सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 53, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 53

७६ मध्यमशास्त्रे [ ८. ३-
अकर्मक एव अविद्यमानकर्मक एव तस्य कर्मणः कारकः स्यात् । न चैतद्युक्तम् । न हि
अकृतानन्तर्यकर्मणः आनन्तर्यकर्मकारकत्वं दृष्टमिति ॥ २ ॥
B 182 एवं सद्भूतः कारकः सद्भूतं कर्म न करोति इति संसाध्य इदानीं यथा असद्भूतमपि
कर्म असद्भूतः कारको न करोति तथा प्रतिपादयन्नाह -
करोति यद्यसद्भूतोऽसद्भूतं कर्म कारकः ।
अहेतुकं भवेत्कर्म कर्ता चाहेतुको भवेत् ॥ ३ ॥
असद्भूतः कारको यः क्रियारहितः । क्रिया च कारकव्यपदेशे हेतुरिति क्रियारहितः
कारकोऽपि निर्हेतुकः स्यात् । कर्माप्यसद्भूतं निर्हेतुकं स्यात् ॥ ३ ॥
सति च अहेतुकवादाभ्युपगमे कार्यं च कारणं च सर्वमपोदितं स्यादित्याह-
10 हेतावसति कार्यं च कारणं च न विद्यते ।
सत्येव हि हेतोरभ्युपगमे हेतुना यन्निष्पाद्यते तत् कार्यम्, तस्य च यो निष्पादकः,
तत्कारणमिति युज्यते । तद्यथा घटस्य मृद् हेतुः, घटः कार्यम्, तस्य च चक्रादयः सहकारिकार-
णम् । अहेतुकवादाभ्युपगमे तु हेत्वनपेक्षत्वान्मण्डूकजटाशिरोमणिमयघटवन्न स्यादयं घटः ।
असति घटे कुतस्तत्कारणमिति । एवम्-
15 हेतावसति कार्यं च कारणं च न विद्यते ।
ततश्च-
तदभावे क्रिया कर्ता करणं च न विद्यते ॥ ४ ॥
B 183 तदभावे कार्यकारणाभावे, किं कुर्वाणस्य क्रिया संभवेत्, कस्यां वा क्रियायां कुम्भकारस्य
स्वातन्त्र्यात्कर्तृत्वं स्यात् ? न चापि मृदां तादात्म्यप्रवृत्त्या साधकतमत्वेन करणत्वं युज्यत इति ।
20 एवं तावत्-
तदभावे क्रिया कर्ता करणं च न विद्यते ॥
ततश्च-
धर्माधर्मौ न विद्येते क्रियादीनामसंभवे ।
इह यदा देवदत्तः प्राणातिपातविरतिक्रियास्वातन्त्र्यात्कर्ता सन् स्वतन्त्रकार्येण करण-
25 भूतेन प्राणातिपातविरतिक्रियां करोति, तदास्य धर्म उपजायते । एवं दशास्वपि कुशलेषु कर्म-
पथेषु कुशलक्रियानिष्पाद्येषु रत्नत्रयमातापितृतदन्यपूज्यपूजादिलक्षणेषु च कुशलधर्मप्रारम्भेषु
योज्यम् । एवमधर्मेऽपि प्राणातिपातादिलक्षणे कुशलविपर्ययेण क्रियाकर्तृकरणानामभावे सति
कर्मणामभावप्रसङ्ग उद्भावनीयः ।।
यदा चैवं धर्माधर्मौ न संभवतः, तदा तत्फलमपि नास्त्येवेति प्रतिपादयन्नाह -
१. Mss. मृदा for मृद्. २. T आकाशपुष्प ° for मण्डूकजटाशिरोमणि °. ३. Mss. सति for
असति.


-८. ७] कर्मकारकपरीक्षा अष्टमं प्रकरणम् । ७७
धर्मे चासत्यधर्मे च फलं तज्जं न विद्यते ॥ ५ ॥
धर्माधर्मजनितमिष्टानिष्टफलं सुगतिदुर्गल्योर्धर्माधर्मयोरभावे सति न स्यात् ॥ ५ ॥
ततश्च-
फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते ।
मार्गः
यदि हि फलमिष्टानिष्टं स्यात्, स्याल्लौकिकस्य मार्गस्य ध्यानाख्यसमाधिसमापत्तिलक्षणं B 184
स्वर्गः, तदानीं तदर्थं लौकिकमार्गभावना ज्यायसी स्यात्, कुँगतिगमनकर्मपथविरतिसाफल्यं च
स्यात् । यदि च मोक्षलक्षणं निर्वाणं फलं स्यात्, तदर्थं लोकोत्तराष्टाङ्गमार्गभावनासाफल्यं
स्यात् । यदा तु फलं नास्ति, तदा-
फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते । 10
मार्गः ।
किं च । एवं फलाभावे सति -
सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते ॥ ६ ॥
या अपि ह्येताः कृषिवणिज्यबल( भृति ? ) गतादिकाः क्रियाः फलार्थं प्रारभ्यन्ते,
ता अपि सर्वाः फलाभावे सति नोपपद्यन्त इति । एवं सर्वक्रियाणां नैरर्थक्यं प्रसज्यते भवताम् । 15
न चासां नैरर्थक्यम् । तस्मान्निरवशेषदोषविषवृक्षारभूतोऽयं स्वर्गापवर्गोपवादी नरकादिमहापाय- B 185
प्रपातैर्तनहेतुः दृष्टादृष्टहेतुपदार्थविरोधीति कृत्वा, सद्भिः असद्भूतः कारकोऽसद्भूतं कर्म करोतीति
पक्षो निकृष्ट एवेति त्याज्यः ॥ ६ ॥
तदेवं प्रतिज्ञाद्वयं संसाध्य इदानीमुभयरूपः कारकः, उभयरूपमपि कर्म न करोती-
त्याह- 20
कारकः सदसद्भूतः सदसत्कुरुते न तत् ।
तत्र यदेतदसद्भूतं कर्म क्रियायुक्तमक्रियायुक्तं च, तत् सदसद्भूतः कारको न करोतीति ।
यस्मात् --
परस्परविरुद्धं हि सच्चांसच्चैकतः कुतः ॥ ७ ॥
एकः पदार्थः एकस्मिन् काले क्रियायुक्तश्चाक्रियायुक्तश्चेति न युज्यत एवैतत् । ततश्च 25
सदसद्भूतोऽपि कारकः सदसद्भूतं कर्म न करोति, अविद्यमानत्वादित्यभिप्रायः ॥ ७ ॥
एवं समे पक्षे दूषणमुद्भाव्य विषमपक्षस्यापि निराचिकीर्षया आह -
१. T om. इष्टानिष्टं. २. T om. कुगतिगमनकर्मपथविरतिसाफल्यं च स्यात्. ३. T om.
°साफल्यं. ४. T om. °विषवृक्ष° ५. Mss. सन्मार्गापवर्गावादी for स्वर्गापवर्गापवादी which is
confirmed by T. ६. T om. °वर्तन°. ७. Mss. न हि for न तत्.