सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

: 'उचितत्वात्' - 'त्त्वात्'. Look at 'वर्णनस्योचितत्वात्'.
Look at L10: 'स्वीकर्तुं' / 'स्वीकृतुं युक्तम्'.
Look at 'ललितासहस्रनाम' at the top (L1): the 'ल' in 'ललिता' has the modern form: loop left, loop down, vertical stem on right.
Now look at the end of L22:
Neither of the two characters looks like that 'ल'!
Wait! What do they look like?
They look like: 'ळ' 'ळ' or 'ड' 'ढ'?
Wait, could it be "डढयोरभेदात्"?
No, wait! Look at the top bar: each has a hook?
Wait, what about "रलयोरभेदात्"?
Is the first one 'र'? No.
Wait, let's search Sanskrit literature for:
"हकारस्य सर्वमूलत्वेन व्यष्टौ गणनाभावाच्चेति तद्व्याख्यातारः"
Let's search Google mentally for Bhaskararaya's Saubhagyabhaskara:
Under the name 'बहुरूपा':
Text of Saubhagyabhaskara:
"सूतसंहितायां तु —
एकधा च द्विधा चैव तथा षोडशधा स्थिता ।
द्वात्रिंशद्भेदभिन्ना वा या तां वन्दे परात्पराम् ॥
इति । द्वि

सौभाग्यभास्करव्याख्या । १६७
नात्र संशय' इति । सर्वमेतदभिप्रेत्योक्तं नारसिंहोपपुराणे 'उमैव बहुरूपेण पत्नीत्वेन
व्यवस्थिते'ति । त्रिपुरासिद्धान्तेपि 'लोपामुद्रा च सौभाग्या महाविद्या च षोडशी ।
दाराः परशिवस्यैताः कथितास्तु वरानने । श्यामला शुद्धविद्या च हयारूढा परा प्रिया ।
दाराः सदाशिवस्यैते ज्ञातव्याः परमेश्वरी । महार्था द्वादशार्था च वाराही बगलामुखी ।
तुरीया भुवनेशी च श्रीपरा शांभवी शिवे । दारा रुद्रस्य तस्यैव शृणु सत्यं न संशयः ।
श्रीतिरस्करणी लक्ष्मीर्मिश्रा कामकला प्रिये । विष्णोर्दारा इति ख्याता अन्नपूर्णा
शिवस्य च । वाग्वादिनी च बाला च पत्न्यौ ते ब्रह्मणः शिवे । नव दूत्यो हसन्ती
च नव सिद्धाश्च देवताः । इमा अन्याश्च रूपाणि बहूनि तव सुन्दरी'ति । एवं बहु-
रूपानामभिरुक्तिरपि प्रतिमहापुराणं प्रत्युपपुराणं प्रतितन्त्रं च बहुरूपैवोपलभ्यते ।
विस्तरभयात्तु न लिख्यते । बुधैर्ज्ञानिभिरर्चिता पूजिता । 'चतुर्विधा भजन्ते मां जनाः
सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभे'ति गीतावचनात् । प्रकर्षेण
वियदादिप्रपञ्चं प्रजा वा सूत इति प्रसवित्री । तदुक्तं विष्णुधर्मोत्तरे 'प्रजानां च प्रस-
वनात्सवित्रेति निगद्यत' इति । भगवतीपुराणेऽपि 'ब्रह्माद्याः स्थावरान्ताश्च यस्या एव
समुद्गताः । महदादिविशेषान्तं जगद्यस्याः समुद्गतम् । तामेव सकलार्थानां प्रसवित्रीं परां
नुम' इति ॥ अथ परिभाषामण्डले एकोनपञ्चाशन्नामानि विभजते । गुरु-
गीर्णे विभजचतुर्गुणदंगोमुदुचतुर्मतांशार्धम् । द्विर्गुणगुणितां लिखितां
चतुःखचरता देहदुर्चि रोषात् ॥ २९ ॥ अत्र तृतीयचतुःशब्दोऽष्टाक्षरनामसंख्या-
परः इतरौ चतुरक्षरसंख्यापरौ ॥ २९ ॥ प्रकृष्टाश्चण्डाः कोपना यस्या दूताः सा । 'चडि
कोपे' । अतएव 'भीषास्माद्वातः पवते' इति श्रुतिः । 'न यस्य कोपोऽणुरपि प्रजास्तस्य
न बिभ्यति । सैतां नीतिं कथं रक्षेत्प्रजा यस्य न बिभ्यती'ति कामन्दकश्च । भयप्र-
दललिङ्गादेव हि 'महद्भयं वज्रमुद्यत'मिति श्रुतौ वज्रपदं ब्रह्मपरमित्युक्तं कम्पनाधि-
करणे । प्रकृष्टा प्रीतिविषयत्वेन चण्डा शङ्खपुष्पी यस्या इति वा । प्रतापशीलेति वा ।
'चण्डा धनहरी शङ्खपुष्पी चण्डोऽतिकोपने । प्रचण्डो दुर्बहे श्वेतकरवीरे प्रतापिनी'ति
विश्वः । आज्ञा । वेदे प्रवर्त्तनानिवर्तनापरपर्यायभगवदिच्छारूपा । अतएव लैङ्गे
शिववचनं 'नह्येषा प्रकृतिर्जीवो विकृतिर्वा विचारतः । पुरा ममाज्ञा मद्गात्रात्समुत्पन्ना
सनातनी । पञ्चवक्त्रा महाभागा जगतामभयप्रदे'ति । शिवपुराणेपि 'रुद्राङ्गैषा स्थिता
देवी ह्यनया मुक्तिरन्वये'ति ज्ञेत्येकाक्षरमपि सुवचनम् । गुणभोक्तृपुरुषस्वरूपेत्यर्थः ।
'कथयन्ति ज्ञशब्देन पुरुषं गुणभोगिन' मिति लैङ्गात् । 'ज्ञो विरिञ्चौ बुधे सौम्य'इति कोशा-
द्बुधविधिरूपा वा । 'ज्ञः कालकालो गुणी सर्वविद्य'इति श्रुतिरपि । सर्वजगतोऽधि-
ष्ठानत्वात्प्रतिष्ठन्त्यस्यां विश्वमिति प्रतिष्ठा । 'विश्वस्य जगतः प्रतिष्ठे'ति श्रुतेः । उक्तं च
ब्रह्मगीतायां 'प्रतिष्ठा सर्ववस्तूनां प्रज्ञैषा परमेश्वरी'ति । षोडशाक्षरं छन्दोऽपि प्रतिष्ठा ।
जलतलनिष्ठकलाविशेषोऽपि प्रतिष्ठा । तल्लक्षणं च शैवागमे 'शिवरागाणुरकात्मा स्थाप्यते
पौरुषे यया । सा प्रतिष्ठा कला ज्ञेये'ति । 'प्रतिष्ठास्थानमात्रके । गौरवे यागनिष्प-

• १६८ ललितासहस्रनाम ।

प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी ।
विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥ २०७ ॥

त्तिचतुरक्षरपद्ययो'रिति विश्वः । अत्र पद्यशब्दः पादपरो व्याख्येय इति निर्णीतं
छन्दोभास्करेऽस्माभिः । प्रकटा सर्वैरनुभूयमाना आकृतिः रूपं यस्याः ।
तदुक्तं सूतसंहितायां 'तमहंप्रत्ययव्याजात्सर्वे जानन्ति जन्तवः । तथापि शिवरूपेण
न विजानन्ति मायये'ति । प्रकटाख्या योगिन्यः प्रथमावरणगतास्तद्रूपा वा ।
अप्रकटेति वा छेदः । रहस्यरूपेत्यर्थः । अप्सु प्रकटेति वा । 'अपामेका
महिमानं बिभर्ति' । 'आपो वा इदं सर्वं' मित्यादिश्रुतेः ॥ २०६ ॥ प्राणा-
नामिन्द्रियाणामधिष्ठातृत्वादीश्वरी । 'ज्योतिराद्यधिष्ठानं तु तदामनना'दित्यधि-
करणे तदधिष्ठातृदेवतासद्भावस्य स्थापितत्वात् । प्राणस्य पञ्चवृत्तिकस्याधिपतिर्वा ।
'प्राणस्य प्राण' इति श्रुतेः । प्रकृष्टोऽणः शब्दो वेदरूपस्तदीश्वरी तत्प्रतिपाद्यदेवता ।
'सर्वे वेदा यत्पदमानन्ती'ति श्रुतेः । प्राणानां दात्री सर्वजगज्जीवयित्री एकादशे-
न्द्रियाणां दात्री वा । 'प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ती'ति श्रुतौ प्राणा इति-
पदस्येन्द्रियपरत्वेन तथा व्याख्यानदर्शनात् । 'सप्तगतेर्विशेषितत्वाच्चे'ति द्वितीयीका-
धिकरणे तथा निर्णयाच्च । पञ्चाशच्छब्दोऽयं प्रकृते लक्षणयैकपञ्चाशत्परः । सांनिध्यरूप-
शक्यसंबन्धात् । अतएव 'नित्यानन्दवपुर्निरन्तरगलत्पञ्चाशदर्णैः क्रमा'दिति शारदा-
तिलकश्लोके पञ्चाशत्पदमेकपञ्चाशत्परतयैव व्याख्यातं हर्षदीक्षितैः । प्रायेण दशर्विं-
शत्यादिदशक शब्दानां शतसहस्रादिशब्दानां चैकद्वित्रिन्यूनाधिकभावे बहुलमात्रविव-
क्षया च लोके प्रयोगः प्रचुरं दृश्यते । अथवा सहस्रे शतमितिन्यायेनावयुत्याप्यनुवादो
नवावतारे दशावतारा इति जगत्पतावयोध्याधिपतिरिति च व्यवहारस्य कंचना-
वान्तरोपाधिसमुदाय दर्शनात् । किंबहुना द्वात्रिंशच्छब्दोऽपि पञ्चत्रिंशद्यजनेषु सूतसं-
हितायां प्रयुक्तः पूर्वं दर्शितः । तदिह पञ्चाशत एव मातृकाणामन्तर्मातृकान्यासे विनि-
योगाल्ळयोरभेदाद्वा क्षकारस्य पार्थक्याभावाद्वाऽक्षमालायां तस्य मेरावेव निवेश-
नेन मणीनां पञ्चाशत्त्वाद्वा पञ्चाशन्मातृकेति व्यवहारेऽप्येकपञ्चाशत्परतैव तस्य वक्तव्या ।
अतएव बहिर्मातृकान्यासप्रकरणेऽपि 'पञ्चाशल्लिपिभिर्विभक्तमुखदोर्येन्मध्यवक्षःस्थलं'
'पञ्चाशद्वर्णभेदैर्विहितवदनदोःपादयुक्कुक्षिवक्ष' इत्यादयः कवीनां प्रयोगाः । एकपञ्चाशतो
न्यासमुक्त्वा तदन्ते 'पञ्चाशद्वर्णरूपेयं कंदर्पशशिभूषणे'त्यादयो ज्ञानार्णवादितन्त्रप्रयोगा-
श्चोपपद्यन्ते । मातृकासमानयोगक्षेमत्वादेव 'श्रीकण्ठाद्याश्च पञ्चाशतपञ्चाशत्केशवा-
दय'इत्यादयोऽपि तन्त्रसारसंग्रहादौ प्रयोगा एकपञ्चाशतपरा एव । तेन कामरूपादि-
च्छायाछन्नान्तैकपञ्चाशत्पीठानि रुपमस्या इत्यर्थः । अतएव षोढान्यासान्तर्गते पीठ-
न्यासे एकपञ्चाशत्पीठानां न्यासः । उक्तं च ब्रह्माण्डपुराणे स्पष्टतरम् 'ततः पीठानि
पञ्चाशदेकं चक्रगतो न्यसे'दित्यारभ्य 'लिपिक्रमसमायुक्तान् पीठस्थानेषु विन्यसे'दि-

