
एतच्चोक्तम् । अथ नास्यापर उत्पाद इष्यते, नन्वेवं सति विना उत्पादेन उत्पाद उत्पद्यते
इत्येवं प्राप्नोति । ततश्च उत्पादोत्पाद्यानामपि पदार्थानां विनैवोत्पादेन उत्पत्तिरस्तु भावत्वादुत्पाद-
वदिति प्रतिपादयन्नाह —
अथानुत्पाद उत्पन्नः सर्वमुत्पद्यते तथा ॥ १९ ॥
इति ॥ १९ ॥
अपि च । उत्पाद आत्मानं परांश्चोत्पादयतीत्यत्र पक्षे दूषणमेव न वक्तव्यमधुनास्माभिः ।
यस्मादत्र पक्षे दूषणम् —
सतश्च तावदुत्पत्तिरसत्तश्च न युज्यते ।
न सतश्चासत्तश्चेति पूर्वमेवोपपादितम् ॥ २० ॥
नैवासतो नैव सतः प्रत्ययोऽर्थस्य युज्यते ।
इति
न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा ।
इत्यादिना उत्पादो निषिद्ध एव पूर्वम् । ततश्चैवमुत्पादे निषिद्धे उत्पद्यमानमुत्पाद उत्पादयति,
स्वपरात्मानौ वा उत्पादयतीत्यस्याः कल्पनाया नास्त्येवावतार इति कुत एतत्प्रसेत्स्यति — [B 163]
उत्पाद उत्पद्यते, उत्पद्यमानमुत्पद्यते, स्वपरात्मानौ चोत्पादयतीति ॥ २० ॥
किं चान्यत् — इहायमुत्पादः परिकल्प्यमानः निरुध्यमानस्य अनित्यतानुगतस्य वर्तमानस्य
वा भावस्य परिकल्प्यते, अनिरुध्यमानस्य वा अतीतानागतस्यानित्यताविरहितस्य ? उभयथा च
नोपपद्यते इत्याह —
निरुध्यमानस्योत्पत्तिर्न भावस्योपपद्यते ।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥ २१ ॥
तत्र निरुध्यमानस्य वर्तमानस्य विद्यमानत्वादुत्पादो नोपपद्यते । अनिरुध्यमानस्यापि
विनाशरहितस्य अतीतानागतस्य भावसणविलक्षणस्य खपुष्पस्येव नास्त्युत्पाद इति ॥ २१ ॥
एवं भावानामुत्पादाभावं प्रतिपाद्य अतःपरं स्थितिविार्चायते ॥
१. Mss. सदा for यदा.
पृष्ठम् ६८
अत्राह-विद्यत एव भावानामुत्पादः, तद्भावभाविधर्मसद्भावात् । नानुत्पन्नस्य स्थितिः
संभवत्युत्पादभावेन स्थितेर्भावात् । स्थितिरुत्पादभावभाविनी भवति । तस्मादुत्पादोऽप्यस्ति, तद्भाव-
भाविधर्मसद्भावात् । इह यन्नास्ति, न तद्भावभाविधर्मसद्भावः, तद्यथा गगनकुसुमसौरभ्यस्येति ।
उच्यते । स्यादुत्पादः, यदि तद्भावभाविनी स्थितिरेव स्यात् । न त्वस्ति । तदेवम्-
न स्थितभावस्तिष्ठत्यस्थितभावो न तिष्ठति ।
न तिष्ठति तिष्ठमानः कोऽनुत्पन्नश्च तिष्ठति ॥ २२ ॥
तत्र स्थितं न तिष्ठति तत्र स्थितिक्रियाविरोधात् । अस्थितभावोऽपि न तिष्ठति स्थिति-
रहितत्वात् । तिष्ठमानमपि न तिष्ठति स्थितिद्वयप्रसङ्गात्, स्थितास्थितव्यतिरिक्तसंतिष्ठमानाभावाच्च ।
अपि च ।
कोऽनुत्पन्नश्च तिष्ठति ।
इहोत्पादप्रतिषेधात्कोऽसावनुत्पन्नः पदार्थो यस्तिष्ठेदिति सर्वथा नास्ति स्थितिः ॥ २२ ॥
अपि च । इयं स्थितिर्निरुध्यमानस्य भावस्य स्यादनिरुध्यमानस्य वा ? उभयथा च न
युज्यते इति प्रतिपादयन्नाह-
स्थितिर्निरुध्यमानस्य न भावस्योपपद्यते ।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥ २३ ॥
निरुध्यमानस्य निरोधाभिमुखस्य तावद्भावस्य विरोधिनी स्थितिर्न संभवति । यश्चाप्य-
निरुध्यमानः स भाव एव न भवति, कुतस्तस्य स्थितिर्भविष्यति ॥ २३ ॥
अपि च । जरया मरणेन च सर्वे एव भावाः क्षणमपि न त्यज्यन्ते । यदा चैतदेवम्,
तदा जरामरणविरोधिन्याः स्थितेर्भावेषु प्रवृत्त्यवकाश एव नास्तीति प्रतिपादयन्नाह -
जरामरणधर्मेषु सर्वभावेषु सर्वदा ।
तिष्ठन्ति कतमे भावा ये जरामरणं विना ॥ २४ ॥
के हि नाम जरामरणरहिता भावा येषां स्थितिः स्यात् ? तस्मान्नास्त्येव स्थिति-
रित्यभिप्रायः ॥ २४ ॥
यदि च, अस्याः स्थितेरन्या वा स्थितिः स्थित्यर्थं परिकल्प्येत, स्वयं वा स्वात्मानं
स्थापयेत् । उभयथा च न युज्यते इत्याह-
स्थित्यान्यया स्थितेः स्थानं तयैव च न युज्यते ।
उत्पाद्यस्य यथोत्पादो नात्मना न परात्मना ॥ २५ ॥
'अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम् ।' (७.१३) इत्यादिना यथा उत्पाद
आत्मानं न जनयति इत्युक्तम्, एवं स्थितिरपि नात्मानं स्थापयतीति वक्तव्यम् ।
पादटिप्पणी:
१. Mss. उत्पादोऽप्यस्थितभाव° for उत्पादोऽप्यस्ति, तद्भाव°. T. seems to add after अस्ति, तस्मिन् सति सतो धर्मस्य सत्त्वात् as an explanation of तद्भावभाविधर्मसद्भावात्.
