मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
७० मालविकाग्निमित्रे
देवी—^१गच्छदु अज्जउत्तो कज्जसिद्धीए ।
राजा—आतपाक्रान्तोऽयमुद्देशः । शीतक्रिया चास्या रुजः प्र-
शस्ता । तदन्यत्र नीयतां शयनम् ।
देवी—^२बालिआओ, अज्जउत्तवअणं अणुचिट्ठह ।
परिजनः—^३तह ।
(निष्क्रान्ता देवी परिव्राजिका परिजनश्च ।)
राजा—जयसेने, मां गूढेन पथा प्रमदवनं प्रापय ।
प्रतीहारी—^४इँदो इदो देवो ।
राजा—जयसेने, समाप्तकरणीयो ननु गौतमः ।
प्रतीहारी—^५अह इं ।
राजा—
इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाध्यमपि मत्वा ।
संदिग्धमेव सिद्धौ कातरमाशङ्कते हृदयम् ॥ ५ ॥
(प्रविश्य ।)
विदूषकः—^६वँड्ढदु भवं । सिद्धांई दे मङ्गलकम्माईं ।
राजा—जयसेने, त्वमपि नियोगमशून्यं कुरु ।
प्रतीहारी—^७जं देवो आणवेदि । (इति निष्क्रान्ता ।)
१. गच्छत्वार्यपुत्रः कार्यसिद्धये ।
२. बालिकाः, आर्यपुत्रवचनमनुतिष्ठत ।
३. तथा ।
४. इत इतो देवः ।
५. अथ किम् ।
६. वर्धतां भवान् । सिद्धानि ते मङ्गलकर्माणि ।
७. यद्देव आज्ञापयति ।
हमिच्छामीति ॥ गच्छत्वार्यपुत्रः कार्यसिद्धये ॥ बालिका, आर्यपुत्रवचनमनुतिष्ठत ॥
तथा इत इतो देवः ॥ अथ किम् ॥ इष्टाधिगमेत्यादि । स्पष्टोऽर्थः ॥ वर्धतां भ-
वान् । सिद्धानि ते यद्देव देव्या अङ्गुलीयकमुद्रा
चतुर्थोऽङ्कः। ७१
राजा—वयस्य, क्षुद्रा माधविका। न किंचिद्विचारितमनया।
विदूषकः—१देवीए अङ्गुलीअअमुद्दिअं देखिअ कहं वि-
आरेदि।
राजा—न खलु मुद्रामधिकृत्य ब्रवीमि। एतयोर्द्वयोः किंनिमित्तो
मोक्षः। किं वा देव्याः परिजनमतिक्रम्य भवान्संदिष्ट इत्येवमनया
प्रष्टव्यम्।
विदूषकः—२णं पुच्छिदोम्हि। पुणो मन्दस्स मे तस्सिं पच्चु-
प्पष्णा मदी!
राजा—कथ्यताम्।
विदूषकः—३भणिदा मए। देवचिन्तएहिं विण्णाविदो राआ।
सोवसग्गं वो णक्खत्तं। सव्वबन्धणमोक्खो करीअदु त्ति।
राजा—(सहर्षम्।) ततस्ततः।
विदूषकः—४तं सुणिअ देवीए इरावदीचित्तं रक्खन्तीए राआ
किल मोएदित्ति अहं संदिट्ठो त्ति। तदो जुज्जदि त्ति ताए एवं
संपादिदो अत्थो।
राजा—(विदूषकं परिष्वज्य।) सखे, प्रियोऽहं तव।
१. देव्या अङ्गुलीयकमुद्रां दृष्ट्वा कथं विचारयति।
२. ननु पृष्टोऽस्मि। पुनर्मन्दस्य मे तस्मिन्प्रत्युत्पन्ना मतिः।
३. भणिता मया। दैवचिन्तकैर्विज्ञापितो राजा। सोपसर्गं वो नक्षत्रम्। सर्वबन्धनमोक्षः क्रियतामिति।
४. तच्छ्रुत्वा देव्येरावतीचित्तं रक्षन्त्या राजा किल मोचयतीत्यहं सं-
दिष्ट इति। ततो युज्यत इति तयैवं संपादितोऽर्थः।
दृष्ट्वा कथं विचारयति ॥ ननु पृष्टोऽस्मि । पुनर्मन्दस्य मे तस्मिन्प्रत्युत्पन्ना मतिः ॥
भणिता मया । दैवचिन्तकैर्विज्ञापितो राजा । सोपसर्गं वो नक्षत्रम् । सर्वबन्धन-
मोक्षः क्रियतामिति ॥ तच्छ्रुत्वा देव्येरावतीचित्तं रक्षन्त्या राजा किल मोचयती-
७२ मालविकाग्निमित्रे
नहि बुद्धिगुणेनैव सुहृदामर्थदर्शनम् ।
कार्यसिद्धिपथः सूक्ष्मः स्नेहो नाप्युपलभ्यते ॥ ६ ॥
विदूषकः—१तुवरदु भवं समुद्दघरए सहीसहिदं मालविअं
ठाविअ भवन्तं पच्चुग्गदोम्हि ।
राजा—अहमेनां संभावयामि । गच्छाग्रतः ।
विदूषकः—२एदु भवं (परिक्रम्य ।) इंदं समुद्दघरं ।
राजा—(साशङ्कम् ।) वयस्य, एषा कुसुमावचयव्यग्रहस्ता स-
ख्यास्ते परिचारिका चन्द्रिका संनिकृष्टमागच्छति । इतस्तावदावां
भित्तिगूढौ भवावः ।
विदूषकः—३अहो कुम्भीलएहिं कामुएहिं च परिहरणीआ खु
चन्दिआ ।
(उभे यथोक्तं कुरुतः ।)
राजा—गौतम, कथं नु ते सखी मां प्रतिपालयति । एहि । एनां
गवाक्षमाश्रित्य विलोकयामि ।
विदूषकः—४तह ।
(उभौ विलोकयन्तौ तिष्ठतः ।)
(ततः प्रविशति मालविका बकुलावलिका च ।)
बकुलावलिका—५सँहि, पणम भट्टारं ।
१. त्वरतां भवान् । समुद्रगृहे सखीसहितां मालविकां स्थापयित्वा भवन्तं प्रत्युद्गतोऽस्मि ।
२. एतु भवान् । इदं समुद्रगृहम् ।
३. अहो कुम्भिलकैश्च परिहरणीया खलु चन्द्रिका ।
४. तथा ।
५. सखि, प्रणम भर्तारम् ।
