सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 212, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 212

१८४ ललितासहस्रनाम ।
द्रवति दक्षिणः । देवी च दक्षिणा यस्मात्तस्माद्दक्षिण उच्यते । या देवी पूज्यमाना तु
देवादीनामशेषतः । यज्ञभागान्सख्यं भुङ्क्ते सा वामा तु प्रकीर्तिता । पूजकोऽपि भवेद्वाम-
स्तन्मार्गे सततं रतः । पञ्च यज्ञान्न वा कुर्यान्न कुर्याद्वामपूजने । अन्यस्य पूजाभागं हि
यतो गृह्णाति वामिका । यः पूजयेद्वाम्यभावैर्न तस्य ऋणशोधनम् । पितृदेवनरादीनां
जायते तु कदाचन । सर्वत्र त्रिपुरायोगस्तेन मार्गेण गच्छतः । यदा जायेत प्राज्ञस्य
तदा मोक्षमवाप्नुयात् । चिरेण लभते मोक्षं वामेन त्रैपुरो नरः । ऋणशोधनजैः पापै-
राक्रान्तत्वेन भैरव । इहलोके सुखैश्वर्ययुक्तः सर्वत्र वल्लभः । मदनोपमकान्तेन शरीरेण
विराजता । सराष्ट्रं च राजानं वशीकृत्य समन्ततः । मोहयन्विनिताः सर्वाः कुर्वंश्च
मदविह्वलाः । सिंहान्व्याघ्रांस्तरक्षूंश्च भूतप्रेतपिशाचकान् । वशीकुर्वन्विचरति वायुवेगो
ह्यवारितः । बालं वा त्रिपुरां देवीं मध्यां वाप्यथ भैरवीम् । यो यजेत्परया भक्त्या
पञ्चबाणोपमः कृती । कामेश्वरीं तु कामाख्यां पूजयेत्तु यथेच्छया । दाक्षिण्यादथवा
वाम्यात्सर्वथा सिद्धिमाप्नुयात् । महामायां शारदां च शैलपुत्रीं तथैव च । यथातथा-
प्रकारेण दाक्षिण्येनैव पूजयेत् । यो दाक्षिण्यं विना भावं महामायादिमर्चति । स पापः
सर्वलोकेभ्यश्च्युतो भवति रोगधृक् । अन्यास्तु शिवदूत्याद्या या देव्यः पूर्वमीरिताः ।
ता दाक्षिण्याद्वामतो वा पूजनीयास्तु साधकैः । किंतु यः पूजको वामः सोऽन्याशापरि-
लोपकः । सर्वाशापूरको यस्माद्दक्षिणस्तत उत्तम' इति । इति वैतालभैरवौ प्रति शिवव-
चनम् । एतत्पक्षे सव्यापसव्यौ च तौ मार्गौ चेति कर्मधारयः । तयोः स्थिता ।
मार्गद्वयेनाप्युपास्येत्यर्थः । वाममार्गेणैवोपास्यानां त्रिपुरभैरव्यादिदेवतानां दक्षिणमार्गेणै-
वोपास्यानां शारदादिदेवतानामुभयथापि विकल्पेनोपास्यानां शिवदूत्यादिदेवतानां च
परमार्थदृष्ट्या त्रिपुरसुन्दर्यभेद इति यावत् । इत्यन्या व्याख्या ॥ किमत्र 'सव्यापसव्य-
सौषुम्नेष्वि'ति शिवसूत्रे प्रयोगादिडापिङ्गले सव्यापसव्ये अर्थात्सौषुम्णा एव मार्गपदेन
परिशेषादुच्यत इत्यप्यन्या व्याख्या ॥ अत्र द्वितीयव्याख्यानेऽपि मार्गपदेनैव पारिशेष्या-
ल्लक्षणया ध्रुवमार्गोपादाने सति त्रित्रीपदकद्वन्द्वसमासरूपसव्यापसव्यमार्गपदत्रयं
द्विपदकद्वन्द्वगर्भकर्मधारयरूपं चैकपदमिति चतुर्णां पदानां पुनर्द्वन्द्वपाद्वैकशेषेण
व्याख्याचतुष्टयसमुच्चयोऽवगन्तव्यः ॥ 'अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा
यदिदं दन्दशूक' मित्यादिश्रुत्युक्तरीत्या ये मार्गद्वयभ्रष्टाः कष्टामपदं प्राप्तास्तेषामप्याप-
दमनायासनामस्मरणादिसाधनमात्रेण दयया निवारयतीत्याह—सर्वापद्विति । सर्वा
आपदो विशिष्य नितरां वारयति । तथाच कूर्मपुराणे देवीवाक्यम् 'ये तु सङ्गान्परित्यज्य
मामेकं शरणं गताः । उपासते सदा भक्त्या योगमैश्वरमाश्रिताः । सर्वभूतदयावन्तः
शान्ता दान्ता विमत्सराः । अमानिनो बुद्धिमन्तस्तापसाः संयतव्रताः । मच्चित्ता
मद्गतप्राणा मज्ज्ञानकथने रताः । संन्यासिनो गृहस्थाश्च वनस्था ब्रह्मचारिणः । ये
चोक्तैर्लक्षणैर्हीना अपि मन्नामजापकाः । तेषां नित्याभियुक्तानामापदां पर्वतानपि ।
नाशयामितरां ज्ञानदीपेन नचिरादिहे'ति । हरिवंशेऽपि देवीं प्रति विष्णुवाक्यम् 'नृणां