पृष्ठम् ६९
अस्थिता स्थितिरैषा चेत्स्वात्मानं स्थापयेत्कथम् ।
स्थिता चेत्स्थापयत्येषा स्थितायां स्थाप्यतेऽथ किम् ॥
इति योज्यम् । यथा च-
अन्य उत्पादयेद्येनं यद्युत्पादोऽनवस्थितिः ।
इत्युत्पादे व्याख्यातम्, एवं स्थितावपि व्याख्येयम् -
अथान्या स्थापयेत्येनां स्थितिर्ह्यनवस्थितिः ।
इति । एवं स्थितिरपि न युक्ता । अत एवोक्तं भगवता -
अस्थिता हि इमे धर्माः स्थितिश्चैषां न विद्यते ।
अस्थितिः स्थितिशब्देन स्वभावेन न विद्यते ॥
न स्थितिर्नापि चो जातिर्लोकनाथेन देशिता
लोकनाथं विदित्वैवं समाधिं तेन जानथा ॥ इति ॥
उक्तं च आर्यसञ्चर्यगाथासु—
आकाशनिश्श्रित समास्त आपखन्द्यो
तन्निश्श्रिता इय मही पृथिवी जगच्च ।
सत्त्वान कर्मउपभोगनिदानमेवं
आकाशथानु कृत चित्तम एतमर्थम् ॥
यावत्-
स्थानम्मयानु अयु धातु जिनेन उक्तो ॥
इति विस्तरः ॥ २५ ॥
अत्राह-विद्येते एव स्थित्युत्पादौ तत्सहचारिधर्मसद्भावात् । इह उत्पादस्थितिलक्षण-
सहचारिणी संस्कृतानामनित्यतास्ति । तस्मात्स्थित्युत्पादावपि स्तः इति । उच्यते । स्यात्
स्थित्युत्पादौ, यदि अनित्यतैव स्यात् । न त्वस्ति । कथमिति ? यस्मात्-
निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते ।
तथापि² निरुध्यमानं किमजातं निरुध्यते ॥ २६ ॥
यदि अनित्यतेति काचित्स्यात्, सा निरुद्धस्य भावस्य अनिरुद्धस्य वा निरुध्यमानस्य
वा स्यात् । तत्र निरुद्धं निरुध्यते इति न युक्तम्, अतीतवर्तमानयोर्विरोधात् । अनिरुद्धमपि न
युक्तम्, निरोधविरहितत्वात्, यदनिरुद्धमेव तत्कथं निरुध्यत इति परस्परविरोधाच्च । तथापि
निरुध्यमानं न निरुध्यते इत्यनेन संबन्धः । निरुध्यमानमपि न निरुध्यते निरुध्यमानाभावात्,
पादटिप्पणी:
१. T seems to read आर्यसंगीतिगाथासु for आर्यसञ्चर्य°. २. The portion from तथापि up to परस्परविरोधाच्च is missing in Mss. It is restored from T.