त्यहं संदिष्ट इति । ततो युज्यत इति तयैवं संपादितोऽर्थः ॥ नहि बुद्धीत्यादि ।
स्पष्टोऽर्थः ॥ त्वरतां भवान् । समुद्रगृहे सखीसहितां मालविकां स्थापयित्वा भवन्तं
प्रत्युद्गतोऽस्मि ॥ एतु भवान् । इदं समुद्रगृहम् ॥ अहो इत्यामन्त्रणे । कुम्भिलकैः कामु-
कैश्च परिहरणीया खलु चन्द्रिका तथा ॥ सखि, प्रणम भर्तारम् नमस्ते सखि,
चतुर्थोऽङ्कः । ७३
मालविका—१णमो दे ।
राजा—शङ्के मे प्रतिकृतिं निर्दिशति ।
मालविका—(सहर्षम् । द्वारमवलोक्य ।) २हँला, मं विप्पलम्भेसि ।
राजा—हर्षविषादाभ्यामत्रभवत्याः प्रीतोऽस्मि ।
सूर्योदये भवति या सूर्यास्तमये च पुण्डरीकस्य ।
वदनेन सुवदनायास्ते समवस्थे क्षणादूढे ॥ ७ ॥
बकुलावलिका—३णं एसो चित्तगदो भट्टा ।
उभे—(प्रणिपत्य ।) ४जेदुं भट्टा ।
मालविका—हँला, तदा संभमदिट्ठे भट्टिणो रूवे जहा ५ण वि-
तिण्हम्हि, तहा अज्जवि मए भाविदो अवितिण्हदंसणो भट्टा ।
विदूषकः—६सुदं भवदा । तत्तहोदी चित्ते जहा दिट्ठो तहा
दिट्ठो भवं ति मन्तेदि । मुद्धा दाणिं मञ्जूसा विअ रअणभण्डअं जो-
वणगव्वं वहेसि ।
राजा—सखे, कुतूहलवानपि निसर्गशालीनः स्त्रीजनः । पश्य ।
कात्स्न्येन निर्वर्णयितुं च रूप-
मिच्छन्ति तत्पूर्वसमागमानाम् ।
१. नमस्ते ।
२. सखि, मां विप्रलम्भयसि ।
३. नन्वेष चित्रगतो भर्ता ।
४. जयतु भर्ता ।
५. सखि, तदा संभ्रमदृष्टे भर्तू रूपे यथा न वितृष्णास्मि, तथाद्यापि
मया भावितोऽवितृष्णदर्शनो भर्ता ।
६. श्रुतं भवता । तत्रभवती चित्रे यथा दृष्टस्तथा दृष्टो भवानिति
मन्त्रयति । मुग्धेदानीं मञ्जूषेव रत्नभाण्डं यौवनगर्वं वहसे ।
या विप्रलम्भयसि॥ सूर्योदय इत्यादि। स्पष्टोऽर्थः॥नन्वेष चित्रगतो भर्ता॥जयतु
भर्ता॥सखि,तदा संभ्रमदृष्टे भर्तू रूपे यथा न वितृष्णास्मि,तथाद्यापि मयाभावितोऽ-
वितृष्णदर्शनो भर्ता॥श्रुतं भवता।तत्रभवती चित्रे यथा दृष्टस्तथा दृष्टोभवानिति मन्त्र-
यति। मुग्धेदानीं मञ्जूषेव रत्नभाण्डं यौवनगर्वं वहसे॥कात्स्न्येनेत्यादि।स्पष्टोऽर्थः॥
माल० ७
७४ मालविकाग्निमित्रे
न च प्रियेष्वायतलोचनानां
समग्रवृत्तीनि विलोचनानि ॥ ८ ॥
मालविका—१हला, का एसा पासपरिवत्तवअणेण भट्टिणा
सिणिद्धाए दिट्ठीए णिज्झाईअदि ।
बकुलावलिका—२णं इअं पासगदा इरावती ।
मालविका—३सहि, अदक्खिणो विअ भट्टा मे पडिभादि ।
जो सव्वं देवीजणं उज्झिअ एक्काए मुहे बद्धलक्खो ।
बकुलावलिका—(आत्मगतम् ।) चित्तगदं भट्ठारं परमत्थदो सं-
कप्पिअ असूअदि । होदु । कीडिस्सं दाव एदाए । (प्रकाशम् ।)
हला, भट्टिणो वल्लहा एसा ।
मालविका—५तदो किं दाणिं अत्ताणं आआसइस्सं । (इति सा-
सूयं परावर्तते ।)
राजा—सखे, पश्य ।
भ्रूभङ्गभिन्नतिलकं स्फुरिताधरोष्ठं
सासूयमाननमितः परिवर्तयन्त्या ।
कान्तापराधकुपितेष्वनया विनेतुः
संदर्शितेव ललिताभिनयस्य शिक्षा ॥ ९ ॥
१. सखि, कैषा पार्श्वपरिवृत्तवदनेन भर्त्रा मे स्निग्धया दृष्ट्या निध्यायते ।
२. नन्वियं पार्श्वगतेरावती ।
३. सखि, अदक्षिण इव भर्ता मे प्रतिभाति । यः सर्वं देवीजनमुज्झित्वै-
कस्या मुखे बद्धलक्ष्यः ।
४. चित्रगतं भर्तारं परमार्थतः संकल्प्यासूयति । भवतु । क्रीडिष्यामि
तावदेतया । सखि, भर्तुर्वल्लभैषा ।
५. ततः किमिदानीमात्मानमायासिष्यामि ।
सखि, कैषा पार्श्वपरिवृत्तवदनेन भर्त्रा स्निग्धया दृष्ट्या निध्यायते ॥ नन्वियं
पार्श्वगतेरावती ॥ सखि, अदक्षिण इव भर्ता मे प्रतिभाति । यः सर्वं देवीजन-
मुज्झित्वैकस्या मुखे बद्धलक्ष्यः ॥ चित्रगतं भर्तारं परमार्थतः संकल्प्यासूयति ।
भवतु क्रीडिष्यामि तावदेतया । सखि, भर्तुर्वल्लभैषा ॥ ततः किमिदानीमात्मान-
भ्रूभङ्गेत्यादि स्पष्टोऽर्थ इदानीं मया ॥
चतुर्थोऽङ्कः । ७५
विदूषकः—अणुणअसज्जो दाणिं होहि ।
मालविका—अज्जगोदमो एत्थ ण संसेवदि । (पुनः स्थानान्तराभि-
खी भवितुमिच्छति ।)
बकुलावलिका—(मालविकां रुद्ध्वा ।) णँ खलु कुविदा दाणिं तुमं ।
मालविका—जैँह चिरं कुविदं एव्व मं मण्णेसि, एसो पच्चा-
णेअदि कोवो ।
राजा—(उपेत्य ।)
कुप्यसि कुवलयनयने चित्रार्पितचेष्टया किमेतन्मे ।
ननु तव साक्षादयमहमनन्यसाधारणो दासः ॥ १० ॥
बकुलावलिका—जेदुँ भट्टा ।
मालविका—(आत्मगतम् ।) कँहं चित्तगदो भट्टा मए असूइदो ।
(इति सप्रणयवदनमञ्जलिं करोति ।)
(राजा मदनकातर्यं रूपयति ।)
विदूषकः—किं भवं उदासीनो विअ ।
राजा—अविश्वसनीयत्वात्सख्यास्तव ।
विदूषकः—अत्तहोदीए अअं तुह अविस्सासो ।
राजा—श्रूयताम् ।
१. अनुनयसज्ज इदानीं भव ।
२. आर्यगौतमोऽत्र न संसेवते ।
३. न खलु कुपितेदानीं त्वम् ।
४. यदि चिरं कुपितामेव मां मन्यसे, एष प्रत्यानीयते कोपः ।
५. जयतु भर्ता ।
६. कथं चित्रगतो भर्ता मयासूयितः ।
७. किं भवानुदासीन इव ।
८ तवाविश्वास
७६ मालविकाग्निमित्रे
पथि नयनयोः स्थित्वा स्थित्वा तिरोभवति क्षणा-
त्सरति सहसा बाह्वोर्मध्यं गतापि सखी तव ।
मनसिजरुजा क्लिष्टस्यैवं समागममायया
कथमिव सखे विस्रब्धं स्यादिमां प्रति मे मनः ॥ ११ ॥
बकुलावलिका—सहि, बहुसो किल भट्टा विप्पलद्धो । दाव
तुए अत्ता विस्सासणिज्जो करीअदु ।
मालविका—सहि, मह उण मन्दभग्गाए सिविणसमाअमो
वि भट्टिणो दुल्हहो आसि ।
बकुलावलिका—भट्टा कहेदु से उत्तरं ।
राजा—
उत्तरेण किमात्मैव पञ्चबाणाग्निसाक्षिकम् ।
तव सख्यै मया दत्तो न सेव्यः सेविता रहः ॥ १२ ॥
बकुलावलिका—अँणुगहीदम्ह ।
विदूषकः—(परिक्रम्य ।) बँहुलावलिए, एसो बालासोअरुक्खस्स
पल्लवाइं लङ्घेदि हरिणो । णिवारेम णं ।
१. सखि, बहुशः किल भर्ता विप्रलब्धः । तावत्त्वयात्मा विश्वसनीयः
क्रियताम् ।
२. सखि, मम पुनर्मन्दभाग्यायाः स्वप्नसमागमोऽपि भर्तुर्दुर्लभ आसीत् ।
३. भर्ता कथयत्वस्या उत्तरम् ।
४. अनुगृहीताः स्मः ।
५. बकुलावलिके, एष बालाशोकवृक्षस्य पल्लवानि लङ्घयति हरिणः ।
निवारयाम एनम् ।
भवत्यामयं तवाविश्वासः । अस्मिन्वाक्ये काकुरनुसंधेया ॥ पथि नयनयोरि-
त्यादि । स्पष्टोऽर्थः ॥ सखि, बहुशः किल भर्ता विप्रलब्धः । तावत्त्वयात्मा
विश्वसनीयः क्रियताम् ॥ सखि, मम पुनर्मन्दभाग्यायाः स्वप्नसमागमोऽपि भर्तु-
र्दुर्लभ आसीत् ॥ भर्ता कथयत्वस्या उत्तरम् ॥ उत्तरेणेत्यादि । स्पष्टोऽर्थः ॥
अनुगृहीता स्म । बकुलावलिके, एष पल्लवानि लङ्घयति
चतुर्थोऽङ्कः । ७७
बकुलावलिका—१तह । (इति प्रस्थिता ।)
राजा—वयस्य, एवमेवास्मिन्क्षणक्षणेऽवहितेन त्वया भवि-
तव्यम् ।
विदूषकः—२एंवं वि गोदमो संदिसेअदि ।
बकुलावलिका—(परिक्रम्य ।) ३अज्ज गोदम, अहं अप्पआसे
चिट्ठामि । तुमं दुवाररक्खओ होहि ।
विदूषकः—४जुज्जइ ।
(निष्क्रान्ता बकुलावलिका ।)
विदूषकः—५ईमं दाव फलिहक्खम्भं अस्सिदो होमि । (इति तथा-
कृत्वा ।) अहो सुहप्फरिसदा सिलाविसेसस्स । (इति निद्रायते ।)
(मालविका ससाध्वसा तिष्ठति ।)
राजा—
विसृज सुन्दरि संगमसाध्वसं
तव चिरात्प्रभृति प्रणयोन्मुखे ।
परिगृहाण गते सहकारतां
त्वमतिमुक्तलताचरितं मयि ॥ १३ ॥
मालविका—६देवीएं भएण अत्तणोवि पिअं कादुं ण पारेमि ।
१. तथा ।
२. एवमपि गौतमः संदिश्यते ।
३. आर्य गौतम, अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव ।
४. युज्यते ।
५. इमं तावत्स्फटिकस्तम्भमाश्रितो भवामि । अहो सुखस्पर्शता शि-
लाविशेषस्य ।
६. देव्या भयेनात्मनोऽपि प्रियं कर्तुं न पारयामि ।
हरिणः । निवारयाम एनम् ॥ तथा ॥ एवमपि गौतमः संदिश्यते ॥ आर्य गौतम,
अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव ॥ युज्यते ॥ इमं तावत्स्फटिकस्त-
म्भमाश्रितो भवामि । अहो सुखस्पर्शता शिलाविशेषस्य ॥ विसृजेत्यादि ।
चतुर्थ अङ्क: बन्दीगृह से मालविका मुक्ति व कौमुदी प्रसंग
७८ मालविकाग्निमित्रे
राजा—अयि, न भेतव्यम् ।
मालविका—(सोपालम्भम् ।) १जो ण भाअदि, सो मए भट्टिणी
दंसणे दिट्ठसामत्थो भट्ठा ।
राजा—
दाक्षिण्यं नाम बिम्बोष्ठि वैम्बिकानां कुलव्रतम् ।
तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ १४ ॥
तदनुगृह्यतां चिरानुरक्तोऽयं जनः । (इति संश्लेषमुपजनयति ।)
