सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

सौभाग्यभास्करव्याख्या । १२९
देवेशी दण्डनीतिस्था दहराकाशरूपिणी ।
प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ॥ १७३ ॥
निवर्तक' इति । अन्यत्रापि । 'गुकारः सदिति प्रोक्तो रुकारो ज्ञानवाचकः ।
ब्रह्मज्ञानैकरूपत्वाद्गुरुरित्यभिधीयत'इति । 'तामिच्छाविग्रहां देवीं गुरुरूपां विभावये'-
दिति । नित्याहृदयोऽपि । गुणानां निधिः शेवधिः । 'कर्मण्यधिकर-
णेचे'ति किः । सत्त्वादिगुणानां सत्त्वत्वादिजातिभिश्चित्वेऽपि व्यक्त्यानन्त्यमिति सांख्य-
सिद्धान्तात् । अतएव सांख्यप्रवचनसूत्रं 'लघुत्वादिधर्मैरन्योन्यं साधर्म्यं वैधर्म्यं च
गुणाना'मित्युपपद्यते । सत्त्वादयश्च द्रव्यत्वेऽपि पुरुषोपकरणत्वादुणा इत्युच्यन्ते ।
ईदृशानां गुणानां निधिर्वा । यद्वा गुणा व्यूहरूपा निधिसंख्या यस्याः । नवव्यूहा-
त्मकत्वरूपगुण

ह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्य’मिति श्रुतौ
दहराकाशस्यैव परब्रह्मत्वनिरूपणात् । प्रतिपत्तिथिर्मुख्या आद्या यस्मिन् राका पूर्णिमा-
तिथिरन्ते यस्मिंस्तस्मिंस्तिथिमण्डले पञ्चदशतिथि समूहे पूजिता । तिथिभेदेन पूजाभेदस्य
तन्त्रेषु कथनात्तादृशप्रकारविशेषैरर्चितेत्यर्थः । यद्वा प्रतिपदाद्याशब्दौ कामेश्वरीचित्रापरौ ।
तिथिशब्दो नित्यापरः । तेन नित्यामण्डलेन पूजिता त्रिकोणरेखात्रयरूपेणावृता ।
अथवा प्रतिपन्मुख्या राकान्ताश्च तिथयो यासां देवतानां तासां मण्डलेन समूहेन
पूजिता । ताश्च वराहपुराणे ‘कथमग्नेः समुत्पत्तिरश्विनोर्वा महामुने । गौर्या
गणपतेर्वापि नागानां वा गुहस्य च । आदित्यस्य च मातृणां दुर्गाया वा
दिशां तथा । धनदस्य च विष्णोर्वा धर्मस्य परमेष्ठिनः । शंभोर्वापि पित

सौभाग्यभास्करव्याख्या । १३१
आदिशक्तिरमेयाऽत्मा परमा पावनाकृतिः ।
अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ॥ १७५ ॥
कारणभूता च सा शक्तिश्च । मातुमशक्या अमेया । न विद्यते मेयं यस्या इति वा ।
यदपेक्षयाऽतिरिक्तं मेयं नास्तीत्यर्थः । तदुक्तं लिङ्गपुराणे 'खर्गपाताललोकान्तब्रह्मा-
ण्डावरणाष्टके । मेयं सर्वमुमारूपं माता देवो महेश्वर' इति । आत्मशब्देन जीवः
परमशब्दोत्तरं चात्मानुषङ्गात्परमात्मा चेति नामद्वयेन कथ्यते । उक्तंच लैङ्गे
'विष्णुर्लिङ्गा यथा तावदग्नौ च बहुधा स्मृताः । जीवाः सर्वे तथा शर्वाः परमात्मा
च स स्मृत'इति । शिवपुराणेऽपि 'आत्मा तस्याष्टमी मूर्तिः शिवस्य परमा तनुः ।
व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मक'मिति । अस्मिन्पक्षे आत्मने नमः परमाया-
त्मने नम इति नामद्वयप्रयोगः । 'नमो भवाय च रुद्राय च नम'इत्यादिमन्त्राणा-
मप्युभयतोनमस्कारत्वपक्षे सकृत्पठितस्यापि नमःशब्दस्य रुद्रशब्दस्य सर्वशब्दोभय-
शेषत्वेन पुनरावृत्तिवदात्मशब्दस्य वृत्तिः । यद्वा । आत्मशब्देन ब्रह्मैव । 'यच्चाप्नोति
यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सततो भावस्तस्मादात्मेति कीर्त्यत' इति
वचनात् । आत्मशब्देन शरीरमेवोच्यते । तथाच वासिष्ठलैङ्गे 'गौरीरूपाणि सर्वाणि
शरीराणि शरीरिणाम् । शरीरिणस्तथा सर्वे शंकरांशा व्यवस्थिता'इति । एवं आत्मा
देहमनोब्रह्मस्वभावधृतिबुद्धिष्वि'ति विश्वप्रकाशोक्तान्यर्थान्तराण्यपि योज्यानि । 'या
देवी सर्वभूतेषु बुद्धिरूपेण संस्थिते'त्यादिवचनात् । परं ब्रह्म माति परिच्छिनत्तीति
परमा । परस्य शिवस्य मा लक्ष्मीर्वा । यद्वा परब्रह्मणो रूपचतुष्टयमस्ति तस्मात्परमो-
त्कृष्टा । तदुक्तं विष्णुपुराणे 'परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विजाः । व्यक्ताव्यक्ते
तथैवान्ये रूपे कालस्तथा परम् । प्रधानपुरुषव्यक्तकालानां परमं हि यत् । पश्यन्ति
सूरयः शुद्धं तद्विष्णोः परमं पदम् । प्रधानपुरुषव्यक्तकालास्तु प्रविभागशः । रूपाणि
स्थितिसर्गान्तव्यक्तिसद्भावहेतव'इति । पावनी पावयित्री आकृतिः शरीरं चरित्रं वा
ज्ञानं वा यस्याः । तथाच याज्ञवल्क्यस्मृतिः 'भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम् ।
क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मते'ति । अनेका अनन्ताः कोटयो ये ब्रह्माण्डास्तेषां
जननी जनयित्री । यद्वा अनेककोटयो ब्रह्माण्डा येषां ते तथा । अभिमन्य-
मानत्वादिरूपः संबन्धः षष्ठ्यर्थः । तेषां विराडादीनां जननी । विकारषोडशान्त-
र्वर्तिपञ्चीकृतस्थूलभूतकार्यो हि ब्रह्माण्डः । तदभिमानी विराडुच्यते । ब्रह्माण्डान्त-
र्वर्तिसमष्टिलिङ्गशरीराभिमानी खराट् । तदुभयकारणाव्याकृताभिमानी सम्राट् ।
तदुक्तं 'प्राधान्येन विराडात्मा ब्रह्माण्डमभिमन्यते । स्वराट् स्वरूपमुभयं सम्राडि-
त्यब्रवीच्छ्रुति'रिति । दिव्यो रमणीयो विग्रहो देहो यस्याः । दिव्यन्तरिक्षे भवो
दिव्यो विग्रहो रणो यस्यां वा । 'तत्रापि सा निराधारा युयुधे तेन चण्डिके'ति
मार्कण्डेयपुराणवचनात् । विस्तारः प्रविभागो वा विग्रहपदार्थः । 'विग्रहः समरे

क्लींकारी केवला गुह्या कैवल्यपददायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी ॥ १७६ ॥
देहे विस्तारः प्रविभागयो'रिति मेदिनी ॥ १७५ ॥ कामं बीजं करोतीति वा काम-
बीजस्वरूपेति वा क्लींकारस्य शिवकामस्य स्त्रीति वा क्लींकारी । निखिलधर्मरहि-
त्येनैकाकित्वात्केवला । 'तद्विमुक्तस्तु केवली'ति शिवसूत्रप्रसिद्धज्ञानविशेषो वा केवली ।
कार्त्स्न्ये निर्णीतार्थश्च केवलं । मत्वर्थीयेऽचि तद्वती तदभिन्ना वा । 'केवलं ज्ञानभेदे
स्यात्केवलश्चैककृत्स्नयोः । निर्णीते केवलं प्रोक्तं केवलः कुहने क्वचि'दिति विश्वः ।
यद्वा पूर्वोक्तकामबीजे केवलत्वं ककारलकारात्मकव्यञ्जनराहित्यं । तेन केवलतु-
र्यस्वरूपा कामकलेत्यर्थः । 'यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्य पन्था'मिति
श्रुतेः । ईकारमात्रश्रवणं तु लकारककारराहित्येन श्रवणं अतस्तद्वान् । सुकृतस्य
सत्कर्मणः पन्थानमुत्तमलोकानायाति किंतु निर्गुणज्ञानस्यैव लोकं प्राप्नोति । कामबी-
जमात्रेण त्रिवर्गः कामकलामात्रेण तु मोक्ष इति पर्यवसितोऽर्थः । तमेवाह नामद्वयेन
गुहां प्रविष्टा गुह्या । अतिरहस्यार्था इति यावत् । केवलस्य भावो धर्मिमात्रावशेषः
कैवल्यं पञ्चमी मुक्तिस्तदेव पदं ददाति । अथवा कैवल्यं च पदानि च स्थानानि च दातुं
शीलमस्याः । कैवल्यशब्देन योगशास्त्रान्तिमसूत्रेण कैवल्यं स्वरूपं 'प्रतिष्ठा चिति-
शक्ते'रित्येतेन प्रतिपादितस्वरूपो मोक्ष उच्यते । 'चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूप-
मात्रेणावस्थानं कैवल्यमुच्यत' इति भोजराजवृत्तौ । पदशब्देन सालोक्यादिमुक्तिच-
तुष्टयं तासां स्थानविशेषरूपत्वात् । अत्रेदं बोध्यम् । प्रतीकाद्युपासनया सालोक्यं ।
अन्तरेण प्रतीकं स्वात्मनः पृथक्त्वेनैश्वर्यविशेषविशिष्टतया देवताया उपासकस्य च
रूपतः साम्यं सारूप्यम् । इयमेव सार्ष्टितेत्युच्यते । समानर्धितेत्यर्थः । सगुणं
देवतारूपमहंग्रहेणोपास्यदेवतातादात्म्यं प्राप्नोति । तदिदं सायुज्यमूर्ध्वरेतसां स्वाश्रमे
युक्तधर्मानुष्ठानवतां सामीप्यम् । 'एतासामेव देवतानां सायुज्यं सार्ष्टितां समानलो-
कतामाप्नोती'ति तैत्तिरीयश्रुतिरुक्तमुक्तित्रये प्रमाणम् । चतुर्थ्यां तु मण्डूकश्रुतिः । 'तपः-
श्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः
प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मे'ति । सूर्यद्वारेणेत्यस्य सूर्योपलक्षितेऽर्चि-
रादिमार्गेण गत्वा यत्र सत्यलोके स पुरुषो ब्रह्म वर्तते तत्र यान्तीत्यर्थात् । एताः
क्रमफलभूताः अनित्याः सातिशया मुक्तयः । अतएव स्थानवाचिना पदपदेनेह
निर्दिष्टाः । या तु ज्ञानफलं निरतिशयानन्दलक्षणं कैवल्याख्या मुक्तिस्तस्यां तु तैत्तिरी-
यश्रुतिरेव प्रमाणम् । 'य एवंविद्वानुदगयने प्रमीयते देवानामवे महिमानं गलादित्यस्य
सायुज्यं गच्छति । अथ यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमसः
सायुज्यँसलोकतामाप्नोत्येतौ वै सूर्याचन्द्रमसौर्महिमानौ ब्राह्मणो विद्वानभिजयाति तस्मा-
द्ब्रह्मणो महिमानमाप्नोती'ति । अत्र केवलकर्मणां चन्द्रलोकप्राप्तिः । य एवंविद्वानिति
विद्वच्छब्दाभिहितप्रतीकाद्युपासनात्रयवतो देवानां महिमानमित्यनेन सालोक्यादित्रयम् ।

or भजन् मर्त्यः? Let's look: भ ज न्म र्त्यः -> भजन्मार्त्यः? No, भजन् मर्च्यः? भजन् मर्त्यः with half-na: भजन् मर्त्यः or भजन्मार्त्यः?
Wait, look at भजन् मर्त्यः:
भ ज न्म र्त्यः -> भजन् मर्च्यः? No, it's भजन् मर्त्यः -> the न् is joined to म: भजन्मर्त्यः!
Wait, let's look at the letter: भ ज न्म र्त्यः - न्म has a loop of न् attached to म: भजन्मर्त्यः.
Wait, कैवल्यपदमश्नुत'इति -> अश्नुत'इति or अश्नुत इति? अश्नुत'इति with single quote.
तिसृभ्यो मूर्तिभ्यः

  • : पुरातनत्वात्त्रिपुरा । तदुक्तं 'मूर्तित्रयस्यापि पुरातनत्वात्तदम्बिकायास्त्रिपुरेति नामे'ति ।
    • पुरातनत्वात्त्रिपुरा ।

->भावाद्यैर्विभेदाः! LOOK AT IT: भा वा द्यै र्वि भे दा! Wait, does it have द्यै? Look above the letter: are there two matras (ai)? There is a matra going up and to the left, and a repha? Wait, if it's द्यैर्विभेदा, why would there be a repha on वि? Because भावाद्यैः+विभेदाः=भावाद्यैर्विभेदाः! The visarga becomes र्, which goes onto वि, so र्वि! Wait, what about द्यै? Look at the letter: द्य! दwithयattached below! Yes! In Nirnaya Sagar Press font,द्यhas the body ofदand a loop ofयat the bottom right! Wait, look at that letter: it is indeedद्य! Or is it ध? Wait, let's look at गौणीलीला...: What if line 16 is: गौणी लीला ...`
Wait, let's search Google's index of Saubhagya Bhaskara:
Verse 24 of Paribhasha:

पद्ध्यां विनिर्ययौ द्रष्टुं भवानीपादपल्लव'मित्यादिना तदर्चनान्मनोरथसिद्ध्यादिकं वर्णि-
तम्। उकारः शिववाचकस्तस्य मा लक्ष्मीः। उं परशिवं माति परिच्छिनत्तीति वा। अतसी-
कुसुमसंकाशत्वादभेदोपचारादुमा वा। हरिद्रावर्णत्वादप्येवं वा। कीर्तिकान्तिस्वरूप-
लाद्वा । 'या देवी सर्वभूतेषु कान्तिरूपेणे'त्यादिवचनात् । 'उमातसीहैमवतीहरिद्राकी-
र्तिकान्तिष्वि'ति विश्वः । उइत्यामन्त्रणे । मेति निषेधे । बाल्ये तपस्यन्ती भगवती
मात्रामन्त्र्य निषिद्धेत्युमा वा। तदुक्तं कालिकापुराणे 'यतो निरस्ता तपसे वनं गन्तुं तु
मेनया । उमेति तेन सोमेति नाम प्राप तदा सती'ति । ब्रह्मपुराणे 'अपर्णा तु निरा-
हारा तां माता प्रत्यभाषत । उमा इति निषेधन्ती उमेत्येव तदाभवत् । सा तथो-
क्त्वा तया मात्रा देवी दुश्चरचारिणी । तेनैव नाम्ना लोकेषु विख्याता सुरपूजिते'ति ।
पद्मपुराणे पुष्करखण्डे 'ततोऽन्तरिक्षाद्दिव्या वागब्रवीद्भुवनत्रये । उमेति तु तया
मेने यदुक्तं तनयां प्रति । उमेति नाम तेनास्या भुवनेषु भविष्यती'ति । उः उत्त-
मा च सा मा चित्तवृत्तिश्चेति वा । तदुक्तं सूतसंहितायां 'परानुभूतिं भवपाशनाशिनीं
सदाशिवस्याप्यतिशोभनाढ्याम् । उमाभिधामुत्तमचित्तवृत्तिं नमामि नानाविधलोकवैभ-
वा'मिति । अथवा प्रणवघटकैरकारोकारमकारैर्विष्णुशिवब्रह्मवाचकैर्घटितत्वात्त्रिमूर्त्यात्म-
केत्यादयः प्रणवार्थ इह योज्या

१३६ ललितासहस्रनाम ।
विश्वगर्भा स्वर्णगर्भावरदा वागधीश्वरी ।
ध्यानगम्यापरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ १७८ ॥
सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ।
वा । देवीपुराणे तु 'योगाग्निना तु या दग्धा पुनर्जाता हिमालयात् । शङ्खकुन्देन्दु-
वर्णा चेत्यतो गौरीति सा स्मृते'त्युक्तं । इयं च कान्यकुब्जपीठाधिष्ठात्री । 'कान्यकुब्जे
तथा गौरी'ति पाद्मात् । गन्धर्वैर्विश्वावसुप्रभृतिभिः सेविता । गन्धर्वैरैश्वर्या सेविता-
ऽश्वारूढाख्या देवी वा । दिव्यगानमेव वा गन्धर्वः ॥ १७७ ॥ विश्वं प्रपञ्चजातं गर्भे
यस्याः । स्वर्णं हिरण्यं गर्भे यस्याः । स्वर्णस्य गर्भभवा वा । तदुक्तं वायुपुराणे 'हिरण्य-
मस्या गर्भोऽभूद्धिरण्मस्यापि गर्भजः । यस्माद्धिरण्यगर्भः स पुराणेऽस्मिन्निरुच्यत' इति ।
यद्वा अर्णानां वर्णानां

? It's विwith repha? Wait!विधि(vi-dhi) thenर्वि(rvi) thenष्णु(ṣṇu)? Wait, look at the glyph:वि धि विwith repha? Wait, no:वि धि वि ष्णु... wait, does it say विधिर्विष्णु? Let's look: वि, धि, then there is a विwith repha on it, but the repha is onवि? No, the repha is over वि: र्वि! Wait, look closely: वि(1)धि(2)र्वि(3) - wait, is there anइmatra? Yes!ष्णु(4) Wait, let me look atविधिर्विष्णु: Letter 1: विLetter 2:धिLetter 3: it has ani-matra, and a repha? Wait, does it? Wait, compare letter 2 and 3: Is it विधिर्विष्णु`?
Let's find this verse:
Bhaskararaya's Devistava:
"विधिर्विष्णुर्मुखामरोदयस्थितिनाशेषु शिवोऽप्यनीश्वरः । जगदम्ब तव त्वयं क्रमः क्षणमु

तृतीय शतक: नाम ५०१ से ७५० (षट्चक्र भेदन एवं पराशक्ति स्वरूप)

' : look at 'च' in 'चैत्रासुर' in L24!
In L24: 'चैत्रासुरमयोध्यत्'. The 'चै' has a flat top, loop, vertical.
Now look at L13: it has a flat top, loop, vertical, two matras: 'चै'!
Wait, is it 'चैनां'? Yes, 'चैनां'!
Wait, why did I think 'रैनां'? Because 'च' can look like 'र' if faint, but it has the horizontal top of 'च'. It is 'चैनां'!
Wait, what about "नारायणाहृते"?
Look at the letter after 'नारायणा':
हृ (hṛ) or दृ (dṛ)?
Look at: "नारायणादृते"!
In 'दधौ चैनां नान्यो नारायणादृते' - the letter is 'दृ' (da with ṛ matra) or 'हृ'?
Look at 'दृ': द with a curve at the bottom: 'दृ'!
Yes, 'नारायणादृते ।'!

Let's read L14:
सखी सदाशिवस्यैषा माया विष्णोः शरीरजा । सैषा नारायणमुखे हृत्वा कमलोचन ।
Wait, "हृत्वा" or "हुत्वा" or "दृष्ट्वा" or "हृत्वा"?
Look at:
हृ

Here is the line-by-line transcription of the text from the image:

सौभाग्यभास्करव्याख्या । १३९
। इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी । ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ॥ १८१ ॥
त्युच्यते । शिवशक्तियुगलस्य कृतादेवी धारणाद्युगंधरा 'संज्ञायां भृतृवृजिधारिसहित-
पिदम'इति खच् । 'अरुर्द्विषदजन्तस्ये'ति मुम् ॥ १८० ॥ इच्छाज्ञानयत्न्यरूपगुणत्रयं
स्वरूपमस्याः । उक्तंच संकेतपद्धतौ 'इच्छा शिरःप्रदेशश्च ज्ञाना च तदधोगता । क्रिया-
पदगता ह्यस्या एवं शक्तित्रयं वपु'रिति । वामकेश्वरतन्त्रेऽपि 'त्रिपुरा त्रिविधा देवी
ब्रह्मविष्ण्वीशरूपिणी । ज्ञानशक्तिः क्रियाशक्तिरिच्छाशक्त्यात्मिका प्रिये' इति । अत्र
ज्ञानेच्छायत्नानां पूर्वपूर्वस्योत्तरोत्तरंप्रति कारणत्वस्य क्लृप्तस्य क्रमेण शक्तित्रयस्य निर्दे-
शाभावेऽपि करोतेर्यत्ने शक्तत्वादेव क्रियाशब्दो यत्नपरः । उक्तंच. लैङ्गे 'धृति