[७०] मध्यमकशास्त्रे [७.२७-
निरोधद्वयप्रसङ्गाच्च । यतश्चैवं त्रिष्वपि कालेषु निरोधासंभवः, तस्मान्नास्त्येव निरोध इति
कुतस्तत्सहचारिस्थित्युत्पादसंभवः स्यात् ? अपि च । प्रागुत्पादप्रतिषेधादसंभव एव निरोधस्येत्याह --
किमजातं निरुध्यते ।
इति ॥ २६ ॥
5 अपि च । अयं निरोधः स्थितस्य वा भावस्य स्यादस्थितस्य वा ? उभयथा च न
युज्यते इत्याह —
स्थितस्य तावद्भावस्य निरोधो नोपपद्यते ।
स्थितस्य निरोधविरुद्धस्य नास्ति निरोधः ।
नास्थितस्यापि भावस्य निरोध उपपद्यते ॥ २७ ॥
10 अस्थितस्य अभावस्य अविद्यमानस्य निरोधो नास्ति, इति सर्वथा नास्ति निरोधः ॥२७॥
किं चान्यत् । यदि इह निरोधः स्यात्, स तयैवावस्थया तस्या एवावस्थायाः स्यादन्यया
वा अन्यस्या अवस्थायाः स्यात् । सर्वथा च नोपपद्यते इति प्रतिपादयन्नाह-
तयैवावस्थयावस्था न हि सैव निरुध्यते ।
B 169 अन्ययावस्थयावस्था न चान्यैव निरुध्यते ॥ २८ ॥
15 तयैव तावत्क्षीरावस्थया सैव क्षीरावस्था न निरुध्यते, स्वात्मनि क्रियाविरोधात् । नाप्य-
न्यया दध्यवस्थया क्षीरावस्था निरुध्यते । यदि हि क्षीरदध्यवस्थयोर्यौगपद्यं स्यात्, स्यात्तयोर्विनाश्य-
विनाशकभावः । न तु दध्यवस्थायां क्षीरावस्था अस्ति । यदा च नास्ति, तदा कामसतीं
विनाशयेत् ? यदि विनाशयेत्, खरविषाणतीक्ष्णतामपि विनाशयेत् । तस्मादन्ययाप्यवस्थया
नैवान्यावस्था निरुध्यते ॥ २८ ॥
20 अत्राह-यद्यपि तयैवावस्थया सैवावस्था, अन्यया वा अवस्था अन्यावस्था न निरुध्यते,
तथापि क्षीरावस्थायास्तावनिरोधोऽस्ति, ततश्च उत्पादोऽपि स्यादिति । उच्यते । अहो बत अति-
जडतामात्मनो भवान् प्रकटयति । ननु च पूर्वोक्तेन न्यायेन
यदैवं सर्वधर्माणामुत्पादो नोपपद्यते ।
इत्युक्तम्,
25 तदैवं सर्वधर्माणां निरोधो नोपपद्यते ॥ २९ ॥
इति स्फुटतरमेव प्रतिपादितं भवति ॥ २९ ॥
अपि च । निरोधो नाम यदि कश्चित् स्यात्, स सतो वा भावस्य स्यादसतो वा । तत्र-
B 170 सतश्च तावद्भावस्य निरोधो नोपपद्यते ।
स्वभावान्नप्रच्युतस्य भावस्य निरोधो न युक्तः । यस्मात् -
एकत्वे न हि भावश्च नाभावश्चोपपद्यते ॥ ३० ॥
-७. ३२ ] संस्कृतपरीक्षा सप्तमं प्रकरणम् । [७१]
निरोधो हि नाम अभावः । स यस्य भवति, स नैव भवति । ततश्च सतो भावस्य
निरोध इति ब्रुवता भावाभावयोरेकाधिकरणता अभ्युपगता भवति । एकत्वे सति उभयं न
युज्यते । यदि तदानीं भावः स्यात्, तदा निरोधेनाभावेनावेशोद्भावव्यपदेशोऽयुक्तः¹ । अथ
अभावः, सोऽप्यस्य न युज्यते, अभावविरोधिना भावरूपेणावियोगात् । तस्मादेकत्वे सति
भावाभावयोः स पदार्थो नैव भावो नाप्यभाव इति युज्यते । अथवा, परस्परविरुद्धयोरालोकान्धकार- 5
वदेकत्वे सति न हि भावश्च नाभावश्चोपपद्यते । एवं तावत्सतो भावस्य निरोधो न युक्तः ॥ ३० ॥
इदानीम्-
असतोऽपि न भावस्य निरोध उपपद्यते ।
अविद्यमानस्याभावस्य न विनाशोऽस्ति वन्ध्यातनयस्येव, अविद्यमानत्वात् । अत एवाह-
न द्वितीयस्य शिरसच्छेदर्न विद्यते यथा ॥ ३१ ॥ 10
प्रसिद्धासतस्त्यैव ²नृणां द्वितीयस्य शिरसो दृष्टान्तत्वेनोपादानान्निर्देशापूर्णत्वान्नास्तीति³ B 171
नोपात्तम् । तदेवमसतो भावस्य निरोधो न संभवति, सतोऽपि न । यश्चोभयथापि न संभवति, स
केनात्मना स्थितः ? नास्त्येव निरोध इति प्रतीयताम् ॥ ३१ ॥
किं चान्यत् । यदि निरोधो नाम भावानां निरोधक इति कल्प्यते, तस्येदानीं किमन्यो
निरोध इष्यते, उत न ? यदि इष्यते तन्न युज्यते । 15
न स्वात्मना निरोधोऽस्ति निरोधो न परात्मना ।
कथं पुनर्नार्स्तीति प्रतिपादयन्नाह-
उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥ ३२ ॥
तत्र यथा-
अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम् । 20
इत्यादिना उत्पादः स्वात्मानं नोत्पादयति, एवं निरोधोऽपि स्वात्मानं न निरोधयति ।
कथमिति ? उच्यते-
⁴अनिरुद्धो निरोधोऽयं स्वात्मानं नाशयेत्कथम् ।
अथ नष्टो नाशयति नष्टे किं नाश्यते पुनः ॥
इति समुत्पादेन वक्तव्यम् । एवं च स्वात्मना न निरोधोऽस्ति । निरोध इदानीं परात्मनापि 25 B 172
नास्ति । कथम् ? तत्र यथा उत्पादे गदितम्- 'अन्य उत्पादयत्येनम्' (७.१९) इत्यादि, एवं
निरोधेऽपि वक्तव्यम्-
पादटिप्पण्यः (Footnotes):
1 Mss. आवेशोद्भावव्यपदेशो युक्तः for आवेशद्भावव्यपदेशोऽयुक्तः which is confirmed by
T. 2 T seems to om. नृणां. 3 Mss. and P read दृष्टान्तत्वेनोपादानात्परिपूर्णत्वान्निर्देशः
सेति नोपात्तम्. Our text is confirmed by T. 4 This stanza and the following,-
corresponding to 7.13 and 7.19, do not figure as part of the text of Madhya-
makakārikā in T.