(मालविका परिहरति ।)
राजा—(आत्मगतम् ।) रमणीयः खलु नवाङ्गनानां मदनवि-
यावतारः । तथा हि ।
हस्तं कम्पयते रुणद्धि रशनाव्यापारलोलाङ्गुलीः
स्वौ हस्तौ नयति स्तनावरणतामालिङ्ग्यमाना बलात् ।
पातुं पक्ष्मलनेत्रमुन्नमयतः साचीकरोत्याननं
व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥ १५
(ततः प्रविशतीरावती निपुणिका च ।)
इरावती—२हञ्जे णिउणिए, सच्चं तुमं परिगदत्था चन्दिआए
समुद्दघरअलिन्दसइदौ एआई अज्जगोदमो दिट्ठो त्ति ।
निपुणिका—३अण्णहा कहं भट्टिणीए विण्णावेमि ।
१. यो न बिभेति, स मया भट्टिनीदर्शने दृष्टसामर्थ्यो भर्ता ।
२. हञ्जे निपुणिके, सत्यं त्वं परिगतार्था चन्द्रिकया । समुद्रगृहालिन्द-
शयित एकाकी आर्यगौतमो दृष्ट इति ।
३. अन्यथा कथं भट्टिन्यै विज्ञापयामि ।
स्पष्टोऽर्थः ॥ देव्या भयेनाहम्नोऽपि प्रियं कर्तुं न पारयामि ॥ यो न बिभे[ति]
स मया भट्टिनीदर्शने दृष्टसामर्थ्यो भर्ता ॥ दाक्षिण्यमिति । स्पष्टोऽर्थः
वैम्बिकाखद्वंशा राजानः ॥ हस्तमित्यादि । स्पष्टोऽर्थः ॥ हञ्जे निपुणिके
सत्यं त्वं परिगतार्था चन्द्रिकया । समुद्रगृहालिन्दशयित एकाकी आर्यगौतम[ो]
दृष्ट इति ॥ कथं भट्टिन्यै विज्ञापयामि ॥ तेन हि तत्रैव गच्छाम स[ः]
चतुर्थोऽङ्कः । ७९
इरावती—तेणं हि तहिं एव्व गच्छामो । संसआदो मुत्तं पिअ-
वअस्सं पुच्छिदुं च ।
निपुणिका—सावसेसं विअ भट्टिणीए वअणं ।
इरावती—अण्णं च चित्तगदं अज्जउत्तं पसादेदुं ।
निपुणिका—अह कहं दाणिं एव्व ण प्पसादीअदि ।
इरावती—मुद्धे, जारिसो चित्तगदो णं तारिसो एव्व अण्णसं-
कन्तहिअओ अज्जउत्तो । केवलं उवआरादिक्कमं पमज्जिदुं अअं
आरम्भो ।
निपुणिका—ईदो इदो भट्टिणी ।
(उभे परिक्रामतः ।)
(प्रविश्य ।)
चेटी—जेदुं भट्टिणी । देवी भणादि । ण मे मच्छस्स एसो
कालो । तेण खु बहुमाणं वड्ढेदुं वअस्साए सह णिअलबन्धणे किदा
१. तेन हि तत्रैव गच्छामः संशयान्मुक्तं प्रियवयस्यं प्रष्टुं च ।
२. सावशेषमिव भट्टिन्या वचनम् ।
३. अन्यच्च चित्रगतमार्यपुत्रं प्रसादयितुम् ।
४. अथ कथमिदानीमेव न प्रसाद्यते ।
५. मुग्धे, यादृशश्चित्रगतो ननु तादृश एवान्यसंक्रान्तहृदय आर्यपुत्रः ।
केवलमुपचारातिक्रमं प्रमार्जितुमयमारम्भः ।
६. इत इतो भट्टिनी ।
७. जयतु भट्टिनी । देवी भणति । न मे मत्सरस्यैष कालः । तेन
खलु बहुमानं वर्धयितुं वयस्यया सह निगलबन्धनं कृता मालविका ।
यद्यनुमन्यस आर्यपुत्रस्य प्रियं कर्तुं तथा करोमि । यत्तवेष्टं तन्मे भणेति ।
यान्मुक्तं प्रियवयस्य प्रष्टुं च ॥ सावशेषमिव भट्टिन्या वचनम् ॥ अन्यच्च चित्र-
गतमार्यपुत्रं प्रसादयितुम् ॥ अथ कथमिदानीमेव न प्रसाद्यते ॥ मुग्धे, यादृश-
श्चित्रगतो ननु तादृश एवान्यसंक्रान्तहृदय आर्यपुत्रः । केवलमुपचारातिक्रमं प्रमा-
र्जितुमयमारम्भः ॥ इत इतो भट्टिनी ॥ जयतु भट्टिनी । देवी भणति । न मे
मत्सरस्यैष कालः । तेन खलु बहुमानं वर्धयितुं वयस्यया सह निगलबन्धने
८० मालविकाग्निमित्रे
मालविआ । जइ अणुमण्णसि अज्जउत्तस्स पिअं कादुं तहा करेमि ।
जं तुह इच्छिअं तं मे भणाहि त्ति ।
इरावती—णाअरिए, विण्णावेहि देविं । का वअं भट्टिणिं
णिओजेदुं । परिअणणिअलणे दंसिदो मइ अणुग्गहो । कस्स वा
पसादेण अअं जणो वड्ढिदि ।
चेटी—तह । (इति निष्क्रान्ता ।)
निपुणिका—(परिक्रम्यावलोक्य च ।) भट्टिणि, एसो दुवारुद्देसे
समुद्दघरस्स विपणिगदो विअ वलीवद्दो अज्जगोदमो आसीणो
एव णिद्दाअदि ।
इरावती—अँच्चाहिदं । ण खु सावसेसो विसविआरो हवे ।
निपुणिका—पसण्णमुहवण्णो दीसइ । अवि अ धुवसिद्धिणा
चिइच्छिदो । ता से असङ्कणिज्जं पावं ।
१. नागरिके, विज्ञापय देवीम् । का वयं भट्टिनीं नियोजयितुम् । परि-
जननिगलने दर्शितो मय्यनुग्रहः । कस्य वा प्रसादेनायं जनो वर्धत इति ।
२. तथा ।
३. भट्टिनि, एष द्वारोद्देशे समुद्रगृहस्य विपणिगत इव बलीवर्द आर्यगौ-
तम आसीन एव निद्रायते ।
४. अत्याहितम् । न खलु सावशेषो विषविकारो भवेत् ।
