सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 51, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 51

पृष्ठम् ७२

अन्यो विनाशयेन्नैनं नाशो यद्यनवस्थितिः । •
अथाविनाशो नष्टोऽयं सर्वं नश्यतु ते तथा ॥
इति । तदेवं परात्मनापि निरोधो न संभवतीति नास्ति निरोधस्य निरोधः ॥
अथ मन्यसे—नास्त्येव निरोधस्य निरोध इति, तदयुक्तम् । यदि हि निरोधस्य निरोधो न
स्यात्, तदा निरोधसहितत्वात्संस्कृतलक्षणमवहीयेत । तदेवं यदि विनाशस्य विनाशः परिकल्प्यते,
तथापि न युक्तो विनाशः । अथ न परिकल्प्यते, तथापि न युक्त इति । कथं विदानीं विनाशो
योक्ष्यते परस्य ? अथ स्यात्—तथापि एवमेव विचारे सति विनाशो भवतोऽपि न युज्यते, ततः य
उभयोर्दोषः, न तेनैकश्चोद्यो भवतीति । उच्यते । नैवेदं चोद्यं ममापतति । किं कारणम् ? ये
स्वात्मना निःस्वभावा भावाः, ते च निःस्वभावा एव सन्तो बालानामिदंसत्याभिनिवेशिनां
व्यवहारपथमुपयान्ति अविचारप्रसिद्धिनैव न्यायेनेति तेषु नास्ति यथोदितविचारावतारोऽस्माकम् ।
मायास्वप्नगन्धर्वनगरादिवत्तु लौकिकाः पदार्था निरुपपत्तिका एव सन्तः सर्वलोकस्याविद्या-
तिमिरोपहतमतिनयनस्य प्रसिद्धिमपगता इति परस्परापेक्षयैव केवलं प्रसिद्धिमपगता बालैरभ्युप-
गम्यन्ते । यथोक्तं शतके –
अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकैः ।
धूमिकान्तःप्रतिश्रुत्कामरीच्यभ्रैः समो भवः ॥
( चतुःशतक – १३.२५ )
तस्मात्सति उत्पादे उत्पाद्यम्, सति उत्पाद्ये उत्पादः । सति निरोधे निरोध्यम्, सति
निरोध्ये निरोधः, इत्येवं लौकिकस्य व्यवहारस्याभ्युपगमात्कुतोऽस्मत्पक्षे समप्रसङ्गिता भवितुमर्हति ?
यस्तु विनाशस्य अहेतुकत्वमभ्युपेत्य क्षणिकतां संस्काराणामाह, तस्य निर्हेतुकत्वात्
खपुष्पवद्विनाशाभावात् कुतः क्षणिकत्वं भावानां सेत्स्यति, कुतो विनाशरहितानां संस्कृतत्वमपीति
सर्वमेव असमञ्जसं तस्य जायते । जातिप्रत्ययं जरामरणं संस्कृतलक्षणानां च संस्कारस्कन्धान्तर्भावं
वर्णयता भगवता ननु सहेतुकत्वं स्पष्टमादर्शितं विनाशस्य । जातिमात्रापेक्षत्वाच्चास्य क्षण-
भङ्गोऽपि सुखसाध्य इति सर्वं सुस्थं जायते ॥
अथ स्यात्—विनाशो हि नाम अभावः, यश्च अभावः, किं तस्य हेतुना कर्तव्यम् ?
अतो निर्हेतुको विनाश इति । ननु च भावेऽपि हेतुभावप्रसङ्गो भवति । भावो हि नाम
विद्यमानः, यश्च विद्यमानः तस्य च किं हेतुना प्रयोजनम् ? न हि जातं पुनरपि जन्यते ।
तस्मात्सर्वत्रैव हेतुभावप्रसङ्गादयुक्तमेतत् ॥
अपि च । यथा उत्पादः सहेतुकः पूर्वभावात्पश्चाच्च भावात् , एवं विनाशोऽपीष्यताम् ।
विनाशो हि न सर्वदा भवति, उत्पादात्पूर्वमभावात्पश्चाच्च भावात् । यच्चोच्यते—यश्चाभावः तस्य


पादटिप्पण्यः
१ Mss. परस्परम् for परस्य which is confirmed by T.
२ T seems to om. किं कारणम्.
३ Mss. °मलिनचेतसः for °मतिनयनस्य which is confirmed by T.
४ T and P तस्यैवं किं for तस्य च किं.


पृष्ठम् ७३

किं हेतुना कर्तव्यमिति, तदयुक्तम् । यस्मान्न वयं विनाशस्य हेतुना किंचित्क्रियमाणमिच्छामः, किं
तर्हि विनाश एव क्रियते इति वर्णयामः । नन्वेवं सति क्रियमाणत्वाद्दिनाशोऽपि भावः प्राप्नोतीति
चेत्, इष्यत एवैतत् । विनाशो हि स्वरूपापेक्षया भावः, रूपादिधर्मनिवृत्तिस्वभावत्वात्तु न भावः ।
अपि च । मरणमपि द्विविधकार्यप्रत्युपस्थापनं संस्कारविध्वंसनं च करोति । अपरिज्ञानानुपच्छेदं (?)
चेत्यागमात् कथं न सहेतुको विनाशः ? अपि च । कल्पिताभावलक्षणायाश्च शून्यतायाः परेण
भावरूपतामभ्युपगच्छता कथमभावस्य भावत्वं नाभ्युपगतं भवति ? भावत्वाच्च कथमसंस्कृतत्वं
शून्यतायाः स्यात् ? अतः सर्वमभ्युपेतं विहीयते भवता । अत एव वक्ष्यति –
भवेदभावो भावश्च निर्वाणमुभयं कथम्