ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 199, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । १७१
भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ॥ २०८ ॥
छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
र्नित्यं संसारयति चक्रव'दिति । विष्णुभागवतेऽपि 'त्वमेव सर्वजगतामीश्वरो बन्ध-
मोक्षयोः । तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं हर'मिति । भवचक्रमनाहतचक्रं वा
तत्र शिवस्यावस्थानात् । ननु कोणपत्रसमुच्चयस्यैव चक्रपदवाच्यत्वमिति तान्त्रिक-
सिद्धान्तादनाहते कोणाभावात्कथं चक्रपदेन तदुपस्थितिः । अतएव 'अनाहताब्जनिल-
ये'त्येव प्रयोगः । केवलपत्रसमुदाये पद्मत्वं केवलकोणसमुदाये यन्त्रत्वमिति सिद्धा-
न्तादितिचेन्न । कोणत्वाभिप्रायेण मूलाधारादिष्वपि चक्रव्यवहार इति वदद्भिर्विद्या-
रत्नभाष्यकारैरेवमेव समाहितत्वात् । पत्रेषु कोणत्वारोपाद्गौणव्यवहार इति तदाशय
इति केचित् । तन्न । कोणत्वविवक्षायां यन्त्रत्वविवक्षाभावेन यन्त्रव्यवहारस्यैवापत्तेः ।
अतस्तत्कर्णिकोपरि त्रिकोणस्य सत्त्वादित्येव भाष्याशयं युक्तमुत्पश्यामः । बिन्दुचक्रा-
ष्टदलषोडशदलवृत्तत्रयभूगृहत्रयाणि श्रीचक्रान्तर्गतानि वा भवचक्राणि । भवस्य शिवस्य
चक्रं मनः प्रवर्तयतीति वा । 'चक्रं हि मन एवे'ति विष्णुपुराणे 'चलत्स्वरूपमत्यन्तं
जवेनान्तरितानिलम् । चक्रस्वरूपं च मनो धत्ते विष्णुः करे स्थित'मिति ॥ २०८ ॥
छन्दःशब्दो वेदपरो गायत्र्यादिपरो वा पैङ्गलतन्त्रपरो वा । 'छन्दः पद्ये च वेदे च
स्वैराचाराभिलाषयो'रिति विश्वः । परो वादी । सारशब्दो न केवलं पुंलिङ्गः ।
'संसारे किं सारं' 'सा दशा वै तान्तवी'त्यादिप्रयोगात् । 'सारो बले मज्जनि च
स्थिरांशे न्याय्ये च नीरे च धने च सारम् । वेदेऽन्यवत्सारमुदाहरन्ती'ति च विश्वः ।
अत्र स्थिरांशशब्दो निष्कृष्टांशपरः अनिष्कृष्टस्यास्थिरत्वात् । ततश्च वेदे उपनिषद्भा-
गोऽस्याः स्वरूपनिष्कर्षः । छन्दःसु सारो निष्कर्षो यस्या इति विग्रहः । गायत्र्यादि-
छन्दःसु निष्कृष्टं रूपं गायत्रीमन्त्रस्तस्यापि निष्कर्षः पञ्चदशी । तदिदमुक्तं वरिव-
स्यारहस्येऽस्माभिः 'तज्ज्ञानार्थमुपाया विद्या लोके चतुर्दश प्रोक्ताः । तेष्वपि च
सारभूता वेदास्तत्रापि गायत्री । तस्या रूपद्वितयं तत्रैकं यत्प्रपद्यते स्पष्टम् । वेदेषु
चतुर्ष्वपि परमत्यन्तं गोपनीयतरम् । कामो योनिः कमलेत्येवं संकेतितैः शब्दैः ।
व्यवहरति न तु प्रकटं यां विद्यां वेदपुरुषोऽपि' । आथर्वणेऽपि त्रैपुरसूक्ते षोडशर्चे
'कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः । पुनर्गुहा सकला मायया
च पुरूच्यैषा विश्वमाता च विद्ये'त्यस्यामृचि कादिविद्याया उद्धारः । पैङ्गलतन्त्रे हि
'द्विकौ ग्लौ । मिश्रौ च'इति सूत्रद्वयेन महाप्रस्तारः प्रतिपादितः सचानवधिकस्यापि
शब्दजालस्य निःशेषेण ज्ञानोपायः । सच छन्दोभास्कर एवास्माभिः प्रकटीकृतः
छन्दःशास्त्रे । बलं माहात्म्यं यस्या वैखर्याः सरस्वत्या इत्यर्थः । यद्वा 'यत्र यत्र मनस्तु-
ष्टिर्मनस्तत्रैव धारयेत् । तत्र तत्र परानन्दस्वरूपं संप्रकाशत'इति विज्ञानभैरवभट्टारको-
क्तरीत्योपासकधौरेयस्य यत्रेच्छा स एव धर्मः । यत्र नेच्छा स एवाधर्मः । उक्तं च