१४० ललितासहस्रनाम ।
अष्टमूर्तिरजा जैत्री लोकयात्राविधायिनी ।
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥ १८२ ॥

तेर्ड्स्त्री सूतेः सप् प्रसवः पुमान् । उभयोरन्तरं यच्च तदभावे नपुंसक'मितिच
'लिङ्गमशिष्य'मिति च । संबन्धमनुवर्तिष्यते कोऽसावनुमानो नामेति प्रयोगश्च ।
'बन्धुनि बहुव्रीहा'विति सौत्रप्रयोगश्च । एवंसत्यव्यवस्था माप्रसांक्षीदिति लिङ्गानुशा-
.सनप्रवृत्तिर्नियमादृष्टमात्रप्रयोजनिका । चेतनेषु तूभयविधलिङ्गसमुच्चयविवक्षयैव 'अजा-
द्यतष्टापि'त्यादयः । तेन पक्षैकत्ववलिङ्गमपि विवक्षितमिति साध्यतस्तथा च लिङ्गमित्य-
धिकरणस्य निरोधः । ततश्च त्रिगुणातीतायां चिच्छक्तौ सर्वजगन्मातरि त्रिपुरसुन्दर्यां
द्विविधस्यापि स्त्रीलिङ्गस्य सगुणचेतनानन्तरमपेक्ष्यासंकुचितवृत्तिकत्वेन निरर्गलत्वमभि-
प्रेत्य वाग्देवताभिः स्त्रीलिङ्गमेव प्रयुज्यते नियमादृष्टानुसरणाय तु तत्र तत्र लिङ्गानु-
शासनानुगुण्यमस्माभिः प्रदर्श्यते न पुनरपशब्दत्वनिरासायेति दिक् । शोभना
प्रतिष्ठा जगतोऽधिष्ठानं सुप्रतिष्ठाख्यविंशत्यक्षरछन्दोविशेषरूपा वा । सद्रूपा । असत्सद्भिन्नं
जगत् । अनिर्वचनीयस्य जगतः सदसद्विलक्षणत्वेऽपि सद्विलक्षणत्वमात्रेणासत्पदेन
ग्रहणम् । 'असद्वा इदमग्र आसीत्ततोऽसतः संजायते'त्यादिश्रुतिष्वन्यतरवैलक्षण्येनैव
प्रयोगदर्शनात् । तयोः रूपे धारयतीति तथा । अथवा सद्ब्यावहारिकं सत्यं पारमार्थिकं
वा असत्तुच्छं ते एव रूपे विषयौ धारयति भासयति । सदसद्विषयकज्ञानद्वयस्वरू-
पेत्यर्थः । सन्मात्रविषयकचरमवृत्तिवदसन्मात्रविषयिकाया अपि वृत्तेर्विकल्पाख्यायाः
सत्त्वात् । तथाच पातञ्जलसूत्रं 'शब्दमात्रानुपाती वस्तुशून्यो विकल्प' इति । गौतम-
सूत्रमपि 'बुद्धिसिद्धं तदस'दिति । यद्वा । भावाभावपरौ सदसच्छब्दौ । तौ च
योग्यतया सत्यत्वादबाध्यत्वादिरूपौ ग्राह्यौ । सत्यत्वादेर्धर्मिणोऽपृथक्त्वात् । अबा-
ध्यत्वादेरभावरूपधर्मस्याधिकरणस्वरूपत्वात् । भावाभावमात्रास्याधिष्ठानमिति वा ।
तदुक्तं स्कान्दे यज्ञवैभवखण्डे 'यद्यदस्तितया भाति यद्यन्नास्तितयापि च । तत्तत्सर्वं
महादेवंमायया परिकल्पित'मिति ॥ १८१ ॥ मत्स्यपुराणे 'लक्ष्मीर्मेधा धरा पुष्टिर्गौरी
तुष्टिः प्रभा धृतिः । एताभिः पाहि तनुभिरष्टाभिर्मां सरस्वति' इति मन्त्रलिङ्गगम्या अष्टौ
मूर्तयो यस्याः । यद्वा योगशास्त्रे 'गुणभेदादात्ममूर्तिरष्टधा परिकीर्तिता । जीवात्मा
चान्तरात्मा च परमात्मा च निर्मलः । शुद्धात्मा ज्ञानरूपात्मा महात्मा सप्तमः
स्मृतः । अष्टमस्तेषु भूतात्मेत्यष्टात्मानः प्रकीर्तिता'इति । पञ्चमहाभूतानि सूर्याचन्द्रमसौ
जीवात्मस्वर्गदीक्षितानामन्यतम एक इत्यष्टसंख्या मूर्तयो यस्याः । 'भूतानि पुष्पवन्तौ
खरिति देव्यष्टमूर्तय'इति शक्तिरहस्यात् । विष्णुपुराणेऽपि प्रथमेंशे 'सूर्यो जलं मही
वह्निर्वायुराकाश एव च । दीक्षितो ब्राह्मणः सोम इत्यष्टौ मूर्तयो मताः । पत्न्यः
सुवर्चला चोमा सुकेशी चापरा शिवा । स्वाहादितिस्तथा दीक्षा रोहिणी च यथाक्रमम् ।
शनैश्चरस्तथा शुक्नो लोहिताङ्गो मनोजवः । स्कन्दः खर्गोऽथ संतानो बुधश्चानुक्रमा-

Here is the complete, line-by-line transcription of the Sanskrit text from the image:

