सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 202, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 202

१७४ ललितासहस्रनाम ।
कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता ।
कनत्कनकतातङ्का लीलाविग्रहधारिणी ॥ २१२ ॥
अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी !
वेदान्तवाक्यार्थतत्त्वनिष्कर्षोऽपि काष्ठा । तदुक्तं सूतसंहितायां 'प्रतीतमप्रतीतं वा
सदसच्च परः शिवः । इति वेदान्तवाक्यानां निष्ठा काष्ठेति कथ्यत' इति । 'सा काष्ठा
सा परा गति'रिति श्रुतिश्च । यद्वा गगनात्मकस्य भीमनामकस्य परशिवस्य पत्नी
खर्गमाता देवी दिक्खरूपत्वात्काष्ठेत्युच्यते । तथाच लैङ्गे 'चराचराणां भूतानां सर्वे-
षामवकाशदः । व्योमात्मा भगवान्देवो भीम इत्युच्यते बुधैः । महामहिम्नो देवस्य
भीमस्य परमात्मनः । दक्षस्वरूपा दिक्पत्नी सुतः खर्गश्च सूरिभि'रिति । वायुपुरा-
णेऽपि 'नाम्ना षष्ठस्य या भीमा तनुराकाश उच्यते । दिशः पत्न्यः स्मृतास्तस्य खर्गस्तस्य
सुतः स्मृत' इति । क्रान्त्या तिष्ठतीति काष्ठेति नैरुक्ताः । 'अत्यतिष्ठद्दशाङ्गुल'मिति श्रुतिः ।
'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जग' दिति स्मृतिश्च । अकान्तेति त्र्यक्षरं नाम ।
'अकं पापे च दुःखे च' तयोरन्तो नाशो यया सा । विग्रहस्य शरीरस्यार्धमर्धविग्रहः ।
'अर्धं नपुंसक'मिति समासः । कान्तः परशिव एवार्धविग्रहो यस्याः । कान्तस्यार्धं का-
न्तार्धं, कान्तार्धे विग्रहो यस्या इति वा । नचैतत्पक्षेऽर्धकान्त इति रूपापत्तिः । अत्रत्यार्ध-
पदस्य नियतलिङ्गत्वस्वीकारात् नियतनपुंसकलिङ्गस्यैव पूर्वनिपातविधानात्कः पुनः
पुंलिङ्ग इत्यादिश्रश्नोत्तरपरे महाभाष्ये पुंलिङ्गवदस्या नियतलिङ्गपरत्वेन कैयटीये व्याख्या-
नात् । तथाच भगवान्पिङ्गलनागः प्रयुङ्क्त 'खरा अर्धं चार्यार्ध'इति । वस्तुतस्तु अर्ध-
विग्रहा इत्यत्र कर्मधारय एव समासः । षष्ठीतत्पुरुषे तु विग्रहार्धमित्येवापद्येत ।
अतएव परवल्लिङ्गसूत्रे महाभाष्ये 'अर्धं नपुंसक'मिति सूत्रं प्रत्याख्यातमित्यन्यदेतत् ।
तेन कान्तार्धमिति समासेऽपि समप्रविभागवचनत्वमेवार्थशब्दस्य द्रष्टव्यम् । कका-
रस्यान्तः कान्तः खकारस्तेन द्यौर्लक्ष्यते । अर्धशब्दो भागमात्रपरः । तेन द्यौः
शरीरैकदेशो यस्या इत्यर्थ इति वा । 'पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवी'ति
मन्त्रवर्णात् ॥ २११ ॥ कार्याणि महत्तत्त्वादीनि कारणं मूलप्रकृतिः तैर्विनिर्मुक्ता ।
चैतन्ये तेषां परमार्थतोऽभावात् 'न तस्य कार्यं करणं च विद्यत'इति श्रुतेः । कामस्य
कामेश्वरस्य केलीनां क्रीडाविलासानां तरङ्गाः परम्पराः संजाता अस्याः । कनती
दीप्यमाने कनकस्य सुवर्णमये ताटङ्के कर्णामरणविशेषौ यस्याः । लीलयानायासेन
विग्रहानवतारविशेषान्धारयति पद्मराजस्य महिषी लीलादेवी तद्विग्रहधारिणी वा ।
सा च योगवासिष्ठे प्रसिद्धा 'आसीदस्मिन्महीपाल कुले पद्मो विकासवान् । पद्मोनामे'-
त्युपक्रम्य 'तस्यासीत्सुभगा भार्या लीला नाम पतिव्रते'ति ॥ २१२ ॥ जन्मरहि-
त्यादजा । 'अजामेका'मिति श्रुतेः, 'न जातो न जनिष्यत'इति श्रुतेश्च । महाभारतेऽपि
'नहि जातो न जायेऽहं न जनिष्ये कदाचन । क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः