मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)
Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary
आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा
पृष्ठ 50, कुल 176 में से
संदर्भ में पढ़ें[७०] मध्यमकशास्त्रे [७.२७-
निरोधद्वयप्रसङ्गाच्च । यतश्चैवं त्रिष्वपि कालेषु निरोधासंभवः, तस्मान्नास्त्येव निरोध इति
कुतस्तत्सहचारिस्थित्युत्पादसंभवः स्यात् ? अपि च । प्रागुत्पादप्रतिषेधादसंभव एव निरोधस्येत्याह --
किमजातं निरुध्यते ।
इति ॥ २६ ॥
5 अपि च । अयं निरोधः स्थितस्य वा भावस्य स्यादस्थितस्य वा ? उभयथा च न
युज्यते इत्याह —
स्थितस्य तावद्भावस्य निरोधो नोपपद्यते ।
स्थितस्य निरोधविरुद्धस्य नास्ति निरोधः ।
नास्थितस्यापि भावस्य निरोध उपपद्यते ॥ २७ ॥
10 अस्थितस्य अभावस्य अविद्यमानस्य निरोधो नास्ति, इति सर्वथा नास्ति निरोधः ॥२७॥
किं चान्यत् । यदि इह निरोधः स्यात्, स तयैवावस्थया तस्या एवावस्थायाः स्यादन्यया
वा अन्यस्या अवस्थायाः स्यात् । सर्वथा च नोपपद्यते इति प्रतिपादयन्नाह-
तयैवावस्थयावस्था न हि सैव निरुध्यते ।
B 169 अन्ययावस्थयावस्था न चान्यैव निरुध्यते ॥ २८ ॥
15 तयैव तावत्क्षीरावस्थया सैव क्षीरावस्था न निरुध्यते, स्वात्मनि क्रियाविरोधात् । नाप्य-
न्यया दध्यवस्थया क्षीरावस्था निरुध्यते । यदि हि क्षीरदध्यवस्थयोर्यौगपद्यं स्यात्, स्यात्तयोर्विनाश्य-
विनाशकभावः । न तु दध्यवस्थायां क्षीरावस्था अस्ति । यदा च नास्ति, तदा कामसतीं
विनाशयेत् ? यदि विनाशयेत्, खरविषाणतीक्ष्णतामपि विनाशयेत् । तस्मादन्ययाप्यवस्थया
नैवान्यावस्था निरुध्यते ॥ २८ ॥
20 अत्राह-यद्यपि तयैवावस्थया सैवावस्था, अन्यया वा अवस्था अन्यावस्था न निरुध्यते,
तथापि क्षीरावस्थायास्तावनिरोधोऽस्ति, ततश्च उत्पादोऽपि स्यादिति । उच्यते । अहो बत अति-
जडतामात्मनो भवान् प्रकटयति । ननु च पूर्वोक्तेन न्यायेन
यदैवं सर्वधर्माणामुत्पादो नोपपद्यते ।
इत्युक्तम्,
25 तदैवं सर्वधर्माणां निरोधो नोपपद्यते ॥ २९ ॥
इति स्फुटतरमेव प्रतिपादितं भवति ॥ २९ ॥
अपि च । निरोधो नाम यदि कश्चित् स्यात्, स सतो वा भावस्य स्यादसतो वा । तत्र-
B 170 सतश्च तावद्भावस्य निरोधो नोपपद्यते ।
स्वभावान्नप्रच्युतस्य भावस्य निरोधो न युक्तः । यस्मात् -
एकत्वे न हि भावश्च नाभावश्चोपपद्यते ॥ ३० ॥
-७. ३२ ] संस्कृतपरीक्षा सप्तमं प्रकरणम् । [७१]
निरोधो हि नाम अभावः । स यस्य भवति, स नैव भवति । ततश्च सतो भावस्य
निरोध इति ब्रुवता भावाभावयोरेकाधिकरणता अभ्युपगता भवति । एकत्वे सति उभयं न
युज्यते । यदि तदानीं भावः स्यात्, तदा निरोधेनाभावेनावेशोद्भावव्यपदेशोऽयुक्तः¹ । अथ
अभावः, सोऽप्यस्य न युज्यते, अभावविरोधिना भावरूपेणावियोगात् । तस्मादेकत्वे सति
भावाभावयोः स पदार्थो नैव भावो नाप्यभाव इति युज्यते । अथवा, परस्परविरुद्धयोरालोकान्धकार- 5
वदेकत्वे सति न हि भावश्च नाभावश्चोपपद्यते । एवं तावत्सतो भावस्य निरोधो न युक्तः ॥ ३० ॥
इदानीम्-
असतोऽपि न भावस्य निरोध उपपद्यते ।
अविद्यमानस्याभावस्य न विनाशोऽस्ति वन्ध्यातनयस्येव, अविद्यमानत्वात् । अत एवाह-
न द्वितीयस्य शिरसच्छेदर्न विद्यते यथा ॥ ३१ ॥ 10
प्रसिद्धासतस्त्यैव ²नृणां द्वितीयस्य शिरसो दृष्टान्तत्वेनोपादानान्निर्देशापूर्णत्वान्नास्तीति³ B 171
नोपात्तम् । तदेवमसतो भावस्य निरोधो न संभवति, सतोऽपि न । यश्चोभयथापि न संभवति, स
केनात्मना स्थितः ? नास्त्येव निरोध इति प्रतीयताम् ॥ ३१ ॥
किं चान्यत् । यदि निरोधो नाम भावानां निरोधक इति कल्प्यते, तस्येदानीं किमन्यो
निरोध इष्यते, उत न ? यदि इष्यते तन्न युज्यते । 15
न स्वात्मना निरोधोऽस्ति निरोधो न परात्मना ।
कथं पुनर्नार्स्तीति प्रतिपादयन्नाह-
उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥ ३२ ॥
तत्र यथा-
अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम् । 20
इत्यादिना उत्पादः स्वात्मानं नोत्पादयति, एवं निरोधोऽपि स्वात्मानं न निरोधयति ।
कथमिति ? उच्यते-
⁴अनिरुद्धो निरोधोऽयं स्वात्मानं नाशयेत्कथम् ।
अथ नष्टो नाशयति नष्टे किं नाश्यते पुनः ॥
इति समुत्पादेन वक्तव्यम् । एवं च स्वात्मना न निरोधोऽस्ति । निरोध इदानीं परात्मनापि 25 B 172
नास्ति । कथम् ? तत्र यथा उत्पादे गदितम्- 'अन्य उत्पादयत्येनम्' (७.१९) इत्यादि, एवं
निरोधेऽपि वक्तव्यम्-
पादटिप्पण्यः (Footnotes):
1 Mss. आवेशोद्भावव्यपदेशो युक्तः for आवेशद्भावव्यपदेशोऽयुक्तः which is confirmed by
T. 2 T seems to om. नृणां. 3 Mss. and P read दृष्टान्तत्वेनोपादानात्परिपूर्णत्वान्निर्देशः
सेति नोपात्तम्. Our text is confirmed by T. 4 This stanza and the following,-
corresponding to 7.13 and 7.19, do not figure as part of the text of Madhya-
makakārikā in T.