पृष्ठम् ७२
अन्यो विनाशयेन्नैनं नाशो यद्यनवस्थितिः । •
अथाविनाशो नष्टोऽयं सर्वं नश्यतु ते तथा ॥
इति । तदेवं परात्मनापि निरोधो न संभवतीति नास्ति निरोधस्य निरोधः ॥
अथ मन्यसे—नास्त्येव निरोधस्य निरोध इति, तदयुक्तम् । यदि हि निरोधस्य निरोधो न
स्यात्, तदा निरोधसहितत्वात्संस्कृतलक्षणमवहीयेत । तदेवं यदि विनाशस्य विनाशः परिकल्प्यते,
तथापि न युक्तो विनाशः । अथ न परिकल्प्यते, तथापि न युक्त इति । कथं विदानीं विनाशो
योक्ष्यते परस्य ? अथ स्यात्—तथापि एवमेव विचारे सति विनाशो भवतोऽपि न युज्यते, ततः य
उभयोर्दोषः, न तेनैकश्चोद्यो भवतीति । उच्यते । नैवेदं चोद्यं ममापतति । किं कारणम् ? ये
स्वात्मना निःस्वभावा भावाः, ते च निःस्वभावा एव सन्तो बालानामिदंसत्याभिनिवेशिनां
व्यवहारपथमुपयान्ति अविचारप्रसिद्धिनैव न्यायेनेति तेषु नास्ति यथोदितविचारावतारोऽस्माकम् ।
मायास्वप्नगन्धर्वनगरादिवत्तु लौकिकाः पदार्था निरुपपत्तिका एव सन्तः सर्वलोकस्याविद्या-
तिमिरोपहतमतिनयनस्य प्रसिद्धिमपगता इति परस्परापेक्षयैव केवलं प्रसिद्धिमपगता बालैरभ्युप-
गम्यन्ते । यथोक्तं शतके –
अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकैः ।
धूमिकान्तःप्रतिश्रुत्कामरीच्यभ्रैः समो भवः ॥
( चतुःशतक – १३.२५ )
तस्मात्सति उत्पादे उत्पाद्यम्, सति उत्पाद्ये उत्पादः । सति निरोधे निरोध्यम्, सति
निरोध्ये निरोधः, इत्येवं लौकिकस्य व्यवहारस्याभ्युपगमात्कुतोऽस्मत्पक्षे समप्रसङ्गिता भवितुमर्हति ?
यस्तु विनाशस्य अहेतुकत्वमभ्युपेत्य क्षणिकतां संस्काराणामाह, तस्य निर्हेतुकत्वात्
खपुष्पवद्विनाशाभावात् कुतः क्षणिकत्वं भावानां सेत्स्यति, कुतो विनाशरहितानां संस्कृतत्वमपीति
सर्वमेव असमञ्जसं तस्य जायते । जातिप्रत्ययं जरामरणं संस्कृतलक्षणानां च संस्कारस्कन्धान्तर्भावं
वर्णयता भगवता ननु सहेतुकत्वं स्पष्टमादर्शितं विनाशस्य । जातिमात्रापेक्षत्वाच्चास्य क्षण-
भङ्गोऽपि सुखसाध्य इति सर्वं सुस्थं जायते ॥
अथ स्यात्—विनाशो हि नाम अभावः, यश्च अभावः, किं तस्य हेतुना कर्तव्यम् ?
अतो निर्हेतुको विनाश इति । ननु च भावेऽपि हेतुभावप्रसङ्गो भवति । भावो हि नाम
विद्यमानः, यश्च विद्यमानः तस्य च किं हेतुना प्रयोजनम् ? न हि जातं पुनरपि जन्यते ।
तस्मात्सर्वत्रैव हेतुभावप्रसङ्गादयुक्तमेतत् ॥
अपि च । यथा उत्पादः सहेतुकः पूर्वभावात्पश्चाच्च भावात् , एवं विनाशोऽपीष्यताम् ।
विनाशो हि न सर्वदा भवति, उत्पादात्पूर्वमभावात्पश्चाच्च भावात् । यच्चोच्यते—यश्चाभावः तस्य
पादटिप्पण्यः
१ Mss. परस्परम् for परस्य which is confirmed by T.
२ T seems to om. किं कारणम्.
३ Mss. °मलिनचेतसः for °मतिनयनस्य which is confirmed by T.
४ T and P तस्यैवं किं for तस्य च किं.
पृष्ठम् ७३
किं हेतुना कर्तव्यमिति, तदयुक्तम् । यस्मान्न वयं विनाशस्य हेतुना किंचित्क्रियमाणमिच्छामः, किं
तर्हि विनाश एव क्रियते इति वर्णयामः । नन्वेवं सति क्रियमाणत्वाद्दिनाशोऽपि भावः प्राप्नोतीति
चेत्, इष्यत एवैतत् । विनाशो हि स्वरूपापेक्षया भावः, रूपादिधर्मनिवृत्तिस्वभावत्वात्तु न भावः ।
अपि च । मरणमपि द्विविधकार्यप्रत्युपस्थापनं संस्कारविध्वंसनं च करोति । अपरिज्ञानानुपच्छेदं (?)