ल्यन्तम् । योगिनीहृदयेऽपि ‘पीठानि विन्यसेद्देवि मातृकास्थानके प्रिये’ इत्यारभ्य ‘एते
पीठाः समुद्दिष्टा मातृकारूपकास्थिता’इत्यनेन मातृकास्थानोक्त्यैकपञ्चाशत्त्वमेव प्रक-
टीकृतम् । तद्व्याख्यायामप्यकारादिक्षकारान्तानामेकैकं वर्णमेकैकस्यादावुक्त्वा ‘तत्तत्स्था-
नेषु पीठानां न्यासं कुर्या’दित्युक्तम् । एतेनेदृशनामस्वारस्यात्पीठन्यासेऽपि क्षकारस्था-
नपरित्यागेन पञ्चाशत एवेति सुन्दरीमहोदयकाराणां लेखः साहसमात्रत्वान्नादर्तव्यः ।
नह्यस्य नाम्नो विधिरूपत्वं येन पीठन्यास एकस्य पीठस्य परिसंख्या स्यात् । नच
ज्ञानार्णवे ‘पञ्चाशतपीठसंचयात् । पञ्चाशतपीठविन्यासं मातृकावत्स्थले न्यसे’दित्युपक्र-
मोपसंहाराभ्यां तथा निर्णय इति वाच्यम् । पञ्चाशतपदस्यैकपञ्चाशतपरताया उक्तत्वात् ।
अन्यथा तत्रैवैकपञ्चाश

१७० ललितासहस्रनाम ।
मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी ।
यत्रादुर्भावाभावानुभवात् । आत्मानात्मविवेकशीलेषु तिष्ठतीति वा । वीरा उपासकधुरं-
धरा, रणे अभिमुखे हता वा । तेषां माता जननी हितकर्तृत्वात् 'वीरं मद्यस्य भाजने'
इति विश्वकोशात्पानपात्रं तन्मातीति वा । अथवा वीराह्वयो गणेश्वरोऽम्बया पुत्रत्वेन
स्वीकृत इति वीरमाता । तथाच पद्मपुराणे वीरकं प्रकृत्य शिववाक्यम् 'स एष वीरको
देवि सदा मे हृदयप्रियः । नानाश्र्चर्यगुर्द्धारि गणेश्वरगणर्चित'इत्यादितत्प्रशंसाश्रव-
णोत्तरं 'देव्युवाच । ईदृशस्य सुतस्यास्ति ममोत्कण्ठा पुरान्तक । कदाहमीदृशं पुत्रं
द्रक्ष्याम्यानन्ददायकम् । शिव उवाच । एष एव सुतस्तेऽस्तु नयनानन्दहेतुकः । त्वया
पुत्रः कृतार्थः स्याद्वीरकोऽपि सुमध्यमे । सूत उवाच । इत्युक्त्वा प्रेषयामास विजयां
हर्षणोत्सुका । वीरकानयनायाशु दुहिता भूभृतः सखी'मित्यादि । वियत आकाशस्य
प्रसूर्जनित्री । 'आत्मन आकाशः संभूत'इति श्रुतेः ॥ २०७॥ मुक्तिं ददातीति
मुकुन्दा । पृषोदरादिः । विष्णुरूपत्वाद्वा । तदुक्तं तन्त्रराजे गोपालमन्त्रभेदारम्भे
'कदाचिदाद्या ललिता पुंरूपा कृष्णविग्रहा । स्ववंशवादनारम्भादकरोद्विश्र्वं जगत् ।
ततः स गोपीसंज्ञाभिरावृतोऽभूत्स्वशक्तिभिः । तदा तेन विनोदाय खं षोढाऽकल्पयद्वपु'-
रित्यादि । रत्नविशेषादिरूपा वा । 'मुकुन्दः पुण्डरीकाक्षे रत्नभेदेऽपि पारद'इति
विश्वः । मुक्तीनां पञ्चविधमोक्षाणां निलय आकरो यस्याम् । बालावगलादिशक्तीनां
मूलभूतो यो राजराजेश्वरीविग्रहः स एव रूपमस्याः । तथाच गौडपादीयानि दश
सूत्राणि 'सैवं विद्ये'त्यारभ्य 'खयमूर्द्धाकारेणे'त्यन्तानि एकस्या एव विद्यायाः शाम्भ-
वीविद्याश्यामाभेदेन त्रैविध्यं प्रतिपाद्य तास्वेकैकस्या अनेकशक्तिजनकत्वं विशिष्य
प्रतिपादयन्ति । भावाज्ञानातीति भावज्ञा । 'भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्म-
सु'इत्यमरः । 'भावो योनिबुधार्थेषु कृपालीलाविभूतिष्वि'त्यमरशेषः । 'तस्य भावस्त्व-
तला'विति सूत्रे धर्मोऽपि भावः । 'भावप्रधानमाख्यात'मिति स्मृतौ भावनापि भावः ।
'धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते' । 'अस्ति जायते वर्धते'इत्यादयो यास्क-
परिगणिता विकारा अपि षड्भावाः । भवो भक्तिर्भजनीयोऽस्य भावः । तार्किक-
संमताः षट्पदार्था अपि भावाः । भवः संसारः स एव भावः । तत्संबन्धिनः सांसारिका
अपि भावाः । भवः शिवस्तत्क्षेमे शैवा अपि भावाः । भवो भक्तिर्भजनीयोऽस्य भावः
'भक्ति'रिति पाणिनिसूत्रेणाण्व । भा कान्तिस्तां वान्ति गच्छन्ति सूर्यादयोऽपि
भावाः । भक्तिरपि भावः । योगिनीहृदये कथिते मन्त्रार्थषट्के प्राथमिकोऽर्थोऽपि
भावः । भवः संसार एव रोगस्तं हन्ति 'नान्यं पश्यामि भैषज्यमन्तरेण वृषध्वज'मिति
रामायणात् । 'व्याधीनां भेषजं यद्वत्प्रतिपक्षस्वभावतः । तद्वत्संसाररोगाणां प्रतिपक्षः
शिवाभव'इति शिवपुराणाच्च । भवचक्रं संसारमण्डलं प्रवर्तयति, भवचक्रवत्प्रवर्तयतीति
वा । तदुक्तं मनुस्मृतौ 'एषा सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः । जन्मवृद्धिक्षयै-

सौभाग्यभास्करव्याख्या । १७१
भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ॥ २०८ ॥
छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
र्नित्यं संसारयति चक्रव'दिति । विष्णुभागवतेऽपि 'त्वमेव सर्वजगतामीश्वरो बन्ध-
मोक्षयोः । तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं हर'मिति । भवचक्रमनाहतचक्रं वा
तत्र शिवस्यावस्थानात् । ननु कोणपत्रसमुच्चयस्यैव चक्रपदवाच्यत्वमिति तान्त्रिक-
सिद्धान्तादनाहते कोणाभावात्कथं चक्रपदेन तदुपस्थितिः । अतएव 'अनाहताब्जनिल-
ये'त्येव प्रयोगः । केवलपत्रसमुदाये पद्मत्वं केवलकोणसमुदाये यन्त्रत्वमिति सिद्धा-
न्तादितिचेन्न । कोणत्वाभिप्रायेण मूलाधारादिष्वपि चक्रव्यवहार इति वदद्भिर्विद्या-
रत्नभाष्यकारैरेवमेव समाहितत्वात् । पत्रेषु कोणत्वारोपाद्गौणव्यवहार इति तदाशय
इति केचित् । तन्न । कोणत्वविवक्षायां यन्त्रत्वविवक्षाभावेन यन्त्रव्यवहारस्यैवापत्तेः ।
अतस्तत्कर्णिकोपरि त्रिकोणस्य सत्त्वादित्येव भाष्याशयं युक्तमुत्पश्यामः । बिन्दुचक्रा-
ष्टदलषोडशदलवृत्तत्रयभूगृहत्रयाणि श्रीचक्रान्तर्गतानि वा भवचक्राणि । भवस्य शिवस्य
चक्रं मनः प्रवर्तयतीति वा । 'चक्रं हि मन एवे'ति विष्णुपुराणे 'चलत्स्वरूपमत्यन्तं
जवेनान्तरितानिलम् । चक्रस्वरूपं च मनो धत्ते विष्णुः करे स्थित'मिति ॥ २०८ ॥
छन्दःशब्दो वेदपरो गायत्र्यादिपरो वा पैङ्गलतन्त्रपरो वा । 'छन्दः पद्ये च वेदे च
स्वैराचाराभिलाषयो'रिति विश्वः । परो वादी । सारशब्दो न केवलं पुंलिङ्गः ।
'संसारे किं सारं' 'सा दशा वै तान्तवी'त्यादिप्रयोगात् । 'सारो बले मज्जनि च
स्थिरांशे न्याय्ये च नीरे च धने च सारम् । वेदेऽन्यवत्सारमुदाहरन्ती'ति च विश्वः ।
अत्र स्थिरांशशब्दो निष्कृष्टांशपरः अनिष्कृष्टस्यास्थिरत्वात् । ततश्च वेदे उपनिषद्भा-
गोऽस्याः स्वरूपनिष्कर्षः । छन्दःसु सारो निष्कर्षो यस्या इति विग्रहः । गायत्र्यादि-
छन्दःसु निष्कृष्टं रूपं गायत्रीमन्त्रस्तस्यापि निष्कर्षः पञ्चदशी । तदिदमुक्तं वरिव-
स्यारहस्येऽस्माभिः 'तज्ज्ञानार्थमुपाया विद्या लोके चतुर्दश प्रोक्ताः । तेष्वपि च
सारभूता वेदास्तत्रापि गायत्री । तस्या रूपद्वितयं तत्रैकं यत्प्रपद्यते स्पष्टम् । वेदेषु
चतुर्ष्वपि परमत्यन्तं गोपनीयतरम् । कामो योनिः कमलेत्येवं संकेतितैः शब्दैः ।
व्यवहरति न तु प्रकटं यां विद्यां वेदपुरुषोऽपि' । आथर्वणेऽपि त्रैपुरसूक्ते षोडशर्चे
'कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः । पुनर्गुहा सकला मायया
च पुरूच्यैषा विश्वमाता च विद्ये'त्यस्यामृचि कादिविद्याया उद्धारः । पैङ्गलतन्त्रे हि
'द्विकौ ग्लौ । मिश्रौ च'इति सूत्रद्वयेन महाप्रस्तारः प्रतिपादितः सचानवधिकस्यापि
शब्दजालस्य निःशेषेण ज्ञानोपायः । सच छन्दोभास्कर एवास्माभिः प्रकटीकृतः
छन्दःशास्त्रे । बलं माहात्म्यं यस्या वैखर्याः सरस्वत्या इत्यर्थः । यद्वा 'यत्र यत्र मनस्तु-
ष्टिर्मनस्तत्रैव धारयेत् । तत्र तत्र परानन्दस्वरूपं संप्रकाशत'इति विज्ञानभैरवभट्टारको-
क्तरीत्योपासकधौरेयस्य यत्रेच्छा स एव धर्मः । यत्र नेच्छा स एवाधर्मः । उक्तं च

