सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 36, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 36

४२ मध्यमकशास्त्रे [२.२५-
न च शाश्वतं न च उच्छेद पुनो¹
न च कर्मसंचयु न चापि स्थितिः।
न च सोऽपि कृत्व पुनरास्पृशति
न च अन्यु कृत्व पुन वेदयते ॥
न च संक्रमो न च पुनागमनं
न च सर्वमस्ति न च नास्ति पुनः।
न च दृष्ट² स्थानगतिशुद्धिरिहो³
न च संस्त्वचार सुपशान्तगति ॥
सुपिनोपमं हि त्रिभवं वशिकं
लधुं भग्रमनित्येन मायसमम् ।
न च आगतं न च इहोपगतं
शून्यानिमित्त सद संततियो ॥
अनुत्पाद शान्त अनिमित्तपदं
सुगतान गोचर जिनान गुणा ।
बल धारणी दशबलान बलं
बुद्धान इयं वृषभिता परमा ॥
वरशुक्लधर्मगुणसंनिचयो
गुणज्ञानधारणबलं परमम् ।
ऋद्धीविकुर्वणविधिः परमो
वरपञ्चभिज्ञप्रतिलाभनयैः ॥
[ समाधिराजसूत्र - २९.१३-१९ ]
इति विस्तरः ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
गतागतपरीक्षा नाम द्वितीयं प्रकरणम् ॥

१ T om. पुनो. २ P दृष्टिस्थान° for दृष्ट स्थान°. ३ P इह for इहो or इहा of Mss.
४ Mss. चोरु; T न सत्त्वविचार प्रशान्तिगतिः. ५ T लघु भङ्गुरमनित्यं मायसमं for the line. ६ The
variants in the printed text of समाधिराज are not noted.
३
चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम्।
अत्राह—यद्यपि गतिश्च गन्ता च गन्तव्यं च न विद्यते, तथापि प्रवचनसिद्धयपेक्षया B 113
द्रष्टृद्रष्टव्यदर्शनादीनामस्तित्वमास्थेयम् । तथा चाभिधर्मे उच्यते।
दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
इन्द्रियाणि षडेतेषां द्रष्टव्यादीनि गोचरः ॥ १ ॥
तस्मात्सन्ति दर्शनादीनि स्वभावत इति । उच्यते । न सन्ति । इह हि पश्यतीति दर्शनं
चक्षुः, तस्य च रूपं विषयत्वेनोपदिश्यते ॥ १ ॥
यथा दर्शनं रूपं न पश्यति तथा प्रतिपादयन्नाह —
स्व²मात्मानं दर्शनं हि तत्तमेव न पश्यति ।
न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान् ॥ २ ॥
तत्र तदेव दर्शनं स्वात्मानं न पश्यति स्वात्मनि क्रियाविरोधात् । ततश्च स्वात्मादर्शना- B 114
च्छ्रोत्रादिवन्नीलादिकं न पश्यति । तस्मान्नास्ति दर्शनम् ॥ २ ॥
यद्यपि स्वात्मानं दर्शनं न पश्यति, तथाप्यग्निवत् परान् द्रक्ष्यति । तथा हि अग्निः
परात्मानमेव दहति न स्वात्मानम्, एवं दर्शनं परानेव द्रक्ष्यति न स्वात्मानमिति । एतदप्ययुक्तम् ।
यस्मात् —
न पर्याप्तोऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये ।
योऽयमग्निदृष्टान्तो दर्शनस्य प्रसिद्धये भवतोपन्यस्तः, स न पर्याप्तो नालं न समर्थो न
युज्यत इत्यर्थः । यस्मात् —
सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः ॥ ३ ॥
सह दर्शनेन वर्तत इति सदर्शनः। योऽयमग्निदृष्टान्तो दर्शनप्रसिद्धये भवतोपन्यस्तः, सोऽपि
सह दर्शनेन दार्ष्टान्तिकार्थेन प्रत्युक्तो दूषितः । केन पुनरित्याह—गम्यमानगतागतैः । यथा गतं
न गम्यते नागतं न गम्यमानम्, एवमग्निनापि दग्धं न दह्यते नादग्धं दह्यत इत्यादिना समं
वाच्यम् । यथा च न गतं नागतं न गम्यमानं गम्यते, एवम्—
नै³ दृष्टं दृश्यते तावददृष्टं नैव दृश्यते ।
दृष्टादृष्टविनिर्मुक्तं दृश्यमानं न दृश्यते ॥
इत्यादि वाच्यम् ॥ ३ ॥
यथा च गन्ता न गच्छति तावदित्याद्युक्तम्, एवं नै⁴ दग्धा दहति तावदित्यादि वाच्यम् । B 115
एवं न द्रष्टा पश्यति तावदित्यादिना अग्निदृष्टान्तेन सह गम्यमानगतागतैर्यस्मात्समं दूषणम्, अतोऽ-

१. T इह चक्षुर्दर्शनात् पश्यतीति for इह...पश्यतीति. २. Mss. स्व आत्मानं...तत्तेमेव न पश्यति
for the first half; Rajendra Lal Mitra reads तत्त्वमेव for तत्तमेव. ३. This stanza is
not to be confounded as a Kārikā of our text, as it is not rendered in T in the
Mūla-Madhyamaka. ४. Mss. न दग्धं दह्यते तावत् ... एवं न दर्शनं पश्यते तावत् for न
दग्धा ... पश्यति तावत्, which reading is confirmed by T.