सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 206, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 206

१७८ , ललितासहस्रनाम ।
अयोनिर्योनिनिलया कूटस्था कुलरूपिणी ॥ २१७ ॥
विश्वग्रासा । चराचरसंहन्त्रीत्यर्थः । तथात्वं काठके श्रूयते 'यस्य ब्रह्म च क्षत्रं चोभे भवत
ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स' इति । अत्र मृत्योरुपसेचनत्वोक्त्या
तत्संहार्थचराचरप्रतीतेरित्याशयेन ब्रह्मसूत्रं 'अत्ता चराचरग्रहणा' दिति । विद्रुमाः प्रवा-
लास्तद्वदारक्ता विद्रुमाभा । वित् ज्ञानमेव द्रुमः पुन्नानुपुङ्गप्रसृतलसाम्यात्तेन तुल्येति
वा । विष्णोरियं वैष्णवी । तथाच देवीपुराणे 'शङ्खचक्रगदा धत्ते विष्णुमाता तथारिहा ।
विष्णुरूपायंवा देवी वैष्णवी तेन गीयत' इति । अत्र चतस्रो व्युत्पत्तयः सूचिताः ।
तथारिहंत्यस्य विष्णुरिव दैत्यान्हन्तीत्यर्थः । विष्णुरूपेत्यस्य तदभिन्नेत्यर्थः । तेन न
प्रथमव्युत्पत्त्या गतार्थता । तदेवाह । विष्णुरेव रूपमस्याः । तदुक्तं ललितोपाख्याने
ब्रह्माण्डपुराण एव 'ममैव पौरुषं रूपं गोपिकाजनमोहन' मिति देवीवचनात् ।
तत्रैव वीरभद्रंप्रति विष्णुवचनम् 'आद्या शक्तिर्महेशस्य चतुर्धा भिन्नविग्रहा । भोगे
भवानीरूपा सा दुर्गरूपा च संगरे । कोपे च कालिकारूपा पुंरूपा च मदात्मिके'ति ।
कूर्मपुराणेऽपि हिमवत्कृतदेवीस्तवे 'सहस्रमूर्धानमनन्तशक्तिं सहस्रबाहुं पुरुषं पुराणम् ।
शयानमब्धौ ललिते तवैव नारायणाह्वयं प्रणतोऽस्मि रूप' मिति । कौर्मे एव मङ्कणंकंप्रति
शिवेन विश्वरूपे दर्शिते 'किमेतद्भगवद्रूपं सुघोरं विश्वतोमुखम् । का च सा भगवत्पार्श्वे
राजमाना व्यवस्थिते'ति मत्पृष्टेन शिवेन स्वस्वरूपप्रभावं निर्वण्योक्तम् 'मम सा
परमा माया प्रकृतिस्त्रिगुणात्मिका । प्रोच्यते मुनिभिः शक्तिर्जगद्योनिः सनातनी ।
स एव मायया विश्वं व्यामोहयति विश्ववित् । नारायणः परोऽव्यक्तो मायारूप इति
श्रुति'रिति । सनत्कुमारसंहितायां प्रभाकराख्यस्य राज्ञो विष्णुभक्तिं तन्महिष्याः
पद्मिन्याख्यायाश्च पार्वतीभक्तिं वर्णयित्त्वोक्तम् 'एवं देव्यात्मना स्वेन रूपेण च
जनार्दनः । दंपत्योरेककायत्वादेक एव द्विधार्चित' इति । बृहत्पाराशरस्मृतावपि 'दुर्गां
कात्यायनीं चैव यजन्वाग्देवतामपि । चेतसा सुप्रसन्नेन विष्णुलोकमवाप्नुया' दिति ।
पद्मपुराणेऽपि 'चण्डिकां स्नपयेद्यस्तु ऐक्षवेण रसेन च । सौपर्णेन स यानेन विष्णुना
सह मोदत' इति । आदित्यपुराणशिवपुराणयोरपि 'या तस्य पार्श्वगा बाला सा पार्व-
त्यंशजो हरि'रिति । वामनपुराणेऽपि 'पौर्णमास्यां तु यो माघे पूजयेद्विधिव-
च्छिवाम् । सोऽश्वमेधमवाप्नोति विष्णुलोके महीयत' इति । न विद्यते योनिः कारणं
यस्याः साऽयोनिः । योनिशब्दः स्थानवचनो वा 'योनिष्ट इन्द्र निषदे अकारी' ति श्रुतेः ।
हे इन्द्र, तव निषदे उपवेशनाय मया स्थानं कृतमित्यर्थात्, तेन स्थानरहिता अपरि-
च्छिन्नैत्यर्थः । अस्य विष्णोर्योनिर्जनिका मातेति वा । निलीयते जगद्यस्यामिति निलया
योनिश्चासौ निलया च । योनिशब्दः प्रकृतिपरः । 'कर्तारमीशं पुरुषं ब्रह्मयोनि' मिति
श्रुतौ प्रयोगात् । कर्तारं क्रियाशक्तिमन्तमेशं नियन्तारं पुरुषं प्रत्यञ्चं ब्रह्म पूर्णे
योनिं ध्यानेनापश्यन्निति व्याख्यानात् । 'योनिश्च हि गीयत' इति ब्रह्मसूत्रं च । यद्वा