१७२ ललितासहस्रनाम ।
उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ॥ २०९ ॥
जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी ।
शाकुन्तले 'सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तय' इति । समयाचार-
स्मृत्युक्तो निर्बन्धोऽपि प्रौढोल्लासावधिक एव 'प्रौढान्तं समयाचारा' इति कल्पसूत्रात् ।
सर्वमेतदभिप्रेत्य कौलोपनिषदि श्रूयते 'मघोऽधर्मः अधर्मो धर्म' इति । योगिनी-
हृदयेऽपि 'पिबन्नृत्यन्मन्वन्खादन्स्वैराचारपरः खयम् । अहन्तेदन्तयोरैक्यं भावय-
न्विहरेत्सुख'मित्युक्तरीत्येदशमनःसमाधिमतामिच्छाविषयोऽर्थो नियमेन धर्म एव भव-
तीत्येतदभिप्राया । स्मृतिष्वपि 'श्रुतिः स्मृतिः सदाचार आत्मनस्तुष्टिरेव चे'ति धर्म-
प्रमाणेषु मनःप्रवृत्तेर्गणनीदृशसमाहितमनःपरमेव । अन्यथातिप्रसङ्गात् । ईदृशं स्वैरा-
चरणं सारं न्याय्यं यस्या इत्यर्थः । अभिलाष इच्छा सारो निष्कृष्टरूपं यस्या इति वा ।
देव्या इच्छाशक्तिस्वरूपत्वात् । सारपदस्य श्रेष्ठपदत्वे तु विशेष्यनिघ्नत्वान्नास्त्येव स्त्रीलि-
ङ्गत्वानुपपत्तिः । एवमुत्तरनामद्वयेऽपि 'शास्त्रयोनित्वा' दिति सूत्राद्ब्रीहिशास्त्रं यवशास्त्र-
मित्यादि तान्त्रिकाच्च व्यवहाराच्छास्त्रशब्दो वेदपरस्तदनुसारिमीमांसादिपरो वा । तदुक्तं
भामत्याम् 'प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रम-
भिधीयत' इति । मन्त्रशब्दोऽपि 'कास्प्रत्ययादाममन्त्रे लिटि' इत्यादिव्यवहाराद्वेदपरस्ता-
न्त्रिकमनुपरस्तत्प्रतिपादकचतुःषष्टितन्त्रपरो वा । तलं करतलादि तद्वत्कृशं समं चोदरं
नतु न्युब्जं भेर्यादिवदुच्छूनं यस्याः । अकारप्रश्लेषेणातलाह्वयो लोक एवोदरं यस्या
विराड्रूपाया इत्यप्यर्थः सुवचः । उदारा महत्तरा कीर्तिर्यस्याः । उत्कृष्टा आसम-
न्ताद्यासा च अरा शीघ्रसाध्या च कीर्तिर्यदुपासनयेति वा । 'लघुक्षिप्रमरं द्रुत' मित्य-
ग्निपुराणीयकोशः । ऋकारो देवमातृवाचकः । आ अरौ अरः इति रूपाणि । उः
अपत्यानि अरा देवाः तानुत्क्रान्ता कीर्तिर्ययेति वा । आरं मङ्गलमुत्क्रान्ता वा ।
यत्कीर्तनं मङ्गलादिदुष्टग्रहदोषनिरासकमिति यावत् । आदित्यमण्डलान्तर्गतं सगुणं
चैतन्यमुत्पदवाच्यम् । 'य एषोऽन्तरादित्ये हिरण्मयः पुरुष' इत्यधिकृत्य 'तस्योदिति
नामे'ति श्रुतेः । तस्मिन्नारा आयुधविशेषो यस्या ईदृशी कीर्तिर्यस्या इति वा । 'आरा
चर्मप्रसेविके'तिकोशात् । उत् पुरुषस्य दुःखप्रदा यत्कीर्तिरिति यावत् । तत्कीर्तिर्जैत्री
कीर्तिर्यदुपासनया भवतीति तात्पर्यम् । आसमन्ताद्यासोऽरः सुधाहदस्तद्वदुत्कृष्टा
कीर्तिर्यस्या इति वा । सगुणब्रह्मोपासकानां प्राप्ये परब्रह्मन्गरे अपराजिताख्ये 'अरश्च
ण्यश्चेति द्वौ सुधाहदावर्णवत्तुल्यौ वर्तेते'ति श्रुतिषु प्रसिद्धम् । 'अनावृत्तिः शब्दा'दिति
सूत्रे श्रीमदाचार्यभगवत्पादैरप्युक्तं 'दाम बन्धनरज्जुः परिच्छेत्री तदुत्क्रान्तमुद्दामेयत्ता-
नवाच्छिन्नं वैभवं यस्याः । वर्णाश्चतुःषष्टिसंख्याका रूपमस्याः । तदुक्तं पाणिनिशि-
क्षायाम् 'त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शंभुमते मताः । प्राकृते संस्कृते चापि स्वयं
प्रोक्ताः स्वयंभुवे'ति ॥ २०९ ॥ जन्मादित्रितयेन तप्तेभ्यो जनेभ्यो विश्रान्तिभिर्दुःखा-

व -> स्व? No, ख?
Wait, look at स्व in स्वात्मनः (line 16): स्व.
In line 18: ल then ख? च?
Wait, let's look at: प्रवर्तकलस्वच्छलगम्भीरत्वा-?
Wait, look at: ल ख च्छ ल? No!
Could it be प्रवर्तकल्लसच्छलगम्भीरत्वा-?
Wait! प्रवर्तकत्वतच्छलगम्भीरत्वा-?
Let's compare:
ल - is it ल? Yes, looks like a standard Devanagari ल.
Then ख or स्व? It has a loop on the left and a vertical line: like ख or स्व or त्व?
Wait, in स्व, the circle is on the bottom of स. Here, it has two lobes on the left connected to a vertical line on the right: that's ख! Or व?
Wait, look at च्छ after it! च्छ has च + छ.
Before च्छ is ख or ल?
Wait, let's look at the verse in other editions:
"प्रवर्तकत्वात् स्वच्छत्वगम्भीरत्वादिधर्मतः" !

१७४ ललितासहस्रनाम ।
कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता ।
कनत्कनकतातङ्का लीलाविग्रहधारिणी ॥ २१२ ॥
अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी !
वेदान्तवाक्यार्थतत्त्वनिष्कर्षोऽपि काष्ठा । तदुक्तं सूतसंहितायां 'प्रतीतमप्रतीतं वा
सदसच्च परः शिवः । इति वेदान्तवाक्यानां निष्ठा काष्ठेति कथ्यत' इति । 'सा काष्ठा
सा परा गति'रिति श्रुतिश्च । यद्वा गगनात्मकस्य भीमनामकस्य परशिवस्य पत्नी
खर्गमाता देवी दिक्खरूपत्वात्काष्ठेत्युच्यते । तथाच लैङ्गे 'चराचराणां भूतानां सर्वे-
षामवकाशदः । व्योमात्मा भगवान्देवो भीम इत्युच्यते बुधैः । महामहिम्नो देवस्य
भीमस्य परमात्मनः । दक्षस्वरूपा दिक्पत्नी सुतः खर्गश्च सूरिभि'रिति । वायुपुरा-
णेऽपि 'नाम्ना षष्ठस्य या भीमा तनुराकाश उच्यते । दिशः पत्न्यः स्मृतास्तस्य खर्गस्तस्य
सुतः स्मृत' इति । क्रान्त्या तिष्ठतीति काष्ठेति नैरुक्ताः । 'अत्यतिष्ठद्दशाङ्गुल'मिति श्रुतिः ।
'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जग' दिति स्मृतिश्च । अकान्तेति त्र्यक्षरं नाम ।
'अकं पापे च दुःखे च' तयोरन्तो नाशो यया सा । विग्रहस्य शरीरस्यार्धमर्धविग्रहः ।
'अर्धं नपुंसक'मिति समासः । कान्तः परशिव एवार्धविग्रहो यस्याः । कान्तस्यार्धं का-
न्तार्धं, कान्तार्धे विग्रहो यस्या इति वा । नचैतत्पक्षेऽर्धकान्त इति रूपापत्तिः । अत्रत्यार्ध-
पदस्य नियतलिङ्गत्वस्वीकारात् नियतनपुंसकलिङ्गस्यैव पूर्वनिपातविधानात्कः पुनः
पुंलिङ्ग इत्यादिश्रश्नोत्तरपरे महाभाष्ये पुंलिङ्गवदस्या नियतलिङ्गपरत्वेन कैयटीये व्याख्या-
नात् । तथाच भगवान्पिङ्गलनागः प्रयुङ्क्त 'खरा अर्धं चार्यार्ध'इति । वस्तुतस्तु अर्ध-
विग्रहा इत्यत्र कर्मधारय एव समासः । षष्ठीतत्पुरुषे तु विग्रहार्धमित्येवापद्येत ।
अतएव परवल्लिङ्गसूत्रे महाभाष्ये 'अर्धं नपुंसक'मिति सूत्रं प्रत्याख्यातमित्यन्यदेतत् ।
तेन कान्तार्धमिति समासेऽपि समप्रविभागवचनत्वमेवार्थशब्दस्य द्रष्टव्यम् । कका-
रस्यान्तः कान्तः खकारस्तेन द्यौर्लक्ष्यते । अर्धशब्दो भागमात्रपरः । तेन द्यौः
शरीरैकदेशो यस्या इत्यर्थ इति वा । 'पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवी'ति
मन्त्रवर्णात् ॥ २११ ॥ कार्याणि महत्तत्त्वादीनि कारणं मूलप्रकृतिः तैर्विनिर्मुक्ता ।
चैतन्ये तेषां परमार्थतोऽभावात् 'न तस्य कार्यं करणं च विद्यत'इति श्रुतेः । कामस्य
कामेश्वरस्य केलीनां क्रीडाविलासानां तरङ्गाः परम्पराः संजाता अस्याः । कनती
दीप्यमाने कनकस्य सुवर्णमये ताटङ्के कर्णामरणविशेषौ यस्याः । लीलयानायासेन
विग्रहानवतारविशेषान्धारयति पद्मराजस्य महिषी लीलादेवी तद्विग्रहधारिणी वा ।
सा च योगवासिष्ठे प्रसिद्धा 'आसीदस्मिन्महीपाल कुले पद्मो विकासवान् । पद्मोनामे'-
त्युपक्रम्य 'तस्यासीत्सुभगा भार्या लीला नाम पतिव्रते'ति ॥ २१२ ॥ जन्मरहि-
त्यादजा । 'अजामेका'मिति श्रुतेः, 'न जातो न जनिष्यत'इति श्रुतेश्च । महाभारतेऽपि
'नहि जातो न जायेऽहं न जनिष्ये कदाचन । क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः

सौभाग्यभास्करव्याख्या । १७५
अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ॥ २१३ ॥
त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
स्मृत' इति । जननं हि मृत्युसमव्यासम् । 'जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य
चे'ति वचनात् । तदिह जननाभावरूपव्यापकविरुद्धोपलब्ध्या प्राप्तमर्थमाह । क्षयेण
मरणेन विनिर्मुक्ता । क्षये गृह एव विशिष्य निर्मुक्ता ययेति वा । मुमुक्षुभिर्विषयभिया
गृहत्यागः क्रियते । सुन्दर्युपासकैस्तु गृहएव मोक्षः प्राप्यत इति तात्पर्यम् । तदि-
दमुक्तमस्माभिः शिवस्तुतौ 'यदि परमिच्छसि धाम त्यज मा नाम खकं धाम ।
परपदनिगमनदाम स्मर हृदि कामद्विषो नामे'ति दुर्वासाप्याह । सङ्गं सोमोक्षतीति
मुग्धा सौन्दर्यवती । अकारप्रश्लेषेण न सन्ति मूढा यस्या इत्यपि सुवचम् । 'मुग्धः
सुन्दरमूढयो'रिति विश्वः । क्षिप्रं स्वल्पदिनैरेव प्रसीदतीति तथा । अतएवोक्तं सौर-
पुराणे 'क्रमेण लभ्यतेऽन्येषां मुक्तिराराधनाद्विजाः । आराधनाडुमेशस्य तस्मिञ्जन्मनि
मुच्यत' इति । इदं तु तीव्रतरभक्तिमत्पुरुषधौरेयपरम् । अन्येषां तु शिवपुराणे स्मर्यते
'अल्पभावेऽपि यो मर्त्यः सोऽपि जन्मत्रयात्परम् । न योनियन्त्रपीडायै भविष्यति
न संशय' इति । तदिमां व्यवस्थामभिप्रेत्योक्तं तन्त्रराजे 'अन्यथा संप्रदायेन जपहो-
मार्चनादिकम् । कृतं जन्मान्तरे सम्यक्संप्रदायाय कल्पत' इति । अन्तः स्वात्मप्रवणं
मुखं चित्तवृत्तिर्येषां तैः सम्यगाराध्या । बहिर्विषयैकप्रवणं मुखं येषां तेषां सुष्ठु दुर्लभा ।
'तरलकरणानामसुलभे' त्यानन्दलहर्याम् ॥ २१३ ॥ 'स्त्रियामृक्सामयजुषी इति
वेदास्त्रयस्त्रयी'ति कोशाद्वेदत्रयरूपा । तथाच कूर्मपुराणे हिमवन्तं प्रति देवीवचनम्
'ममैवान्या परा शक्तिर्वेदसंज्ञा पुरातनी । ऋग्यजुःसामरूपेण सर्गादौ संप्रवर्तत' इति ।
पद्मपुराणेऽपि 'आन्वीक्षिकी त्रयी देवि दण्डनीतिश्च कथ्यस' इति । देवीपुराणेऽपि
'ऋग्यजुःसामभागेन साङ्गवेदगता यतः । त्रयीति पठ्यते लोके दृष्टादृष्टप्रसाधनी'ति ।
नित्यातन्त्रे तु 'अकारादिः सामवेदो ऋग्वेदश्च तदादिकः । यजुर्वेद इकारादिस्तेषां
संयोगतः शुचिः । तन्निष्पत्तिं शृणु प्राज्ञे प्रोक्तानूर्ध्वाधरक्रमात् । विलिख्य योजयेत्पूर्वं
शब्दशास्त्रानुसारतः । गुणसंध्या ऋग्यजुषं ततस्तेनापरं तथा । वृद्धिसंध्या समायुं-
ज्यादित्युत्पन्नं शुचेर्वपुः । तेन त्रयीमयी विद्या कार्यकारणयोगत' इत्युक्तम् । अत्र
शुचिशब्देन वाग्भवं बीजमुच्यते । तेन तद्रूप्येत्यर्थो वा । 'त्रिवर्गो धर्मकामार्थै'रिति
कोशः तस्य निलयः स्थानं यस्याम् । त्रिषु भूतादिकालेष्वकारोकारमकारेषु वा स्था
स्थितिर्यस्याः । त्रिषु लोकादिष्वभेदेन तिष्ठतीति वा त्रिस्था । तदुक्तं मार्कण्डेयपुराणे
'त्रयो लोकास्त्रयो देवास्त्रैविद्यं पावकत्रयम् । त्रीणि ज्योतींषि वर्गाश्च त्रयो धर्मादय-
स्तथा । त्रयो गुणास्त्रयः शब्दास्त्रयो दोषास्तथाश्रमाः । त्रयः कालास्तथावस्थाः पित-
रोऽहर्निशादयः । मात्रात्रयं च ते रूपं त्रिस्थे देवि सरस्वति'ति । अन्तर्दशारचक्रा-
भिमानिनी देवता त्रिपुरमालिनी ॥ अथ परिभाषामण्डलेऽष्टत्रिंशन्नामानि

१७६ : ललितासहस्रनाम ।
निरामया निरालम्बा स्वात्मारामा सुधास्रुतिः ॥ २१४ ॥
संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता ।
यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ॥ २१५ ॥
विभजते ॥ चतुरर्धभवो देवो वदन्विभेदं विशांगमार्गेण । गौणतरङ्गमतेः
खलु शांभोर्वादं चरत्र्यंघ्रिः ॥ ३० ॥ स्पष्टम् ॥ ३० ॥ निर्गता आमया रोगा
यया । सर्वा​लम्बनस्यालम्बान्तरायोगात्निरालम्बा । तथात्वेऽनवस्थापत्तेः । साच
मूलक्षयकरीत्यसावनालम्बनमेव साधयति । स्वात्मन्येवारामः क्रीडनं यस्याः ।
स्वात्मानमेव द्वेधा विभज्यान्योन्यं क्रीडमानेति यावत् । तथाच माध्यन्दिना अधीयते
‘स वै न रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत् स हैतावानास यथा स्त्रीपुमांसौ
संपरिष्वक्तौ स इममेवात्मानं द्वेधा पातयत्ततः