सौभाग्यभास्करव्याख्या । १४१
अन्नदा वसुधा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी ।
त्सुता'इति । लैङ्गे तूक्तं 'अष्टौ प्रकृतयो देव्या मूर्तयः परिकीर्तिताः । तथा विकृ-
तयस्तस्या देहा बह्वविभूतय'इति । 'भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधे'ति भगवता गीता मूर्तयो यस्या इति वा ।
कुलाष्टकस्वरूपेत्यर्थो वा । तच्च समयाचारस्मृतौ 'गणिका शौण्डिकी चैव कैवर्ती
रजकी तथा । तन्त्रकारी चर्मकारी मातङ्गी पुंश्चली तथे'ति । अथवा 'स्वल्पाङ्गी
दीर्घकेशी या सानङ्गकुसुमा मते'त्यादिना रुद्रयामले अष्टानां लक्षणान्युक्तानि ।
लक्ष्याणि तु तृतीयावरणे प्रसिद्धानि तदष्टकरूपा । ब्राह्म्यादिवशिन्यादिखरूपेति वा ।
'अजामेकां लोहितशुक्लकृष्णा'मित्यादिश्रुतिप्रसिद्धाया अविद्यारूपाया अजाय्रा जेत्री ।
ज्ञानरूपत्वादज्ञानना Bernard शिकेति यावत् । लोकानां चतुर्दशसंख्यानां यात्रां प्रलयं संरक्षणं
वा विधातुं शीलमस्याः । एकाकिनी द्वितीयरहित्यात् । 'एकादाकिनिच्चासहाय'इति
प्रत्ययः । 'सोऽबिभेत्तस्मादेकाकी बिभेति सहायमीक्षांचक्रे यन्मदन्यन्नास्ति कस्मान्नु
बिभेमीति तत एवास्य भयं वीयाये'ति बृहदारण्यकश्रुतेः । देवीपुराणे 'एकैव लोकान्
ग्रसति एकैव स्थापयत्यपि । एकैव सृजते विश्वं तस्मादेकाकिनी मते'ति ॥ अथ
परिभाषायां चतुस्त्रिंशन्नामानि विभजते । भूगीर्णोबलखेदालम्बार-
म्भाविभोर्वदेन्द्रावम् । हस्ती द्वित्र्यैकं वा भजते वातूलमन्दमृगान् ॥ २५ ॥
एकमित्यस्य द्वादशाक्षरमेकं नामेत्यर्थः ॥ २५ ॥ 'यत्र नान्यत्पश्यति नान्यच्छृणोती'त्या-
दिना'यो वै भूमा तत्सुख'मित्यन्तेन श्रुतौ प्रतिपादितो भूमा ब्रह्मैवेति भूमाधिकरणे
निर्णीतरूपत्वाद्भूमरूपा । यद्वा 'बहोर्लोपो भू च बहो'रिति निष्पन्नो बह्वर्थको भूम-
शब्दः । ततश्चाकिन्यपि बहुरूपेत्यर्थः । तदुक्तं देवीपुराणे 'एकाप्युपाधितो भूमा
शिवा सर्वत्र विश्रुता । यथानुरज्यते वर्णैर्विचित्रैः स्फटिको मणिः । तथा गुणव-
शाद्देवी भूमानामेति वर्ण्यते । एको भूत्वा यथा मेघः पृथक्त्वेन च तिष्ठति । वर्णतो
रूपतश्चैव तथा गुणवशादुमा । नभसः पतितं तोयं यथा नानारसं भवेत् । भूमे
रसविशेषेण तथा गुणवशादुमा । यथा द्रव्यविशेषेण वायुरेकः पृथग्भवेत् । दुर्गन्धो
वा सुगन्धो वा तथा गुणवशादुमा । यथा वा गार्हपत्योग्निरन्यसंज्ञान्तरं व्रजेत् ।
दक्षिणााहवनीयादि ब्रह्मादिषु तथैव सा । एकत्वेन च भूम्ना च प्रोक्ता देवी निदर्शनैः ।
तस्माद्भक्तिः परा कार्या सर्वगत्वप्रसिद्धय'इति । कूर्मपुराणेपि 'एका कामेश्वरी शक्ति-
रनेकोपाधियोगतः । परावरेण रूपेण क्रीडते तस्य सन्निधा'विति । 'यत्र नान्यत्पश्यति'-
इत्यादिना 'यदल्पं तन्मर्त्य'मित्यन्तेन श्रुतौ द्वैतदर्शनस्यानित्यविषयकताप्रतिपादनेन
तस्य हेयत्वान्निर्गतं द्वैतं यस्यां सा निर्द्वैता । न पुनर्द्वैतं पूर्वं स्थितं पश्चान्निर्गतं ।
मूलत एव तु नास्तीत्याह—द्वैतवर्जितेति । भेदस्यातात्त्विकत्वेन सार्वकालिकात्तद-
भावादिति भावः ॥ १८२ ॥ अन्नं जनेभ्यो ददाति । वसु धनं रत्नं च ददाति ।