५. प्रसन्नमुखवर्णो दृश्यते । अपि च ध्रुवसिद्धिना चिकित्सितः ।
तदस्याशङ्कनीयं पापम् ।
कृता मालविका । यद्यनुमन्यसे आर्यपुत्रस्य प्रियं कर्तुं तथा करोमि । यत्तवेष्टं
तन्मे भणेति ॥ नागरिके, विज्ञापय देवीम् । का वयं भट्टिणीं नियोजयितुम् ।
परिजननिगलनेन दर्शितो मय्यनुग्रहः । कस्य वा प्रसादेनायं जनो वर्धत इति ॥
तथा ॥ भट्टिनि, एष द्वारोद्देशे समुद्रगृहस्य विपणिगत इव बलीवर्द आर्यगौतम
आसीन एव निद्रायते ॥ अत्याहितम् । अत्याहितं नाम जीवनपेक्षि कर्म 'अत्याहितं
महाभीतिः कर्म जीवनपेक्षि च' इत्यमरसिंहः । न खलु सावशेषो विषविकारो
भवेत् ॥ प्रसन्नमुखवर्णो दृश्यते । अपिच ध्रुवसिद्धिना चिकित्सितः । तस्मा-
पापम् भवति मालविके । श्रुत मयिा कस्यैष
चतुर्थोऽङ्कः । ८१
विदूषकः—(उत्स्वप्नायते ।) ^१भोदि मालविए ।
निपुणिका—^२सुदं भट्ठिणीए कस्स एसो अत्तणिओअसंपा-
दणे विस्ससणिज्जो हदासो । सबाकलं इदो एव सोत्थिवाअणमो-
दएहिं कुच्छिं पूरिअ संपदं मालविअं सिविणावेदि ।
विदूषकः—^३इरावदिं अदिक्कमन्ती होहि ।
निपुणिका—^४एदं अच्चाहिदं । इमं भुअङ्गभीरुअं बह्म-
बन्धुं इमिणा भुअङ्गकुडिलेण दण्डकट्ठेण खम्भन्तरिदा भाआइस्सं ।
इरावती—^५अरुहदि एव किदग्घो उवद्दवस्स ।
(निपुणिका विदूषकस्योपरि दण्डकाष्ठं पातयति ।)
विदूषकः—(सहसा प्रबुध्य ।) ^६अविहा अविहा । भो वअस्स,
सप्पो मे उवरि पडिदो ।
राजा—(सहासोपसृत्य ।) सखे, न भेतव्यं न भेतव्यम् ।
१. भवति मालविके ।
२. श्रुतं भट्टिन्या । कस्यैष आत्मनियोगसंपादने विश्वसनीयो हताशः ।
सर्वकालमित एव स्वस्तिवाचनमोदकैः कुक्षिं पूरयित्वा सांप्रतं मालविकां
स्वप्नायते ।
३. इरावतीमतिक्रामन्ती भव ।
४. एतदत्याहितम् । इमं भुजंगभीरुं ब्रह्मबन्धुमनेन भुजंगकुटिलेन
दण्डकाष्ठेन स्तम्भान्तरिता भीषयिष्यामि ।
५. अर्हत्येव कृतघ्न उपद्रवस्य ।
६. अविधा अविधा । भो वयस्य, सर्पो म उपरि पतितः ।
संपादने विश्वसनीयो हताशः । सर्वकालमित एव स्वस्तिवाचनमोदकैः कुक्षिं
पूरयित्वा सांप्रतं मालविकां स्वप्नायते । अत्र दोषोद्घाटनादपवादो नाम संध्यङ्गमुक्तं
भवति । तत्रैव रोषभाषणात्संफेटो नाम संध्यङ्गमुक्तं भवति ॥ इरावतीमतिक्रामन्ती
भव ॥ एतदत्याहितम् । इमं भुजंगभीरुं ब्रह्मबन्धुमनेन भुजंगकुटिलेन दण्डकाष्ठेन
स्तम्भान्तरिता भीषयिष्यामि । अर्हत्येव कृतघ्न उपद्रवस्य । 'उवद्दवस्स' इत्यत्र क्वचित्,
'असादेः' इति प्राकृते कर्मणि षष्ठी ॥ अविधाअविधा । भो वयस्य, सर्पो म उपरि पतित
८२ मालविकाग्निमित्रे
मालविका—(अनुसृत्य ।) भट्टा, मा दाव सहसा णिक्कम । स-
प्पोत्ति भणीअदि ।
इरावती—हद्धि हद्धि । भट्टा इदो एव्व धावदि ।
विदूषकः—(सप्रहासम् ।) कहं दण्डकट्ठं एदं । अहं उण
जाणे जं मए केदईकण्टएहिं दंसं करिअ सप्पस्स उवरि अ-
असो किदं, तं मे फलिदं ।
(प्रविश्य पटाक्षेपेण ।)
बकुलावलिका—मा दाव भट्टा पबिसदु । कुडिलगई सप्पो
विअ दीसदि ।
इरावती—(स्तम्भान्तरिता राजानमुपेत्य ।) अवि णिव्विग्घमणोरहो
दिवासंकेदो मिहुणस्स ।
(सर्वे इरावतीं दृष्ट्वा संभ्रान्ताः ।)
राजा—प्रिये, अपूर्वोऽयमुपचारः ।
इरावती—बँउलावलिए, दिट्ठिआ दुच्चाहिआअविसआ सं-
पुण्णा दे पडिण्णा ।
१. भर्तः, मा तावत्सहसा निष्क्राम । सर्प इति भण्यते ।
२. हा धिक् हा धिक् । भर्त्ता इत एव धावति ।
३. कथं दण्डकाष्ठमेतत् । अहं पुनर्जाने यन्मया केतकीकण्टकैर्दंशं
कृत्वा सर्पस्योपर्यशः कृतम्, तन्मे फलितम् ।
४. मा तावद्भर्ता प्रविशतु । कुटिलगतिः सर्प इव दृश्यते ।
५. अपि निर्विघ्नमनोरथो दिवासंकेतो मिथुनस्य ।
६. बकुलावलिके, दिष्ट्या दूत्याधिकारविषया संपूर्णा ते प्रतिज्ञा ।
अत्रोद्वेजनाद्युक्तिर्नाम संध्यङ्गमुक्तं भवति॥भर्तः, मा तावत्सहसा निष्क्राम । सर्प
इति भण्यते ॥ हा धिक् हा धिक् । भर्ता इत एव धावति ॥ कथं दण्डकाष्ठमेतत् ।
अहं पुनर्जाने । यन्मया केतकीकण्टकैर्दंशं कृत्वा सर्पस्योपर्यशः कृतम्, तन्मे
