ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
DevanagariSanskritpublished272 पृष्ठ
पृष्ठ 204, कुल 272 में से
संदर्भ में पढ़ेंपृष्ठ 204
१७६ : ललितासहस्रनाम ।
निरामया निरालम्बा स्वात्मारामा सुधास्रुतिः ॥ २१४ ॥
संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता ।
यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ॥ २१५ ॥
विभजते ॥ चतुरर्धभवो देवो वदन्विभेदं विशांगमार्गेण । गौणतरङ्गमतेः
खलु शांभोर्वादं चरत्र्यंघ्रिः ॥ ३० ॥ स्पष्टम् ॥ ३० ॥ निर्गता आमया रोगा
यया । सर्वालम्बनस्यालम्बान्तरायोगात्निरालम्बा । तथात्वेऽनवस्थापत्तेः । साच
मूलक्षयकरीत्यसावनालम्बनमेव साधयति । स्वात्मन्येवारामः क्रीडनं यस्याः ।
स्वात्मानमेव द्वेधा विभज्यान्योन्यं क्रीडमानेति यावत् । तथाच माध्यन्दिना अधीयते
‘स वै न रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत् स हैतावानास यथा स्त्रीपुमांसौ
संपरिष्वक्तौ स इममेवात्मानं द्वेधा पातयत्ततः