चेत्यागमात् कथं न सहेतुको विनाशः ? अपि च । कल्पिताभावलक्षणायाश्च शून्यतायाः परेण
भावरूपतामभ्युपगच्छता कथमभावस्य भावत्वं नाभ्युपगतं भवति ? भावत्वाच्च कथमसंस्कृतत्वं
शून्यतायाः स्यात् ? अतः सर्वमभ्युपेतं विहीयते भवता । अत एव वक्ष्यति –
भवेदभावो भावश्च निर्वाणमुभयं कथम्
पृष्ठम् ७४
७४ मध्यमकशास्त्रे [७. ३४-
यथा मायादयः स्वभावेनानुत्पन्ना अविद्यमाना मायादिशब्दवाच्या मायादिविज्ञानगम्याश्च
लोकस्य, एवमेतेऽपि लोकप्रसिद्धमात्रेण उपादादयः स्वभावेन अविद्यमाना अपि भगवता
तथाविधविनेयजनानुग्रहचिकीर्षुणा निर्दिष्टा इति । अत एवोक्तम्—
त्वक्स्नायुमांसास्थिसमुच्चये च
उत्पाद्य संज्ञां मम पत्निरिष्टा ।
मूढा हि बाला जनयन्ति रागं
स्त्रियो न जानन्ति यथैव मायाम् ॥
यथा कुमारी सुपिनान्तरस्मि
सा पुत्र जातं च मृतं च पश्यति ।
जातेऽतितुष्टा मृति दौर्मनस्थिता
तथोपमान् जानथ सर्वधर्मान् ॥
[समाधिराजसूत्र - ९.१७]
यथैव गन्धर्वनगरं मरीचिका
यथैव माया सुपिनां यथैव ।
स्वभावशून्या तु निमित्तभावना
तथोपमान् जानथ सर्वधर्मान् ॥
[समाधिराजसूत्र - ९.११]
संस्कृतासंस्कृतधर्मविविक्ता
नास्ति विकल्प न तेषमृषीणाम् ।
सर्वगतीषु असंस्कृतप्राप्ता
दृष्टिगतेहि सदैव विविक्ता ॥
नित्यमरक्त अदुष्ट अमूढाः
तस्य सभावसमाहितचित्ता ।
एष समाधिर्बली बलवन्तो
यो इमु जानति शून्यकधर्मान् ॥ इति ॥ ३४ ॥
[समाधिराजसूत्र - ३७.२७-२८]
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् ॥
१. P संस्कृतासंस्कृतसर्वविविक्ता for the line.
पृष्ठम् ८
८
कर्मकारकपरीक्षा अष्टमं प्रकरणम् ।
अत्राह — विद्यन्त एव संस्कृतस्वभावतो विज्ञानादयः संस्कृता धर्माः, तद्धेतुककर्मकारक-
सद्भावात् । उक्तं हि भगवता —
अविद्यानुगतोऽयं भिक्षवः पुरुषपुद्गलः पुण्यानपि संस्कारानभिसंस्करोति, अपुण्यानपि,
आनिङ्ग्यानपि संस्कारानभिसंस्करोति ।
इत्यादिना कर्मणां कारको व्यपदिष्टः, तत्कर्मफलं च विज्ञानादिकमुपदिष्टम् । यस्य च
कारकोऽस्ति, तदस्ति, तद्यथा घटः । यन्नास्ति, न तस्य कारकः, तद्यथा कूर्मरोमप्रावारस्येति ।
उच्यते । स्याद्विज्ञानादिकं संस्कृतं यदि तस्य निष्पादककर्मकारको स्याताम् । न तु स्तः ।
यस्मात् —
सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम् ।
कारको नाप्यसद्भूतः कर्मासद्भूतमीहते ॥ १ ॥
तत्र करोतीति कारकः कर्ता । कुर्व्वाणस्यैव किंचित् कारकव्यपदेशो नाकुर्वाणस्य । तच्च
करणं सद्भूतस्य वा कर्तुः परिकल्प्येत, असद्भूतस्य वा, सदसद्भूतस्य वा ? क्रियते इति कर्म
कर्तुरीप्सिततमम् [ पा० १.४.४९ ] । तदपि त्रिविधम्, सद्भूतमसद्भूतं सदसद्भूतं च । तत्र
सद्भूतः कारकः क्रियायुक्तः सद्भूतं क्रियायुक्तं कर्म न करोतीत्येका प्रतिज्ञा । इदानीमसद्भूतोऽपि
क्रियाकारकरहितोऽसद्भूतं क्रियारहितं कर्म न करोतीत्यपरा प्रतिज्ञा ॥ १ ॥
तत्राद्यां प्रसाधयितुमाह—
सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।
क्रियानिबन्धनत्वात्कारकव्यपदेशस्य, करोति क्रियायुक्त एव कश्चित्सद्भूतः कारकव्यपदेशं