फलितम् ॥ मा तावद्भर्ता प्रविशतु । इह कुटिलगतिः सर्प इव दृश्यते ॥ अपि
निर्विघ्नमनोरथो दिवासंकेतो मिथुनस्य ॥ बकुलावलिके, दिष्ट्या दूत्याधिकारवि-
चतुर्थोऽङ्कः । ८३
बकुलावलिका—१पसीददु भट्टिणी । किं णु खु दहुरा वा-
हरन्ति त्ति देवीए पुढवीए देवो वरिसिदुं विरमदि ।
विदूषकः—२मो दाव । भोदीए दंसणमेत्तेण अत्तभवं पणिवा-
दलङ्घणं विसुमरिदो । तुमं उण अज्जवि पसादं ण गेण्हसि ।
इरावती—३कुविदा दाणिं अहं किं करिस्सं ।
राजा—अस्थाने कोप इत्यनुपपन्नं त्वयि । तथा हि ।
कदा मुखं वरतनु कारणादृते
तवागतं क्षणमपि कोपपात्रताम् ।
अपर्वणि ग्रहकलुषेन्दुमण्डला
विभावरी कथय कथं भविष्यति ॥ १६ ॥
इरावती—४अट्ठाणेत्ति सुष्ठु वाहरिदं अज्जउत्तेण । अण्णसंकन्तेसु
अह्माणं भाअहेएसु जदि उण कुप्पेअं, तदो हस्सा भवेअं ।
राजा—त्वमन्यथा कल्पयसि । अहं पुनः सत्यमेव कोपस्थानं
न पश्यामि ।
१. प्रसीदतु भट्टिनी । किं नु खलु दर्दुरा व्याहरन्ती देव्या पृथिव्यां
देवो वर्षितुं विरमति ।
२. मा तावत् । भवत्या दर्शनमात्रेणात्रभवान्प्रणिपातलङ्घनं विस्मृतः ।
त्वं पुनरद्यापि न गृह्णासि ।
३. कुपितेदानीमहं किं करिष्यामि ।
४. अस्थान इति सुष्ठु व्याहृतमार्यपुत्रेण । अन्यसंक्रान्तेष्वस्माकं भाग-
धेयेषु यदि पुनः कुप्येयम्, ततो हास्या भवेयम् ।
षया संपूर्णा ते प्रतिज्ञा ॥ प्रसीदतु भट्टिनी । किं नु खलु दर्दुरा व्याहरन्त्या-
क्रोशन्तीति देव्यां पृथिव्यां देवो वर्षितुं विरमति ॥ मा तावत् । भवत्या दर्शन-
मात्रेणात्रभवान्प्रणिपातलङ्घनं विस्मृतः । त्वं पुनरद्यापि प्रसादं न गृह्णासि ॥
कुपितेदानीमहं किं करिष्यामि ॥ कदेति । स्पष्टोऽर्थः ॥ अस्थान इति सुष्ठु
व्याहृतमार्यपुत्रेण । अन्यसंक्रान्तेष्वस्माकं भागधेयेषु यदि पुनः कुप्येयम्, ततो
८४ मालविकाग्निमित्रे
नार्हति कृतापराधोऽप्युत्सवदिवसेषु परिजनो दण्डम् ।
इति मोचितै मयैते प्रणिपतितुं मामुपगते च ॥ १७ ॥
इरावती—णिंउणिए, गच्छ । देवीं विण्णावेहि । दिठ्ठो भ-
वदीए पक्खवादो णं अज्जत्ति ।
निपुणिका—तह । (इति निष्क्रान्ता ।)
विदूषकः—(आत्मगतम् ।) ३भो, अणत्थो संपडिदो । बन्धणब्भट्टा
गिहकवोदो बिडालिआए आलोए पडिदो ।
(प्रविश्य ।)
निपुणिका—(अपवार्य ।) ४भट्टिणि, जदिच्छादिट्ठाए माहविआए
आचक्खिदं एवं खु एदं णिव्वृत्तंति । (इति कर्णे कथयति ।)
इरावती—(आत्मगतम् ।) ५उववण्णं । सच्चं अअं एत्थ ब्रह्मबन्धुणा
किदो पओओ । (विदूषकं विलोक्य ।) इअं इमस्स कामतन्तसचिवस्स
णीदी ।
१. निपुणिके, गच्छ । देवीं विज्ञापय । दृष्टो भवत्याः पक्षपातो नन्वद्येति ।
२. तथा ।
३. भोः, अनर्थः संपतितः । बन्धनभ्रष्टो गृहकपोतो बिडालिकाया
आलोके पतितः ।
४. भट्टिनि, यदृच्छादृष्टया माधविकयाख्यातम् । एवं खल्वेतन्निर्वृ-
त्तमिति ।
५. उपपन्नम् । सत्यमयमत्र ब्रह्मबन्धुना कृतः प्रयोगः । इयमस्य
कामतन्त्रसचिवस्य नीतिः ।
हास्या भवेयम् ॥ नार्हतीत्यादि । स्पष्टोऽर्थः ॥ निपुणिके, गच्छ । देवीं विज्ञापय ।
दृष्टो भवत्याः पक्षपातो नन्वद्येति ॥ तथा ॥ भोः, अनर्थः संपतितः । बन्धनभ्रष्टो
गृहकपोतः पारावतो बिडालिकाया आलोके पतितः ॥ भट्टिनि, यदृच्छादृष्टया
माधविकयाख्यातम् । एवं खल्वेतन्निर्वृत्तमिति ॥ उपपन्नम्। सत्यमयमत्र ब्रह्मबन्धुना
कृत प्रयोगः । इयमस्य कामतन्त्रसचिवस्य नीतिं ॥ भवती, यदि नीतिगतमेक
चतुर्थोऽङ्कः । ८५
विदूषकः—भोदि, जदि णीदिगदं एकवि अक्खरं पढेअं, णं
मए अत्तभवं पेसिदो हवे ।
राजा—(आत्मगतम् ।) कथं नु खल्वस्मात्संकटादात्मानं मो-
चयिष्यामि ।
(प्रविश्य ।)
जयसेना—देवं, कुमारी वसुलच्छी कन्दुअं अणुधावन्ती पि-
ङ्गलवाणरेण बलिअं तासिदा अङ्कणिसण्णा देवीए पवादकिसलअं
विअ वेवमाणा ण किंचि पकिदिं पडिवज्जइ ।
राजा—कष्टम् । कातरो बालभावः ।
इरावती—(सावेगम्।) तुँवरदु अज्जउत्तो णं समासासिदुं । मा-
से संतासजणिदो विआरो वड्डु ।
राजा—अयमेनां संज्ञापयामि । (इति सत्वरं परिक्रामति ।)