सौभाग्यभास्करव्याख्या । १७७
धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी ।
विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ॥ २१६ ॥
विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।
दिनिर्देशात् । उक्तं च लैङ्गे 'पञ्चभूतानि चन्द्रार्कावात्मेति मुनिपुंगवाः । मूर्तिरष्टौ शिव-
स्याहुर्देवदेवस्य धीमतः । आत्मा तस्याष्टमी मूर्तिर्यजमानाह्वया परे'ति ॥ २१५ ॥
तत्तद्देशेषु शिष्टपरम्परायाता वेदाविरुद्धाः क्रिया धर्मपदवाच्याः । तथाच संवर्तस्मृतिः
'१यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः । आम्नायैरविरुद्धश्च स धर्मः परिकीर्तित'
इति । तेषामासमन्तात्सर्वदेशेषु धारा निरर्गलप्रवाहः । धर्म आधारो यस्या वा
धर्मे तिष्ठतीत्युपचारात् । 'धर्मे सर्वं प्रतिष्ठित'मिति श्रुतेः । धर्म आधारो यया वा ।
धर्मस्य सर्वाधारत्वं यत्कृतमिति यावत् । धनस्याध्यक्षा स्वामिनी । उपास्योपासक-
योरभेदात् । कुबेररूपा वा । धनानि धान्यानि च विशेष्य वर्धयति वेदशास्त्रादिविद्या-
वन्तो ब्राह्मणा विप्राः । तदुक्तं ब्रह्मवैवर्ते 'जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते ।
विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यत'इति । ते प्रिया अभीष्टा यस्याः ।
'अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनु'रिति भगवद्वचनेन विप्रेषु कैमुतिक-
न्यायेन प्रीतिसिद्धेः । उक्तवचनादेव तादृशा विप्राः रूपं स्वरूपं यस्याः । अतएव
श्रूयते 'यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ती'ति । पराशरस्मृतिरपि
'ब्राह्मणा जंगमं तीर्थं त्रिषु लोकेषु विश्रुतम् । येषां वाक्योदकेनैव शुद्ध्यन्ति मलिना
जना'इति । अथवा विप्रान्रूपयति पूर्वरूपवतः करोत्याप्याययतीति वा । यस्या
मन्त्रजपादिना ब्राह्मणानामाप्यायनं भवतीति यावत् । तदुक्तमापस्तम्बस्मृतौ 'अप-
मानात्तपोवृद्धिः सन्मानात्तपसः क्षयः । अर्चितः पूजितो विप्रो दुग्धा गौरिव सीदति ।
आप्यायते यथा ह्रस्तु तृणैरमृतसंभवैः । एवं जपैश्च होमैश्च पुनराप्यायते द्विज'इति ।
विश्वेषां ब्रह्माण्डानां भ्रमणं सृष्टिस्थितिनाशलक्षणं यातायातं कारयति । 'स्वभावमेके
कवयो वदन्ति कालं तथाऽन्ये परिमुह्यमानाः । देवस्यैष महिमा तु लोके येनेदं
भ्राम्यते ब्रह्मचक्र'मिति श्रुतेः । देवनिष्ठो महिमा शक्तिरेव भ्रामिकेत्यर्थः । 'भ्रामयन्स-
र्वभूतानि यन्त्रारूढानि मायये'ति स्मृतिश्च । विश्वशब्दो विष्णुपरो वा 'विश्वं विष्णु-
र्वषट्कार'इत्युक्तेः तस्य भ्रमणकारिणी । स्मर्यते तावत्कालिकापुराणेऽयमितिहासः—
विष्णुरेकदा व्योममार्गेण गरुडारूढो गच्छन्नधः कामरूपदेशे नीलाचलवासिनीं
कामाख्यां देवीं प्रत्यासन्नामप्यनादृत्य तामप्रणम्यैव गतः । ततस्तत्कोपवशात्समुद्रमध्ये
पतितस्तत्रैव भ्रमन्नासीत् । ततः कियता कालेन गवेषयन्ती लक्ष्मीनारदमुखादिमं
वृत्तान्तमाकर्ण्य तपसा कामाख्यां प्रसाद्य विष्णुं सावधानीकृत्य भ्रमणादमोचयत् ।
ततः सोऽपि तामाराध्य वैकुण्ठलोकमध्यवात्सीदिति ॥ २१६ ॥ विश्वं चराचरं ग्रसतीति
१ 'देशे देशे य आचार' इति पाठः.

१७८ , ललितासहस्रनाम ।
अयोनिर्योनिनिलया कूटस्था कुलरूपिणी ॥ २१७ ॥
विश्वग्रासा । चराचरसंहन्त्रीत्यर्थः । तथात्वं काठके श्रूयते 'यस्य ब्रह्म च क्षत्रं चोभे भवत
ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स' इति । अत्र मृत्योरुपसेचनत्वोक्त्या
तत्संहार्थचराचरप्रतीतेरित्याशयेन ब्रह्मसूत्रं 'अत्ता चराचरग्रहणा' दिति । विद्रुमाः प्रवा-
लास्तद्वदारक्ता विद्रुमाभा । वित् ज्ञानमेव द्रुमः पुन्नानुपुङ्गप्रसृतलसाम्यात्तेन तुल्येति
वा । विष्णोरियं वैष्णवी । तथाच देवीपुराणे 'शङ्खचक्रगदा धत्ते विष्णुमाता तथारिहा ।
विष्णुरूपायंवा देवी वैष्णवी तेन गीयत' इति । अत्र चतस्रो व्युत्पत्तयः सूचिताः ।
तथारिहंत्यस्य विष्णुरिव दैत्यान्हन्तीत्यर्थः । विष्णुरूपेत्यस्य तदभिन्नेत्यर्थः । तेन न
प्रथमव्युत्पत्त्या गतार्थता । तदेवाह । विष्णुरेव रूपमस्याः । तदुक्तं ललितोपाख्याने
ब्रह्माण्डपुराण एव 'ममैव पौरुषं रूपं गोपिकाजनमोहन' मिति देवीवचनात् ।
तत्रैव वीरभद्रंप्रति विष्णुवचनम् 'आद्या शक्तिर्महेशस्य चतुर्धा भिन्नविग्रहा । भोगे
भवानीरूपा सा दुर्गरूपा च संगरे । कोपे च कालिकारूपा पुंरूपा च मदात्मिके'ति ।
कूर्मपुराणेऽपि हिमवत्कृतदेवीस्तवे 'सहस्रमूर्धानमनन्तशक्तिं सहस्रबाहुं पुरुषं पुराणम् ।
शयानमब्धौ ललिते तवैव नारायणाह्वयं प्रणतोऽस्मि रूप' मिति । कौर्मे एव मङ्कणंकंप्रति
शिवेन विश्वरूपे दर्शिते 'किमेतद्भगवद्रूपं सुघोरं विश्वतोमुखम् । का च सा भगवत्पार्श्वे
राजमाना व्यवस्थिते'ति मत्पृष्टेन शिवेन स्वस्वरूपप्रभावं निर्वण्योक्तम् 'मम सा
परमा माया प्रकृतिस्त्रिगुणात्मिका । प्रोच्यते मुनिभिः शक्तिर्जगद्योनिः सनातनी ।
स एव मायया विश्वं व्यामोहयति विश्ववित् । नारायणः परोऽव्यक्तो मायारूप इति
श्रुति'रिति । सनत्कुमारसंहितायां प्रभाकराख्यस्य राज्ञो विष्णुभक्तिं तन्महिष्याः
पद्मिन्याख्यायाश्च पार्वतीभक्तिं वर्णयित्त्वोक्तम् 'एवं देव्यात्मना स्वेन रूपेण च
जनार्दनः । दंपत्योरेककायत्वादेक एव द्विधार्चित' इति । बृहत्पाराशरस्मृतावपि 'दुर्गां
कात्यायनीं चैव यजन्वाग्देवतामपि । चेतसा सुप्रसन्नेन विष्णुलोकमवाप्नुया' दिति ।
पद्मपुराणेऽपि 'चण्डिकां स्नपयेद्यस्तु ऐक्षवेण रसेन च । सौपर्णेन स यानेन विष्णुना
सह मोदत' इति । आदित्यपुराणशिवपुराणयोरपि 'या तस्य पार्श्वगा बाला सा पार्व-
त्यंशजो हरि'रिति । वामनपुराणेऽपि 'पौर्णमास्यां तु यो माघे पूजयेद्विधिव-
च्छिवाम् । सोऽश्वमेधमवाप्नोति विष्णुलोके महीयत' इति । न विद्यते योनिः कारणं
यस्याः साऽयोनिः । योनिशब्दः स्थानवचनो वा 'योनिष्ट इन्द्र निषदे अकारी' ति श्रुतेः ।
हे इन्द्र, तव निषदे उपवेशनाय मया स्थानं कृतमित्यर्थात्, तेन स्थानरहिता अपरि-
च्छिन्नैत्यर्थः । अस्य विष्णोर्योनिर्जनिका मातेति वा । निलीयते जगद्यस्यामिति निलया
योनिश्चासौ निलया च । योनिशब्दः प्रकृतिपरः । 'कर्तारमीशं पुरुषं ब्रह्मयोनि' मिति
श्रुतौ प्रयोगात् । कर्तारं क्रियाशक्तिमन्तमेशं नियन्तारं पुरुषं प्रत्यञ्चं ब्रह्म पूर्णे
योनिं ध्यानेनापश्यन्निति व्याख्यानात् । 'योनिश्च हि गीयत' इति ब्रह्मसूत्रं च । यद्वा