लभते, ततश्च तस्यैवंविधस्य क्रियाहेतुकलब्धकारकव्यपदेशस्य अपरा क्रिया नास्ति यया कर्म
कुर्यात् । क्रियाभावाच्च यदा कारकः कर्म न करोति, तदा कारकनिरपेक्षमकर्तृकं कर्म स्यात् ।
न चाकर्तृकं कर्म संभवति वन्ध्यासूनोरिव घटकरणमिति । एवं तावत्
सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।
इति दोषप्रसङ्गात् सद्भूतः कारकः कर्म न करोति ।
इदानीं सद्भूतमपि कर्म कारको न करोतीति प्रतिपादयन्नाह —
सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः ॥ २ ॥
सद्भूतं नाम कर्म क्रियायुक्तम् । तस्येदानीं क्रियानिबन्धनलब्धकर्मव्यपदेशस्य अपरा क्रिया
नास्ति यया कर्म क्रियेतेति । एवं तावत्सद्भूतस्य कर्मणः क्रिया नास्ति । यदा नास्ति परा क्रिया,
तदा कारकस्तत्सद्भूतं कर्म नैव करोति । यदा च न करोति कर्मणो द्वितीयक्रियाभावात्, तदा
१. Mss. घटाः for घटः.
७६ मध्यमशास्त्रे [ ८. ३-
अकर्मक एव अविद्यमानकर्मक एव तस्य कर्मणः कारकः स्यात् । न चैतद्युक्तम् । न हि
अकृतानन्तर्यकर्मणः आनन्तर्यकर्मकारकत्वं दृष्टमिति ॥ २ ॥
B 182 एवं सद्भूतः कारकः सद्भूतं कर्म न करोति इति संसाध्य इदानीं यथा असद्भूतमपि
कर्म असद्भूतः कारको न करोति तथा प्रतिपादयन्नाह -
करोति यद्यसद्भूतोऽसद्भूतं कर्म कारकः ।
अहेतुकं भवेत्कर्म कर्ता चाहेतुको भवेत् ॥ ३ ॥
असद्भूतः कारको यः क्रियारहितः । क्रिया च कारकव्यपदेशे हेतुरिति क्रियारहितः
कारकोऽपि निर्हेतुकः स्यात् । कर्माप्यसद्भूतं निर्हेतुकं स्यात् ॥ ३ ॥
सति च अहेतुकवादाभ्युपगमे कार्यं च कारणं च सर्वमपोदितं स्यादित्याह-
10 हेतावसति कार्यं च कारणं च न विद्यते ।
सत्येव हि हेतोरभ्युपगमे हेतुना यन्निष्पाद्यते तत् कार्यम्, तस्य च यो निष्पादकः,
तत्कारणमिति युज्यते । तद्यथा घटस्य मृद् हेतुः, घटः कार्यम्, तस्य च चक्रादयः सहकारिकार-
णम् । अहेतुकवादाभ्युपगमे तु हेत्वनपेक्षत्वान्मण्डूकजटाशिरोमणिमयघटवन्न स्यादयं घटः ।
असति घटे कुतस्तत्कारणमिति । एवम्-
15 हेतावसति कार्यं च कारणं च न विद्यते ।
ततश्च-
तदभावे क्रिया कर्ता करणं च न विद्यते ॥ ४ ॥
B 183 तदभावे कार्यकारणाभावे, किं कुर्वाणस्य क्रिया संभवेत्, कस्यां वा क्रियायां कुम्भकारस्य
स्वातन्त्र्यात्कर्तृत्वं स्यात् ? न चापि मृदां तादात्म्यप्रवृत्त्या साधकतमत्वेन करणत्वं युज्यत इति ।
20 एवं तावत्-
तदभावे क्रिया कर्ता करणं च न विद्यते ॥
ततश्च-
धर्माधर्मौ न विद्येते क्रियादीनामसंभवे ।
इह यदा देवदत्तः प्राणातिपातविरतिक्रियास्वातन्त्र्यात्कर्ता सन् स्वतन्त्रकार्येण करण-
25 भूतेन प्राणातिपातविरतिक्रियां करोति, तदास्य धर्म उपजायते । एवं दशास्वपि कुशलेषु कर्म-
पथेषु कुशलक्रियानिष्पाद्येषु रत्नत्रयमातापितृतदन्यपूज्यपूजादिलक्षणेषु च कुशलधर्मप्रारम्भेषु
योज्यम् । एवमधर्मेऽपि प्राणातिपातादिलक्षणे कुशलविपर्ययेण क्रियाकर्तृकरणानामभावे सति
कर्मणामभावप्रसङ्ग उद्भावनीयः ।।
यदा चैवं धर्माधर्मौ न संभवतः, तदा तत्फलमपि नास्त्येवेति प्रतिपादयन्नाह -
१. Mss. मृदा for मृद्. २. T आकाशपुष्प ° for मण्डूकजटाशिरोमणि °. ३. Mss. सति for
असति.