विदूषकः—साँहु रे पिङ्गलवाणर, साहु । परित्तादो तुए स-
पक्खो ।
(निष्क्रान्तौ राजा विदूषकश्च । इरावती निपुणिका प्रतीहारी च ।)
१. भवति, यदि नीतिगतमेकमप्यक्षरं पठेयम्, ननु मयात्रभवान्प्रे-
षितो भवेत् ।
२. देव, कुमारी वसुलक्ष्मीः कन्दुकमनुधावन्ती पिङ्गलवानरेण बलवत्रा-
सिताङ्कनिषण्णा देव्याः प्रवातकिसलयमिव वेपमाना न किंचित्प्रकृतिं
प्रतिपद्यते ।
३. त्वरतामार्यपुत्र एनां समाश्वासयितुम् । मास्याः संत्रासजनितो
विकारो वर्धताम् ।
४. साधु रे पिङ्गलवानर, साधु । परित्रातस्त्वया स्वपक्षः ।
मप्यक्षरं पठेयम्, ननु मयात्रभवान्प्रेषितो भवेत् ॥ देव, कुमारी वसुलक्ष्मीः कन्दु-
कमनुधावन्ती पिङ्गलवानरेण बलवत्रासिताङ्कनिषण्णा देव्याः प्रवातकिसलयमिव
वेपमाना न किंचित्प्रकृतिं प्रतिपद्यते ॥ त्वरतामार्यपुत्र एनां समाश्वासयितुम् ।
मास्याः संत्रासजनितो विकारो वर्धताम् ॥ साधु रे पिङ्गलवानर, साधु । परित्रात-
माल० ८
८६ मालविकाग्निमित्रे
मालविका—हंला, देविं चिन्तिअ वेवदि मे हिअअं। ण
जाणे अदो वरं किं वा अणुहविदव्वं भविस्सदिति।
(नेपथ्ये)
अच्चरिअं अच्चरिअं। अपुण्णे एव पञ्चरत्ते दोहलस्स मुउलेहिं
संगद्धो तवणीआसोओ। जाव देवीए णिवेदेमि।
(उभे श्रुत्वा प्रहृष्टे।)
बकुलावलिका—आससिदु सही। सच्चप्पइण्णा देवी।
मालविका—तेणँ हि पमदवणपालिआए पुट्ठदो होमि।
बकुलावलिका—तँह।
(इति निष्क्रान्ते।)
इति चतुर्थोऽङ्कः।
१. सखि, देवीं चिन्तयित्वा वेपते मे हृदयम्। न जानेऽतः परं
किं वानुभवितव्यं भविष्यतीति।
२. आश्चर्यमाश्चर्यम्। अपूर्ण एव पञ्चरात्रे दोहदस्य मुकुलैः संनद्ध-
स्तपनीयाशोकः। यावद्देव्यै निवेदयामि।
३. आश्वसितु सखी। सत्यप्रतिज्ञा देवी।
४. तेन हि प्रमदवनपालिकायाः पृष्ठतो भवावः।
५. तथा।
स्तया स्वपक्षः। अहमिति शेषः॥ सखि, देवीं चिन्तयित्वा वेपते मे हृदयम्:
न जानेऽतः परं किं वानुभवितव्यं भविष्यतीति॥ आश्चर्यमाश्चर्यम्। अपूर्ण एव
पञ्चरात्रे दोहदस्य मुकुलैः संनद्धस्तपनीयाशोकः। यावद्देव्यै निवेदयामि।
आश्वसितु सखी॥ सत्यप्रतिज्ञा देवी। अत्र देव्यनुग्रहरूपकार्यसंग्रहणादादानं
नाम संध्यङ्गमुक्तं भवति॥ तेन हि प्रमदवनपालिकायाः पृष्ठतो भवावः॥ तथा।
इदं मालविकाकृतमुद्यानपालिकानुसरणमुत्तराङ्कोपयुक्तत्वाद्बिन्दुरित्यनुसंधेयम्।
इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्नि-
चतुर्थोऽङ्कः॥
पञ्चमोऽङ्कः । ८७
पञ्चमोऽङ्कः ।
(ततः प्रविशत्युद्यानपालिका ।)
उद्यानपालिका—उवक्खित्तो मए किदसकारविहिणो तवणी-
आसोअस्स वेदिआबन्धो । जाव अणुद्विदणिओअं अत्ताणं देवीए
णिवेदेमि । (परिक्रम्य ।) अहो दैवस्स अणुकम्पणीआ मालविआ ।
तस्सिं तह चण्डिआ देवी इमिणा असोअकुसुमवुत्तन्तेण पसादसुमुही
भविस्सदि कहिं णु खु देवी हवे । (विलोक्य ।) अह्मो, एसो देवीए
परिअणब्भन्तरो किंपि जदुमुद्दारुन्द्धिदं मञ्जू सं गेण्हिअ चदुस्सा-
लादो कुज्जो सारसिओ णिकमदि । पुच्छिस्सं दाव णं । (उपसृत्य ।)
सारसिअ, कहिं पत्थिदोसि ।
सारसिकः—मेहुअरिए, विज्जाभरीआणं बह्मणाणं णिच्छद-
क्खिणामाडिआ पुरोहिदस्स हत्थं पावइस्सं ।
१. उपक्षिप्तो मया कृतसत्कारविधिस्तपनीयाशोकस्य वेदिकाबन्धः ।
यावदनुष्ठितनियोगमात्मानं देव्यै निवेदयामि । अहो दैवस्यानुकम्पनीया
मालविका । तस्यां तथा चण्डी देव्यनेनाशोककुसुमवृत्तान्तेन प्रसादसुमुखी
भविष्यति । कुत्र न खलु देवी भवेत् । अहो, एष देव्याः परिजनाभ्यन्तरः
किमपि जतुमुद्रालाञ्छितां मञ्जूषां गृहीत्वा चतुःशालातः कुब्जः सारसिको
निष्क्रामति । प्रक्ष्यामि तावदेनम् । सारसिक, कुत्र प्रस्थितोऽसि ।
२. मधुकरिके, विद्याभरितानां ब्राह्मणानां नित्यदक्षिणामाडिका पुरोहि-
तस्य हस्तं प्रापयिष्यामि ।
कविरिदानीमङ्कान्तरमारभमाणः यथासंघटनार्थं प्रथमं प्रवेशकं नामार्थोपक्षेपकं
प्रस्तौति—ततः विशतीत्यादि । उपक्षिप्तो मया कृतसत्कारविधिस्तपनीया-