सौभाग्यभास्करव्याख्या । १७९

वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।

'यो योनिं योनिमधितिष्ठत्येक'इति श्रुतौ मायापरत्वेनापि योनिपरस्य व्याख्यानदर्श-
नाद् योनिर्मायैव निलयः परिच्छेदिका यस्या इति । योनीनां जगत्कारणानां ब्रह्मा-
दीनां नितरां लयो यस्यामिति वा । योनिश्चक्रमेव निलयो यस्या बिन्दुरूपाया
देव्या इति वा । अतएवाथर्वणे शौनकशाखायां श्रूयते 'तस्मिन्हिरण्मये कोशे त्र्यक्षरे
त्रिप्रतिष्ठिते । तस्मिन्यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदु'रिति । अस्या ऋचः पूर्वे 'अ-
ष्टाचक्रा नवद्वारा देवानां पूरयोध्या । तस्यां हिरण्मयः कोशः स्वर्गोऽपि ज्योतिषा
वृत'इति श्रुतम् । अनयोर्ऋचोरर्थः-देवानाम्प्ययोध्या असाध्या दुर्लभा पूः नगरी
श्रीचक्रमित्यर्थः । 'चक्रं पुरं च सदनमगारं च गुहा स्त्रिया'मिति शंकरारण्यधृतविश्वा-
ख्यकोशात् । ईश्वरावासरूपायोध्यानगरी तु मर्त्यानामयोध्या । इयं तु देवानाम्पी-
त्यर्थः । सा कीदृशी । अष्टाचक्रा अष्टौ चक्राणि अष्टारं द्वे दशारे मन्वस्रं अष्टदलषो-
डशदले पद्मे अमित्रयं भूपूरत्रयं चेति यस्यां सा । नवसंख्यानि द्वाराणि योनिद्वारव-
त्रिकोणानि यस्यां सा । 'पञ्चशक्तिचतुर्वह्निसंयोगाच्चक्रसंभव'इति नित्याहृदये । 'स्वाभि-
मुखाग्रत्रिकोणं शक्तिः, पराङ्मुखाग्रत्रिकोणं वह्नि'रिति मन्त्रशास्त्रीया परिभाषा ।
तस्यामयोध्यायां हिरण्मयस्तेजोमयः कोशो निधानं त्रिकोणरूपं स एव स्वर्गः सुखरूप-
त्वात् । तैत्तिरीयाणां स्वर्गो लोक इति पाठस्तस्याप्ययमेवार्थः । तस्मिन्हिरण्मय इत्यादि-
सप्तम्यन्तं पञ्चकं समानाधिकरणं स्पष्टार्थम् । त्रिकोणे यदस्ति बिन्दुरूपं चक्रं तस्मिन्
यक्षं पूज्यं तत्प्रसिद्धं ब्रह्मविद आत्मनीव विदुः । आत्माभेदेनेव बिन्दूभेदेनापि ब्रह्म
मन्यन्त इत्यर्थः । कूटयति छलयत्यात्मानमानन्दादिकमावृत्य संसारे पातयतीति
कूटमज्ञानं तदध्यक्षतया तत्र तिष्ठति । 'कूटस्थमचलं ध्रुव'मिति स्मृतेः । कूटस्याज्ञानस्य
स्था स्थितिर्यस्यां वा । कूटो गिरिश्रृङ्गं तद्वन्निष्क्रियतया तिष्ठतीति वा । अयस्कारैः प्रहा-
राधिकरणत्वेन भूमौ निखातो लोहविशेषः कूटस्तद्वन्निर्विकारा वा । कूटानां विश्वस-
मूहानां स्थितिर्यस्यां वा । वाग्भवादिकूटत्रये तिष्ठतीति वा । कूटं पुरद्वारं श्रीचक्रान्त-
र्गतत्रिकोणं तत्र तिष्ठतीति वा । 'कूटं यन्त्रेऽनृते राशौ निश्चले लोहमुद्गरे । मायाद्रि-
श्रृङ्गयोस्तुच्छे सीरावयवदम्भयोः । पुरद्वारे च शंसन्ती'ति विश्वः । कुलं कौलमार्गो
बाह्यपूजा वंश आचारो वा तद्रूपिणी ॥ २१७ ॥ वीराणां गोष्ठी सभा संलापो वा
प्रिया यस्याः । स्वयमपि वीर्यवत्त्वाद्वीरा । 'पतिपुत्रवती वीरे'ति तु नाममालायाम् ।
निर्गतानि कर्माणि यस्मात्स निष्कर्मा तस्य भावो नैष्कर्म्यं तद्वती नैष्कर्म्या । अर्श-
आदित्वान्मत्वर्थीयोऽप्रत्ययः । स्वार्थे वा ष्यञ् । कर्मलेपाभाववतीत्यर्थः । 'लिप्यते
न स पापेने'ति स्मृतेः 'न पुण्यपापे ममे'ति श्रुतेश्च । योगसूत्रमपि 'क्लेशकर्मविपाका-
शयैरपरामृष्टः पुरुषविशेष ईश्वर'इति ॥ इति भास्कररायेण कृते सौभाग्यभास्करे ।
नवमेन शतेनाभूद्दशमी बोधिनी कला ॥ ९०० ॥ इति श्रीमल्ललितासहस्रना-
मभाष्ये नवमशतकं नाम दशमी कला ॥ १० ॥

१८० ललितासहस्रनाम ।
विज्ञानकलना कल्या विदग्धा बैन्दवासनी ॥ २१८ ॥
तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी ।
सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ॥ २१९ ॥
नादः प्रणवशिरःस्थितस्तद्रूपा । तदुक्तमभियुक्तैः 'आनन्दलक्षणमनाहतनाम्नि देशे
नादात्मना परिणतं तव रूपमीशे । प्रत्यङ्मुखेन मनसा परिचीयमानं शंसन्ति नेत्रस-
लिलैः पुलकैश्च धन्या'इति । नादे रूपमस्या वा । तदुक्तं स्वच्छन्दतन्त्रे 'रोधिन्याख्यं
यदुक्तं ते नादस्तस्योर्ध्वसंस्थित'इत्यादिना 'तस्योत्सङ्गगतामूर्ध्वगामिनीं परमां शिवाम् ।
ध्याये'दित्यन्तेन । विज्ञानस्य ब्रह्मसाक्षात्कारस्य . कलना स्वात्मसाक्षात्कारः 'चतुर्दशानां
विद्यानां धारणं हि यथार्थतः । विज्ञानमिति तद्विद्यादिति कौर्मोक्तं वा विज्ञानम् ।
कलासु साधुः कल्या । यद्वा कलयितुमर्हा कल्या उषःकालरूपा वा । कादम्बर्या-
दिरूपा वा । 'कल्यं सर्गे प्रभाते च कल्यो नीरोगदक्षयोः । कल्या कल्याणवाची
स्यात्कादम्बर्यामपि स्मृते'ति विश्वः । विदग्धा चातुर्यशीला । भ्रुवोरुपरिभागे वृत्तसं-
निवेशो बैन्दवं तदासनं यस्याः । उक्तं च स्वच्छन्दतन्त्रे 'हाकिनीमण्डलादूर्ध्वं बिन्दु-
रूपं तु वर्तुल'मित्यादिना तत्र पद्मं शिवं च वर्णयित्वा तस्य 'वामभागे समासीना
शान्त्यतीता मनोन्मनी'त्यादिना बिन्दुसंबन्धिचक्रं सर्वानन्दमयाख्यमेवासनं यस्या वा ।
बिन्दूनां समूहो बैन्दवं तदेवासनं तदभिधेयार्थानामाधारोऽभिधायको यस्या इति वा ।
तथाच ज्ञानार्णवतन्त्रे 'बिन्दुव्यूहं प्रवक्ष्यामि बीजरूपं वरानने । हकारं बिन्दुरूपेण
ब्रह्माणं विद्धि पार्वति । सकारं बिन्दुसर्गाभ्यां हरिश्चाहं सुरेश्वरि । अविनाभावसंबन्धौ
लोके हरिहराविति' इत्यादिना वामादीनामिच्छादीनां भूरादीनां जाग्रदादीनां च त्रयं
त्रयं बिन्दुरूपमेवोक्त्वोपसंहृतम् 'एवं बिन्दुत्रयैर्योगात्त्रिपुरानामरूपिणी'ति । यद्वा अका-
रप्रश्लेषेणाप्सु यद्वैन्दवमिन्दुसमूहस्तस्मिञ्जीवकदम्बे आस्ते बिम्बरूपत्वादभेदेन स्वयमे-
कैव बहुषु प्रतिबिम्बेषु तिष्ठति । 'एकधा बहुधा चैव दृश्यते जलचन्द्रव'दिति श्रुतेः
॥ २१८ ॥ तत्त्वानि प्रलयपर्यन्तस्थायिवस्तूनि षट्त्रिंशत्संख्यान्येव । घटादीनां तत्त्व-
पदवाच्यत्वाभावात् । उक्तं चाभियुक्तैः 'आप्रलयं यत्तिष्ठति सर्वेषां भोगदायि भूता-
नाम् । तत्तत्त्वमिति प्रोक्तं न शरीरघटादि तत्त्वमत'इति । तेभ्योऽधिका तन्नाशेऽप्य-
वस्थानात् । तत्त्वमयी तत्त्वप्रचुरा । यद्वा तत्त्वं शिवतत्त्वं तदधिका चिन्मयी चेति
नामद्वयार्थः । संप्रज्ञातासंप्रज्ञातसमाधिद्वयरूपेति यावत् । तदुक्तं ज्ञानार्णवे 'स्वयं प्रज्ञात
संज्ञस्तु शिवाधिक्येन जायते । असंप्रज्ञातनामा तु शिवतत्त्वेन वै भवेत्' । तल्लक्षणे
अपि तत्रैव 'स्वयंप्रज्ञातभेदस्तु तीव्रतीव्रतरो भवेत् । असंप्रज्ञातभेदस्तु मन्दमन्दतर-
स्तया । हास्यरोदनरोमाञ्चकम्पस्वेदादिलक्षणः । तीव्रतीव्रतरो देवि समाधिरुपलक्षितः ।
निमेषवर्जिते नेत्रे वपुस्तल्लक्षणं स्थितम् । मन्दमन्दतरो देवि समाधिरुपलक्षित'इति ।
इदं च द्वयं तेजोविशेषे मनोधारणेन भवति । तच्च तेजः स्वनाथमुखादवगन्तव्यम् ।

..."
Wait, if it's "सौम्येत्यादिद्विपाठे", let's transcribe it as "सौम्येत्यादिद्विपाठे" or "सौम्येत्याद्विद्विपाठे"?
Wait, look at the prompt: "transcribe the text line by line into pure, clean Markdown in Unicode Devanagari".
If it's "सौम्येत्यादिद्विपाठे", let's look at line 22:
'सौ' 'म्ये' 'त्या' 'दि' 'द्वि' 'पा' 'ठे'
Yes, 'दि' followed by 'द्वि'!
Wait, is the first one 'दि'?
Yes, the vertical part goes down to the baseline, standard for 'दि'. The second one has 'द्वि'.
So: "सौम्येत्यादिद्विपाठे तु चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् ।"

Line 23:
श्यामलाशुद्धविद्याश्वारूढादिरूपेत्यर्थः ॥ २१९ ॥ सव्यश्चापसव्यश्च मार्गश्च सव्यापसव्य-

Line 24:
मार्गास्तेषु स्थिताधिकृता । वितरणपालनाधिकारादिदानक्षमेति यावत् । तेषां त्रयाणां

Line 25:
स्था स्थितिर्यस्यामिति वा । सन्ति हि सवितृमण्डलस्योत्तर-दक्षिण-मध्य-भागभेदेन

Line 26:

१८२ ललितासहस्रनाम ।.