-८. ७] कर्मकारकपरीक्षा अष्टमं प्रकरणम् । ७७
धर्मे चासत्यधर्मे च फलं तज्जं न विद्यते ॥ ५ ॥
धर्माधर्मजनितमिष्टानिष्टफलं सुगतिदुर्गल्योर्धर्माधर्मयोरभावे सति न स्यात् ॥ ५ ॥
ततश्च-
फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते ।
मार्गः
यदि हि फलमिष्टानिष्टं स्यात्, स्याल्लौकिकस्य मार्गस्य ध्यानाख्यसमाधिसमापत्तिलक्षणं B 184
स्वर्गः, तदानीं तदर्थं लौकिकमार्गभावना ज्यायसी स्यात्, कुँगतिगमनकर्मपथविरतिसाफल्यं च
स्यात् । यदि च मोक्षलक्षणं निर्वाणं फलं स्यात्, तदर्थं लोकोत्तराष्टाङ्गमार्गभावनासाफल्यं
स्यात् । यदा तु फलं नास्ति, तदा-
फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते । 10
मार्गः ।
किं च । एवं फलाभावे सति -
सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते ॥ ६ ॥
या अपि ह्येताः कृषिवणिज्यबल( भृति ? ) गतादिकाः क्रियाः फलार्थं प्रारभ्यन्ते,
ता अपि सर्वाः फलाभावे सति नोपपद्यन्त इति । एवं सर्वक्रियाणां नैरर्थक्यं प्रसज्यते भवताम् । 15
न चासां नैरर्थक्यम् । तस्मान्निरवशेषदोषविषवृक्षारभूतोऽयं स्वर्गापवर्गोपवादी नरकादिमहापाय- B 185
प्रपातैर्तनहेतुः दृष्टादृष्टहेतुपदार्थविरोधीति कृत्वा, सद्भिः असद्भूतः कारकोऽसद्भूतं कर्म करोतीति
पक्षो निकृष्ट एवेति त्याज्यः ॥ ६ ॥
तदेवं प्रतिज्ञाद्वयं संसाध्य इदानीमुभयरूपः कारकः, उभयरूपमपि कर्म न करोती-
त्याह- 20
कारकः सदसद्भूतः सदसत्कुरुते न तत् ।
तत्र यदेतदसद्भूतं कर्म क्रियायुक्तमक्रियायुक्तं च, तत् सदसद्भूतः कारको न करोतीति ।
यस्मात् --
परस्परविरुद्धं हि सच्चांसच्चैकतः कुतः ॥ ७ ॥
एकः पदार्थः एकस्मिन् काले क्रियायुक्तश्चाक्रियायुक्तश्चेति न युज्यत एवैतत् । ततश्च 25
सदसद्भूतोऽपि कारकः सदसद्भूतं कर्म न करोति, अविद्यमानत्वादित्यभिप्रायः ॥ ७ ॥
एवं समे पक्षे दूषणमुद्भाव्य विषमपक्षस्यापि निराचिकीर्षया आह -
१. T om. इष्टानिष्टं. २. T om. कुगतिगमनकर्मपथविरतिसाफल्यं च स्यात्. ३. T om.
°साफल्यं. ४. T om. °विषवृक्ष° ५. Mss. सन्मार्गापवर्गावादी for स्वर्गापवर्गापवादी which is
confirmed by T. ६. T om. °वर्तन°. ७. Mss. न हि for न तत्.
पृष्ठम् ७८
७८ मध्यमकशास्त्रे [८. ८-
सता च क्रियते नासन्नासता क्रियते च सत्।
कर्त्रा
सता सद्भूतेन तावत्कर्त्रा क्रियायुक्तेन असद्भूतमसत्क्रियायुक्तं कर्म न क्रियते। यस्मात्—
सर्वे प्रसज्यन्ते दोषास्तत्र त एव हि ॥ ८ ॥
B 186 5 सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम्। [८.२]
इत्येवं तावत् सद्भूतः कारकः कर्म न करोति, नाप्यसद्भूतं कर्म क्रियते। असद्भूतं हि कर्म अहेतुकं
भवेत्। ततश्च—
हेतावसति कार्यं च कारणं च न विद्यते। [८.४]
इत्यादिना सर्वं दूषणमापद्यते। तस्मात्पूर्वोक्तैरेव हेतुभिर्दूषितत्वादस्य विषमपक्षस्य न
10 पुनर्हेतोरुपादानमनुष्ठीयते। यथा चैतत् सता कर्त्रा असत्कर्म न क्रियते इति प्रतिपादितम्,
एवमसता कर्त्रा अक्रियायुक्तेन सत्कर्म न क्रियते इति व्याख्येयमुक्तपन्थानूसारेण ॥ ८ ॥
एवं तावद्विपमपक्षे एकैकपदपरामर्शेन दूषणमभिधाय इदानीमेकैकस्य पदस्य पदद्वय-
परामर्शेन दूषणाभिधानमाह—
नासद्भूतं न सद्भूतः सदसद्भूतमेव वा।
15 करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥ ९ ॥
स कारकः सद्भूतः असद्भूतं कर्म सदसद्भूतमेव वा न करोतीति। कथमित्याह — पूर्वोक्तैरेव
हेतुभिरिति। तत्र 'सद्भूतस्य क्रिया नास्ति' इत्यादिना सद्भूतः कारको न करोति। असद्भूतर्माप
कर्म न क्रियते 'अहेतुकं भवेत्कर्म' 'हेतावसति कार्यं च' इत्यादिना विहितदोषात्। सदसद्भूत-
मपि कर्म न क्रियते—
20 परस्परविरुद्धं हि सचासच्चैकतः कुतः [८.७]
इति वचनात्। एवं तावत्सद्भूतः कारकोऽसद्भूतं सदसद्भूतं च कर्म न करोति ॥ ९ ॥
B 187 इदानीमसद्भूतोऽपि कारकः सद्भूतं कर्म सदसद्भूतं च कर्म न करोतीत्याह —
नासद्भूतोऽपि सद्भूतं सदसद्भूतमेव वा।
करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥ १० ॥
25 असद्भूतः कारको निर्हेतुको भवेत्। 'हेतावसति कार्यं च' इत्यादिना उक्तदोषादसद्भूतः
कारको न करोति।
सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः। [८.२]
इति प्रसङ्गात् सद्भूतं कर्म न क्रियते। सदसद्भूतमपि कर्म न क्रियते,
परस्परविरुद्धं हि सचासच्चैकतः कुतः। [८.७]
30 इति वचनात् ॥ १० ॥
पृष्ठम् ७९
-८. १२] कर्मकारकपरीक्षा अष्टमं प्रकरणम्। ७९
इदानीं सदसद्भूतोऽपि कारकः एकैक एवोभयरूपः सन् यथा सद्भूतंमसद्भूतं च भिन्नसंकेतं
कर्म न करोति तथा प्रतिपादयन्नाह—
करोति सदसद्भूतो न सन्नासच्च कारकः।
कर्म तत्तु विजानीयात्पूर्वोक्तैरेव हेतुभिः ॥ ११ ॥
परस्परविरुद्धं हि सचासच्चैकतः कुतः। [८.७] 5 B 188
इति वचनात्सदसद्भूतः कारको न करोति।
सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः। [८.२]
इति प्रसङ्गादसद्भूतं कर्म न क्रियते। असद्भूतमपि कर्म अहेतुकं 'हेतावसति कार्यं च'
इत्यादिनोक्तदोषान्न क्रियते। यतश्चैवं समपक्षेषु विषमपक्षेषु च कर्तुः कर्मणश्च सर्वथा सिद्धिरयुक्ता,
तस्माद्यदुक्तं विद्यन्त एव विज्ञानादयः संस्कृता धर्माः संस्कृतस्वभावाः तद्धेतुककर्मकारक सद्भावादिति, 10
तदयुक्तम् ॥
अत्राह — किमवधारितमेतद्भवता न सन्ति भावा इति ? न हि। भवतस्तु सस्वभाव-
वादिनः स्वभावस्य भावानां वैधुर्यात्सर्वभावापवादः संभाव्यते। वयं तु प्रतीत्योत्पन्नत्वात्सर्वभावानां
स्वभावमेवनोपलभामहे, तत्कस्यापवादं करिष्यामः ? यथोक्तमार्यरत्नरावल्याम्—
मरीचि तोयमित्येतदिति मत्वागतोऽत्र सन्। 15
यदि नास्तीति तत्तोयं गृह्णीयान्मूढ एव सः ॥
मरीचिप्रतिमं लोकमेवमस्तीति गृहतः।
नास्तीति चापि मोहोऽयं सति मोहे न मुच्यते ॥
अज्ञानकल्पितं पूर्वं पश्चात्त्वत्त्वार्थनिर्णये।
यदा न लभते भावमेवाभावस्तदा कुह ॥ इति ॥ ११ ॥
तदेवं निःस्वभावानां सर्वभावानां कुतो यथोक्तप्रकारसिद्धिः ? तस्माल्लौकिकं विपर्यास- 20 B 189
मभ्युपेत्य सांवृतानां पदार्थानां मरीचिकाजलकल्पनामिदंप्रत्ययतामात्रामभ्युपगमेनैव प्रसिद्धिरित्यवे-
त्याह —
प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम्।
कर्म प्रवर्तते, नान्यत्पश्यामः सिद्धिकारणम् ॥ १२ ॥ 25
इह अकुर्वाणस्य कर्मनिरपेक्षस्य कारकत्वाभावात् कर्मापेक्ष्य कारकस्य कारकत्वं भवति ।
कारकेण चाक्रियमाणस्य कस्यचित्कर्मत्वाभावात् क्रियमाणस्यैव कर्मव्यपदेशात्, तं कारकं
प्रतीत्य कर्म प्रवर्तते इत्येवं कर्मकारकयोः परस्परापेक्षिकीं सिद्धिं मुक्त्वा नान्यत्सिद्धिकारणं
पश्यामः ॥ १२ ॥
यथा च कर्मकारकयोः परस्परापेक्षिकी सिद्धिः, एवमन्येषामपि भावानामित्यतिदिशन्नाह—
१. Mss. परिचिन्तोयं for मरीचिं तोयं which is confirmed by T. २. Mss. कारणेन for
कारकेण which is confirmed by T.