१४२ ललितासहस्रनाम ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥ १८३ ॥
भाषारूपा बृहत्सेना भावाभावविवर्जिता ।
सुखाराध्या शुभकरी शोभना सुलभागतिः ॥ १८४ ॥
तथाच बृहदारण्यके 'स वा एष महानज आत्मान्नादो वसुदानो विन्दते वसु
य एवंवेदे'ति । अन्नान्नमासमन्ताद्ददातीत्येवमेव व्याख्यातं सांप्रदायिकैः । वृद्धा जरठा ।
'त्वं जीर्णा दण्डेन वञ्चसी'ति श्रुतेः । वञ्चसि गच्छसीत्यर्थः । सर्वज्येष्ठत्वाज्जगद्रूपे-
णाभिवृद्धत्वाद्वा वृद्धा । वर्धयति जगदिति वा णिजन्तात्कर्तरि क्तः । ब्रह्मणा चैतन्येन
सह आत्मनां जीवानामैक्यमेव स्वं निजं रूपमस्याः । यद्वा ब्रह्मात्मनोः शिवजीव-
योरेक्यमेव खं सर्वखं प्रतिपाद्यं यस्य स हंसमन्त्रो रूपमस्या इति । तदुक्तं स्कान्दे
यज्ञवैभवखण्डे 'अथवा जीवमन्त्रोऽयं जीवात्मप्रतिपादकः । अहंशब्दस्य रूढत्वाल्लोके
जीवात्मवस्तुनि । शक्तिमन्त्रः सकाराख्यः परमेश्वरवाचकः । प्रकृतार्थे प्रसिद्धत्वादप्रसिद्धः
परमेश्वरः । महदाद्यणुपर्यन्तं जगत्सर्वं चराचरम् । जायते वर्तते चैव लीयते परमे-
श्वरे । संसारित्वेन भातोऽहं स एव परमेश्वरः । सोऽहमेव न संदेहः स्वानुभूतिप्रमाणत'
इति । एतेन त्रिशत्यां हंसमन्त्रार्थरूपिणीति नाम व्याख्यातम् । महतो महीयत्वा-
दृहती । षट्त्रिंशदक्षरच्छन्दोविशेषरूपा वा । नच 'गायत्री छन्दसामसी'ति कौर्मवच-
नविरोधः । उभयात्मत्वाङ्गीकारे तदभावात् । अतएव 'बृहत्साम तथा साम्ना'मिति
भगवतो वासुदेवस्य विश्वरूपवर्णने गीतावचनस्य भगवत्या विश्वरूपवर्णनार्थेन 'ज्येष्ठं
साम च सामस्वि'ति कौर्मवचनेन न विरोधः । तलवकारिणां शाखायामुदुलं चित्रमि-
त्यनयोर्ऋचोर्गीयमानं साम ज्येष्ठसामेत्युज्ज्वलायां हरदत्तोक्तेः । बृहत्साम तु सखं न-
श्चित्रेत्यास्यामृचि गीयमानं प्रसिद्धमेव । बृहज्ज्येष्ठशब्दयोः पर्यायत्वसंभवाच्च । तेन
ज्येष्ठसामरूपेति वा बृहत्सामरूपेति वा व्याख्या । 'ब्राह्मणी फञ्जिका स्पृक्का द्विजपत्नीषु
विश्रुते'ति विश्वकोशादौषधिविशेषरूपा द्विजस्त्रीमात्ररूपा वा संविद्विशेषरूपा वा ।
उक्तंच समयाचारस्मृतौ 'ब्राह्मणी श्वेतपुष्पाख्या संवित्सा देवतात्मिके'ति । अथवा
शिवस्य ब्राह्मणत्वजातिमत्त्वाद्ब्राह्मणी । तथाच छन्दोग्ये श्रूयते 'विरूपाक्षोसि दन्तर्चि'-
रिति शिवं प्रकृत्य 'त्वं देवेषु ब्राह्मणोऽस्यहं मनुष्येषु ब्राह्मणो ब्राह्मणमुपधावत्युप त्वाधा-
वामी'ति पराशरादित्यकौर्मवासिष्ठलैङ्गेषु स्मर्यते । 'ब्राह्मणो भगवान्सांबो ब्राह्मणानां हि
दैवतम् । विशेषाद्ब्राह्मणो रुद्रमीशानं शरणं व्रजे'दिति । विष्णुभागवतेऽपि 'न मे
गर्भमिमं ब्रह्मन्नि'त्यादिना शिवकोपाद्विभ्यत्यादित्या तस्य ब्राह्मणत्वं व्यक्तीकृतमिति तु
शिवतत्वविवेके द्रष्टव्यम् । अविद्यातिरिक्तजडजातिसद्भावे मानाभाव इत्यत आह ब्राह्मी ।
'ब्राह्मो जाता'विति निपातनात्साधुः । वागात्मिका वा । ब्रह्मैवानन्दो यस्याः सगुणायाः ।
मत्वर्थीयाच्प्रत्ययेन ब्रह्मानन्दवती वा । बलिनो विद्यानिराससमर्थाः कामादिशत्रु-
जेतारः प्रिया दयापात्रं यस्याः । बलिनामको राजा प्रियो यस्य वामनस्य तद-
भिन्ना वा । पूजोपहाराः प्रिया यस्या वा ॥ १८३ ॥ संस्कृतप्राकृतादिभाषा रूपं