मार्ग उच्यत'इति । याम्या भरणी । आदित्या अदितिदेवत्या पुनर्वसुः । मार्गौ
मृगवीथी । स्पष्टमन्यत् । अत्र सव्यादयस्त्रयोऽपि शब्दाः प्रत्येकं मार्गत्रयस्यापि
वाचकाः संभवन्ति । तथाहि 'वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिण'मिति कोशात्प्र-
कृते सव्यशब्देन नागवीथीगजवीथ्यैरावतवीथ्यात्मक उत्तरो मार्गो विवक्ष्यते । अपस-
व्यशब्देन लजवीथीमृगवीथीवैश्वानरवीथ्यात्मको दक्षिणो मार्गः । मार्गशब्देन सामा-
न्यवाचिनैव परिशेष्यादार्षभवीथीगोवीथीजारद्गववीथ्यात्मको मध्यमो मार्ग उच्यते ।
यद्वा उत्तरमार्गौ मृगशीर्षसंबन्धित्वेन मृगस्यायं मार्ग इति व्युत्पत्त्या मार्गपदेनोच्यते ।
मध्यमस्तु सव्यपदेन दक्षिणमार्गात्सव्यस्थानीयत्वात् । अपसव्यस्तु यथास्थित एव । यद्वा
'सव्यं दक्षिणवामयो'रिति कोशाद्दक्षिणमध्यमार्गावेव सव्यापसव्यपदेनोच्येते । उत्तरस्तु
मार्गपदेनेति त्रयाणां मार्गाणां वामसंस्थक्रमेण निर्देशः संपद्यते । अथवा दक्षिणमार्ग
एव मृगवीथीसंबन्धित्वादुक्तव्युत्पत्त्या मार्गपदेनोच्यताम् । मध्यमस्तु सव्यपदेन मार्गाद्वा-
मत्वात् उत्तरमार्गापेक्षया दक्षिणत्वाद्वा । अतएव तद्विरुद्धत्वादुत्तरो मार्गोऽपसव्यः ।
मध्यम एव वापसव्यपदेन उत्तरमार्गापेक्षया दक्षिणस्थानीयत्वात्सव्यपदेन तूत्तरएवेति
दक्षिणसंस्थक्रमेणापि निर्देशः संपनीपद्यत इत्येका व्याख्या ॥ एवंवा ॥ सव्यो देवयानो-
ऽर्चिरादिमार्गों निवृत्तिपरैः प्राप्यः । अपसव्यः पितृयाणो धूमादिमार्गः प्रवृत्तिपरैः प्राप्यः।
मार्गस्थशब्दो मार्गेषु स्था स्थितिर्यस्यादिति व्युत्पत्त्या ध्रुवावस्थितिशालिविष्णुलोकपरः ।
आदित्यादिग्रहाणां स्वस्वमार्गे स्थापनस्य ध्रुवाधीनत्वात् । ईदृशमार्गत्रयरूपेत्यर्थः ।
एतद्विस्तरस्तु विष्णुपुराणे द्वितीयेऽंशे 'उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम् ।
पितृयाणः स वै पन्था वैश्वानरपथाद्बहिः । तत्रासते महात्मानो ऋषयो ह्यग्निहोत्रिणः ।
भूतारम्भकृतं ब्रह्म शंसन्तो ऋत्विगुद्यताः । प्रारभन्ते तु ये लोकास्तेषां पन्थास्तु
दक्षिणः । चलितं ते पुनर्ब्रह्म स्थापयन्ति युगे युगे । संतततपसा चैव मर्यादाभिः
श्रुतेन च । जायमानाश्च पूर्वे च पश्चिमानां गृहेषु वै । पश्चिमाश्चैव पूर्वेषां जायन्ते
निधनेष्विह । एवमावर्तमानास्ते तिष्ठन्ति नियतव्रताः । सवितुर्दक्षिणं मार्गं श्रिता
ह्याचन्द्रतारक'मिति । लोकालोकपर्वतस्योत्तरशृङ्गमगस्त्यस्थानम् । तदुक्तं मत्स्यपुराणे
'लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् । तस्योत्तरमगस्त्यस्य शृङ्गं देवर्षि-
पूजित'मिति । अजवीथ्याः मूलादिनक्षत्रत्रयस्य वैश्वानरपथाच्चरमनक्षत्रत्रयात् भूतार-
म्भकृतं ब्रह्मप्रवृत्तिमार्गबोधकं कर्मकाण्डात्मकं वेदभागम् । जायमाना इति मृता
अपि स्वकुल एव पुनःपुनर्जायमाना इति समुदायार्थः । तथा तत्रैव 'नागवीथ्युत्तरं
यच्च सप्तर्षिभ्यश्च दक्षिणम् । उत्तरः सवितुः पन्था देवयानस्तु स स्मृतः । तत्र ते
वशिनः सिद्धा विमला ब्रह्मचारिणः । संततिं ये जुगुप्सन्ति तस्मान्मृत्युजितश्च ते ।
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् । उदक्पन्थानमर्यम्णः स्थिताश्चाभूतसंप्लवम् ।
ते संप्रयोगाल्लोभस्य मैथुनस्य च वर्जनात् । इच्छाद्वेषाप्रवृत्त्या च भूतारम्भविवर्जनात् ।
पुनश्चाकामसंयोगादिच्छादेर्दोषदर्शनात् । इत्येवं कारणैः शुद्धास्तेऽमृतत्वं हि भेजिरे ।

आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते । त्रैलोक्यस्थितिकालेऽयमपुनर्मार उच्यत'इति ।
नागवीथ्युत्तरं अश्विन्यादित्रयोत्तरम् । भूतारम्भविवर्जनात् प्रवृत्तिमार्गपरित्यागात् ।
तृतीयमार्गेण सह फलैक्यं माप्रसाङ्क्षीदत आह—आभूतसंप्लवमिति । तथा तत्रैव
'ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः । एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भांसुरम् ।
निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम् । स्थानं तत्परमं विप्र पुण्यपापपरिक्षये ।
अपुण्यपुण्योपरमे क्षीणाशेपार्तिहेतवः । यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ।
दिवीव चक्षुराततं योगिनां तन्मयात्मनाम् । विवेकज्ञानदृष्टं च तद्विष्णोः परमं पद'
मित्यादि । इत्यपरा व्याख्या ॥ एवंवा ॥ उपासनाक्रमे हि द्वौ मार्गौ दृश्येते वाममार्गो
दक्षिणमार्गश्चेति । तत्र वाममार्गो नाम स्वस्ववर्णाश्रमविहितानि यावन्ति कर्माणि,
श्रौतान्यग्निहोत्रादीनि, स्मार्तान्यष्टकादीनि, तान्त्रिकाणि मन्त्रसिद्ध्यादीनि तेषु सर्वेषु या
या देवताः प्रधानभूता अङ्गभूता वा तत्तत्स्थाने खोपास्यामेव देवतां सर्वत्र भावयेत् ।
तत्तद्देवतावाचकपदोत्तरं विशेष्यत्वेन खदेवतावाचकपदं सर्वमन्त्रेषु निक्षिपेदित्याकारकः ।
ईदृशे मार्गे देवर्षिपितॄणामृणशोधनाभावजन्यं पातकम् । दक्षिणमार्गे तु श्रौतादितत्तत्क-
र्माङ्गदेवतास्थाने खोपास्यदेवतेव भावनीयेति न निर्बन्धः अपितु तत्तद्देवताविषयक-
तन्त्रेषु यानि कर्माणि विहितानि तदङ्गत्वेनैवेति सर्वकर्मणामुपरोधाभावादस्मिन्मार्गे
तादृशं पातकं नास्तीति झडिति मोक्षः । वाममार्गे तु विलम्बितः । ऋणशोधनाभावेन
कंचित्कालं प्रतिबन्धात् । नचैवं सत्यनुष्ठानतोऽपि कठिने मोक्षांशेऽपि विलम्बिते साधने
कथं शिष्टानां वाममार्गे प्रवृत्तिरिति वाच्यम् । ऐहिकानामुच्चावचफलानामिवैव जन्मनि
भोगलिप्सया मोक्षे स्वल्पविलम्बस्य सोढव्यत्वात् । भुक्तिमुक्तिप्रदत्वेन वैषयिकशिष्टानां
प्रवृत्तिसंभवात् । ऐहिकभोगविरक्तशिष्टानां तु मोक्षे विलम्बस्यासोढव्यत्वादक्षिण एव
मार्गे प्रवृत्तिरिति विवेकः । तदिदं सविस्तरं निरूपितं कालिकापुराणे 'सर्वत्र देवीमन्त्रेषु
वैदिकेष्वपि भैरवीम् । त्रिपुरां चिन्तयेन्नित्यं वेदमन्त्रेषु च क्रमात् । देवनामसु सर्वेषु
भैरवीति पदं सदा । कुर्याद्विशेषणं नित्यं नोच्चार्यं निर्विशेषणम् । आपः पुनन्तु पृथिवी-
मुक्त्वा त्रिपुरभैरवीम् । कुर्यादाचमनं विप्रो द्रुपदायां तथा चरेत् । इदंविष्णुर्भैरवस्तु
विचक्रम इतीरितम् । मृदालम्बनकृच्छ्रेषु मन्त्रमेतं नियोजयेत् । गायत्रीं त्रिपुराद्यां तु
भैरवीमुच्चरञ्छिवाम् । मार्तण्डभैरवायेति सूर्यायार्घ्यं निवेदयेत् । उदुत्यं जातवेदसं देवं
वहन्ति केतवः । दृशे विश्वाय सूर्ये तु शेषे भैरवमीरयेत् । तर्पणादौ प्रयुञ्जीत तृप्यतां
ब्रह्म भैरवम् । आवाहने च खपितॄन्भैरवानिति तर्पयेत् । तृप्यतां भैरवीमातः पितृभैरव
तृप्यताम् । आदौ च त्रिपुरां पूर्वं तर्पणेऽपि प्रयोजयेत् । ज्योतिष्टोमाश्वमेधादौ यत्र
यत्र प्रपूजयेत् । तत्र भैरवरूपेण देवीमपि च भैरवीम् । एवं तु वाम्यभावेन यजेत्त्रिपुर-
भैरवीम् । एषा वामेन मार्गेण पूज्या दक्षिणां विना । ऋषीन्देवान्पितॄंश्चैव मनुष्यान्भू-
तसंचयान् । यो यजेत्पञ्चभिर्यज्ञैर्ऋणानां परिशोधनैः । विधिवत्स्नानदानाभ्यां सर्वे
यद्विधिपूजनम् । क्रियते सरहस्यं तु तद्दाक्षिण्यमिहोच्यते । सर्वत्र पितृदेवादौ यस्मा-