शोकस्य वेदिकाबन्धः । यावदनुष्ठितनियोगमात्मानं देव्यै निवेदयामि । अहो
दैवस्यानुकम्पनीया मालविका । तस्यां तथा चण्डी देव्यनेनाशोककुसुमवृत्तान्तेन
प्रसादसुमुखी भविष्यति । कुत्र नु खलु देवी भवेत् । अहो, एष देव्याः परिजनाभ्य-
न्तरः किमपि जतुमुद्रालाञ्छितां मञ्जूषां गृहीत्वा चतुःशालातः कुब्जः सारसिको
निष्क्रामति प्रक्ष्यामि तावदेनम् सारसिक, कुत्र प्रस्थितोऽसि ॥ मधुकरिके,
८८ मालविकाग्निमित्रे
उद्यानपालिका—¹किंणिमिचं ।
सारसिकः—²जैदप्पहुदि सेणावदी जण्णतुरंगरक्खणे णिउत्तो
भद्दिदारओ वसुमित्तो, तदप्पहुदि तस्स आउसणिमित्तं णिक्कसदसु-
वण्णपरिमाणं दक्खिणं देवी दक्खिणीएहिं परिग्गाहेदि ।
उद्यानपालिका—³अह कहिं देवी । किं वा अणुचिट्ठदि ।
सारसिकः—⁴मङ्गलघरे आसणत्था भविअ विदब्भविसाआदो
भादुणा वीरसेणेण पेसिदं लेहं लेहकरेहिं वाइअंमाणं सुणादि ।
उद्यानपालिका—को⁵ उण विदब्भराअव्वुत्तन्तो सुणीअदि ।
सारसिकः—⁶वसीकिदो किल वीरसेणप्पमुहेहिं भत्तुणो विजअ-
दण्डेहिं विदब्भणाहो मोइदो से दाआदो माहवसेणो । दूदो अ
१. किंनिमित्तम् ।
२. यदाप्रभृति सेनापतिर्यज्ञतुरंगरक्षणे नियुक्तो भर्तृदारको ˚वसुमित्रः,
तदाप्रभृति तस्यायुर्निमित्तं निष्कशतसुवर्णपरिमाणां दक्षिणां देवी दक्षिणीयैः
परिग्राहयति ।
३. अथ कुत्र देवी । किं वानुतिष्ठति ।
४. मङ्गलगृह आसनस्था भूत्वा विदर्भविषयाद्भात्रा · वीरसेनेन प्रेषितं लेखं
लेखकैर्वाच्यमानं शृणोति ।
५. कः पुनर्विदर्भराजवृत्तान्तः श्रूयते ।
६. वशीकृतः किल वीरसेनप्रमुखैर्भर्तुर्विजयदण्डैर्विदर्भनाथः । मोचितो-
ऽस्य दायादो माधवसेनः । दूतश्च तेन महासाराणि रत्नानि वाहनानि शि-
ल्पकारिकाभूयिष्ठं परिजनमुपायनीकृत्य भर्तुः सकाशं प्रेषित इति ।
यिष्यामि ॥ किंनिमित्तम् ॥ यदाप्रभृति सेनापतिर्यज्ञतुरंगरक्षणे नियुक्तो भर्तृदारको
वसुमित्रः, तदाप्रभृति तस्यायुर्निमित्तं निष्कशतसुवर्णपरिमाणां दक्षिणां देवी
दक्षिणीयैः परिग्राहयति । दक्षिणीयो दक्षिणार्हः । 'कडङ्करदक्षिणाच्च च' इति छप्र-
त्ययः ॥ अथ कुत्र देवी । किं वानुतिष्ठति ॥ मङ्गलगृह आसनस्था भूत्वा विदर्भ-
विषयाद्भात्रा वीरसेनेन प्रेषितं लेखं लेखकैर्वाच्यमानं शृणोति । कः पुनर्विदर्भरा-
जवृत्तान्तः श्रूयते ॥ वशीकृतः किल वीरसेनप्रमुखैर्भर्तुर्विजयदण्डैर्विदर्भनाथः ।
पञ्चमोऽङ्कः । ८९
तेण महासाराणि रअणाणि वाहणाइ सिप्पआरिआभूइट्ठं परिअणं
उवाअणीकरिअ भट्ठिणो सआसं पेसिदोत्ति ।
उद्यानपालिका—अहं वि देवीए सआसं गच्छम्हि । तुमं वि
अत्तणो णिओअं अणुचिट्ठ ।
(इति निष्क्रान्तौ ।)
इति प्रवेशकः ।
(ततः प्रविशति प्रतीहारी ।)
प्रतीहारी—आणत्तम्हि असोअसक्कारवावुदाए देवीए । विण्णावे-
हि अज्जउत्तेण सह असोअरुक्खस्स पसूनलच्छिं पच्चक्खीकादुंति ।
ता जाव धम्मासणगदं देवं पडिवालेमि । (इति परिकामति ।)
(नेपथ्ये वैतालिकाः ।)
प्रथमः—दिष्ट्या दण्डैरेव रिपुशिरःसु वर्तते देवः ।
परभृतकलव्याहारेषु त्वमाचरतिर्मधुं
नयसि विदिशातीरोद्यानेष्वनङ्ग इवाङ्गवान् ।
विजयकरिणामालानत्वं गतैः प्रबलस्य ते
वरद वरदारोधोवृक्षैः सहावनतो रिपुः ॥ १ ॥
१. अहमपि देव्याः सकाशं गच्छामि । त्वमप्यात्मनो नियोगमनुतिष्ठ ।
२. आज्ञाप्तास्म्यशोकसत्कारव्यापृतया देव्या । विज्ञापय आर्यपुत्रेण
सहाशोकवृक्षस्य प्रसूनलक्ष्मीं प्रत्यक्षीकर्तुमिति । तद्यावद्धर्मासनगतं देवं
प्रतिपालयामि ।
मोचितोऽस्य दायादो माधवसेनः । दूतश्च तेन महासाराणि रत्नानि वाहनानि शिल्प-
कारिकाभूयिष्ठं परिजनमुपायनीकृत्य भर्तुः सकाशं प्रेषित इति ॥ अहमपि देव्याः
सकाशं गच्छामि । त्वमप्यात्मनो नियोगमनुतिष्ठ ॥ ततः प्रविशतीत्यादि ।
आज्ञाप्तास्म्यशोकसत्कारव्यापृतया देव्या । विज्ञापय आर्यपुत्रेण सहाशोकवृक्षस्य
प्रसूनलक्ष्मीं प्रत्यक्षीकर्तुमिति । तस्माद्यावद्धर्मासनगतं देवं प्रतिपालयामि ॥
परभृतेत्यादि । स्रग्धोऽधैः ॥ विरचितेति । क्रथकैशिकान्विदर्भदेशान्मध्ये-