१८४ ललितासहस्रनाम ।
द्रवति दक्षिणः । देवी च दक्षिणा यस्मात्तस्माद्दक्षिण उच्यते । या देवी पूज्यमाना तु
देवादीनामशेषतः । यज्ञभागान्सख्यं भुङ्क्ते सा वामा तु प्रकीर्तिता । पूजकोऽपि भवेद्वाम-
स्तन्मार्गे सततं रतः । पञ्च यज्ञान्न वा कुर्यान्न कुर्याद्वामपूजने । अन्यस्य पूजाभागं हि
यतो गृह्णाति वामिका । यः पूजयेद्वाम्यभावैर्न तस्य ऋणशोधनम् । पितृदेवनरादीनां
जायते तु कदाचन । सर्वत्र त्रिपुरायोगस्तेन मार्गेण गच्छतः । यदा जायेत प्राज्ञस्य
तदा मोक्षमवाप्नुयात् । चिरेण लभते मोक्षं वामेन त्रैपुरो नरः । ऋणशोधनजैः पापै-
राक्रान्तत्वेन भैरव । इहलोके सुखैश्वर्ययुक्तः सर्वत्र वल्लभः । मदनोपमकान्तेन शरीरेण
विराजता । सराष्ट्रं च राजानं वशीकृत्य समन्ततः । मोहयन्विनिताः सर्वाः कुर्वंश्च
मदविह्वलाः । सिंहान्व्याघ्रांस्तरक्षूंश्च भूतप्रेतपिशाचकान् । वशीकुर्वन्विचरति वायुवेगो
ह्यवारितः । बालं वा त्रिपुरां देवीं मध्यां वाप्यथ भैरवीम् । यो यजेत्परया भक्त्या
पञ्चबाणोपमः कृती । कामेश्वरीं तु कामाख्यां पूजयेत्तु यथेच्छया । दाक्षिण्यादथवा
वाम्यात्सर्वथा सिद्धिमाप्नुयात् । महामायां शारदां च शैलपुत्रीं तथैव च । यथातथा-
प्रकारेण दाक्षिण्येनैव पूजयेत् । यो दाक्षिण्यं विना भावं महामायादिमर्चति । स पापः
सर्वलोकेभ्यश्च्युतो भवति रोगधृक् । अन्यास्तु शिवदूत्याद्या या देव्यः पूर्वमीरिताः ।
ता दाक्षिण्याद्वामतो वा पूजनीयास्तु साधकैः । किंतु यः पूजको वामः सोऽन्याशापरि-
लोपकः । सर्वाशापूरको यस्माद्दक्षिणस्तत उत्तम' इति । इति वैतालभैरवौ प्रति शिवव-
चनम् । एतत्पक्षे सव्यापसव्यौ च तौ मार्गौ चेति कर्मधारयः । तयोः स्थिता ।
मार्गद्वयेनाप्युपास्येत्यर्थः । वाममार्गेणैवोपास्यानां त्रिपुरभैरव्यादिदेवतानां दक्षिणमार्गेणै-
वोपास्यानां शारदादिदेवतानामुभयथापि विकल्पेनोपास्यानां शिवदूत्यादिदेवतानां च
परमार्थदृष्ट्या त्रिपुरसुन्दर्यभेद इति यावत् । इत्यन्या व्याख्या ॥ किमत्र 'सव्यापसव्य-
सौषुम्नेष्वि'ति शिवसूत्रे प्रयोगादिडापिङ्गले सव्यापसव्ये अर्थात्सौषुम्णा एव मार्गपदेन
परिशेषादुच्यत इत्यप्यन्या व्याख्या ॥ अत्र द्वितीयव्याख्यानेऽपि मार्गपदेनैव पारिशेष्या-
ल्लक्षणया ध्रुवमार्गोपादाने सति त्रित्रीपदकद्वन्द्वसमासरूपसव्यापसव्यमार्गपदत्रयं
द्विपदकद्वन्द्वगर्भकर्मधारयरूपं चैकपदमिति चतुर्णां पदानां पुनर्द्वन्द्वपाद्वैकशेषेण
व्याख्याचतुष्टयसमुच्चयोऽवगन्तव्यः ॥ 'अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा
यदिदं दन्दशूक' मित्यादिश्रुत्युक्तरीत्या ये मार्गद्वयभ्रष्टाः कष्टामपदं प्राप्तास्तेषामप्याप-
दमनायासनामस्मरणादिसाधनमात्रेण दयया निवारयतीत्याह—सर्वापद्विति । सर्वा
आपदो विशिष्य नितरां वारयति । तथाच कूर्मपुराणे देवीवाक्यम् 'ये तु सङ्गान्परित्यज्य
मामेकं शरणं गताः । उपासते सदा भक्त्या योगमैश्वरमाश्रिताः । सर्वभूतदयावन्तः
शान्ता दान्ता विमत्सराः । अमानिनो बुद्धिमन्तस्तापसाः संयतव्रताः । मच्चित्ता
मद्गतप्राणा मज्ज्ञानकथने रताः । संन्यासिनो गृहस्थाश्च वनस्था ब्रह्मचारिणः । ये
चोक्तैर्लक्षणैर्हीना अपि मन्नामजापकाः । तेषां नित्याभियुक्तानामापदां पर्वतानपि ।
नाशयामितरां ज्ञानदीपेन नचिरादिहे'ति । हरिवंशेऽपि देवीं प्रति विष्णुवाक्यम् 'नृणां

सौभाग्यभास्करव्याख्या । १८५
बन्धं वधं रोधं पुत्रनाशं धनक्षय'मित्यादिना यत्परम्परामुपन्यस्य 'आपत्सु निखिलासु
त्वं रक्षस्येव न संशय' इत्यन्तम् । वाराहेऽपि ब्रह्मादिकृतदेवीस्तोत्रान्ते 'शरणं त्वां
प्रपद्यन्ते ये देवि परमेश्वरि । न तेषामापदः काश्चिज्जायन्ते कापि संकट'इत्यादि ।
अभियुक्ता अप्याहुः 'आपदि किं करणीयं स्मरणीयं चरणयुगलमम्बायाः । तत्स्मरणं किं
कुरुते ब्रह्मादीनपि च किंकरीकुरुते'इति ॥ अथ परिभाषायां सप्तत्रिंशन्नामानि
विभजते ॥ खेचरता द्विर्भवेदा देहे चैका भवेद्देवी । भगणे चतुर्गुणा
भूर्भवभालशतेन गोमेदा ॥ ३१ ॥ अत्रोत्तरार्ध इव पूर्वार्धे नकारस्याकथनादेकप-
दोपादानाच्च दशसंख्याधिक्ये सिद्धे तत्र प्रथमोपस्थितत्वादेकादशाक्षरं नामेति सिद्ध्यति
॥ ३१ ॥ दुःखरूतचाञ्चल्याभावात्स्वस्था खस्मिन्नेव स्थिता वा । 'स भगवः कस्मिन्प्र-
तिष्ठित इति स्वे महिम्रीति होवाचे'ति श्रुतेः । खरित्यव्ययं स्वर्गवाचि । तत्र तिष्ठत्यध्यक्षतयेति
वा । शोभना अस्था स्थितिर्भावो गतिर्यया सा वा । प्रभावादेवोपाधिसंपर्क-
मन्तरेणैव मधुरा सर्वाभिलषणीया । 'मधुरं रसवत्स्वादुप्रियेषु मधुरोऽन्यवत् । मधुरा
शतपुष्पायां मधूलीनागरीभिदो'रिति विश्वः । अतएव स्व आत्मीयो भावोऽवस्थानं
यस्यां सा च सा मथुरापुरी चेति वा । मीनाक्षीनिवासशालिहालास्यक्षेत्र [ रूपेति ]
निवासेति यावत् । यद्वा स्वस्यात्मनो भायां प्रतिभायां येऽवमाः प्रथमगणनीयाः ।
आत्मज्ञोत्तमा इति यावत् । तेषां धुरेव धुरा । धूरिति हलन्ताद्भागुरिमतेन टाप् ।
रथस्य धूर्यथा सर्वोत्तममङ्गं तद्वदियमात्मज्ञानवतां निर्वाहिकेत्यर्थः । नचावमपदस्य
निकृष्टपरत्वमेवेति भ्रमितव्यम् । अवमोत्तमपदयोः प्रथमचरमपरत्वेन प्रयोगदर्शनात् ।
'अग्निरग्रे प्रथमो देवतानां संयातानामुत्तमो विष्णुरासी' दित्याग्नावैष्णवेष्टियाज्यानुवा-
क्यामन्त्रस्य सर्वदेवताप्रथमचरमभूतयोरग्निविष्ण्वोर्ग्रहणे प्रत्याहारन्यायेन मध्यस्थानाम-
खिलदेवतानां ग्रहणं दीक्षणीयेष्टौ सिद्ध्यतीति प्रतिपादनपरस्य व्याख्यारूपे 'अग्निर्वै
देवानामवमो विष्णुः परम'इति बह्वृचब्राह्मणे प्रथमपदस्यावमपदेन व्याख्यानदर्शनेन
तयोः पर्यायत्वसिद्धेः । खभामात्रप्रज्ञानं ये वमन्ति सृजन्ति साधयन्ति तेषु धूरुत्तमेति
वा । तेन 'न निर्धारण' इति षष्ठीसमासनिषेधस्य न विरोधः । पुरुषोत्तम इत्यत्रेव
सप्तमीसमासस्वीकारात् । शोभना अभावाः स्वभावाः । अभावेषु शोभनत्वविशेषणात्त-
त्प्रतियोगिनां भावानामाशोभनत्वमुक्तं भवति । तेन रागद्वेषवैषम्यनैर्घृण्यादिप्रायोगिकै-
रभावैर्मधुरेति वा । स्वेषु आत्मीयेषु भक्तेषु भावेन अवस्थानेन मधुरा वा । स्वेषां
भावेन भक्त्या मधु सत्फलं रातीति वा । 'चरन्वै मधु विन्दती'ति श्रुतौ तथैव मधुप-
दस्य व्याख्यानदर्शनात् । एवमभिप्रायावतारयोरपि भावपदार्था यथासंभवं योजनीयाः ।
धीरा पण्डिता । धैर्यवती वा । धियमद्वैतबुद्धिं राति ददातीति वा । 'ईश्वरानुग्रहादेव
पुंसामद्वैतवासने'ति स्मृतेः । धीप्रदा इरा दशमीतिथिर्र्यस्यां वा । धीरैः पण्डितैः
समर्तिता । 'तं धीरासः कवय उन्नयन्ती'ति श्रुतेः । अतएव कल्याणचरणैः स्वीयं
धैर्यं प्रकटीकृतम् । 'पातय वा पाताले स्थापय वा निखिललोकसाम्राज्ये । मातस्तव