यस्याः । भाषाभिर्निरूप्यत इति वा । तदुक्तं 'संस्कृतेनैव केप्याहुः केचिन्म्लेच्छादि-
भाषया । साधारण्येन केपि त्वां प्राकृतेनैव केचने'ति । बृहती अपारा सेना चतु-
रङ्गबलं यस्याः । बृहतसेनाख्यराजविशेषरूपा वा । भावा द्रव्यगुणादयोऽभावाः प्राग-
भावादयस्तैरभयैरपि विवर्जिता । ननूभयेषामभावस्याप्यभावत्वेन तद्बत्त्वे कथमभाव-
विवर्जितत्वं । किंच प्रागभावध्वंसात्यन्ताभावादयोऽपि द्रव्यगुणादिप्रतियोगिका एव
वक्तव्याः । प्रकारान्तरायोगात् । ततश्च द्रव्याभावाभावे द्रव्यत्वं द्रव्याभावे च द्रव्या-
भावत्वमेवापद्यत इति कथं भावाभावविवर्जितत्वमिति चेत् । न । व्यासपादैरेव
परिहृतत्वात् । तदुक्तं स्कान्दे यज्ञवैभवखण्डे 'अधिष्ठानावशेषो हि नाशः कल्पितव-
स्तुनः । भावस्यैव ह्यभावत्वं नाशो भावस्य भावता ।

१४४ ललितासहस्रनाम ।
राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ।
राजत्कृपा राजपीठनिवेशितनिजाश्रिता ॥ १८५ ॥
राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी ।
साम्राज्यदायिनी सत्यसंधा सागरमेखला ॥ १८६ ॥
दीक्षिता दैत्यशमनी सर्वलोकवशंकरी ।
प्रचण्डाज्ञेत्यस्यैकपदत्वलिप्सया प्रकृते गतिपदानुषङ्गेणापि नामद्वयं स्वीकर्तुमुचितमिति
दिक् । सर्वथैकमेव नामेति यद्याग्रहस्तदैकमेव पदमिति सुवचम् । शोभना च ।
सावसुलभाचेति विग्रहे सुदुर्लभेत्यर्थः । सुदुर्लभा आगतिः पुनरावृत्तिर्यया ।
जन्मछेत्रीति यावत् । 'यस्य नो पश्चिमं जन्म यदि वा शंकरः स्वयम् । तेनैव लभ्यते
विद्या श्रीमत्पञ्चदशाक्षरी'ति. ब्रह्माण्डपुराणात् । यद्वा । असुलभा गतिर्दुर्लभं जन्म
मानुषादि तच्छोभनं ययेत्यर्थः । उक्तंच देवीभागवते 'यैर्न श्रुतं भागवतं पुराणं
नाराधिता यैः प्रकृतिः पुराणी । हुतं मुखे नैव धरामराणां तेषां वृथा जन्म गतं
नराणा'मिति । विष्णुभागवते लत्रैव 'नाराधितो यैः पुरुषः पुराण'इति द्वितीयचरणः
पठ्यत इति भेदः । शोभनाऽसुरनायिकेत्यत्र शोभनानामसुराणां प्रह्लादादीनामित्यर्थं
निवेर्ष्य प्रकृते नामत्रयमपि सुवचम् ॥ १८४ ॥ राज्ञां देवराजादीनां ये राजानो
ब्रह्मविष्णुरुद्रास्तेषामपीश्वरी । राजराजस्य कुबेरस्येश्वरी वा । राज्यं स्वाराज्यवैकुण्ठकै-
लासाधिपत्यादिकं दातुं शीलमस्याः । पूर्वोक्तानि राज्यानि वल्लभानि प्रियाणि यस्याः ।
राज्यशब्देन तत्पतयो राजानो वा कथ्यन्ते । अतएव श्रीनगर तेषां वासः स्मर्यते ।
यदाह दूर्वांसः 'मध्यक्षोण्याममुयोर्महेन्द्रनीलात्मकानि च सरांसि । शातोदरीसहा-
यान्नृपालानपि पुनःपुनः प्रणम' इति । अमुयोरित्यस्य त्रयोदशचतुर्दशप्रकारयोरि-
त्यर्थः । राजन्ती शोभमाना कृपा यस्याः । राज्ञां नृपाणामिन्द्रादीनां च पीठेषु
सिंहासनेषु निवेशिता निजा आश्रिता यया ॥ १८५ ॥ राज्याभिमानिनी लक्ष्मी
राज्यलक्ष्मीः । यस्या मन्त्रस्तन्त्रराजे प्रसिद्धः । कोशस्य भाण्डागारस्य दिव्यस्य अन्नम-
यादेर्वा नाथा स्वामिनी । चत्वारि हस्त्यश्वरथपादातरूपाण्यङ्गानि येषां तेषां वलाना-
मीश्वरी । अङ्गान्येव बलं येषां तेऽङ्गबला व्यूहाः । चतुरवयवका ये व्यूहास्तेषा-
मीशित्री वा अङ्गबलेश्वरशब्द एव वा व्यूहवाची । तेन द्विगुत्वान्डीष् । चतुर्थव्यूहा-
त्मेत्यर्थः । तेच वासुदेवाद्या वैष्णवेषु पुराणेष्विव शैवशाक्तेष्वपि पुराणेषु प्रसि-
द्धास्ते त इहोदाहार्याः । शरीरपुरुषः छन्दःपुरुषो वेदपुरुषो महापुरुष इति बह्वृचो-
पनिषदुक्ता वा । राजसूयेन यष्टा मण्डलेश्वरो वा राजाधिराजो वा सम्राट् । तस्य
भावः साम्राज्यं तद्दत्ते 'येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः
स सम्रा'डित्यग्निपुराणीयकोशात् । सत्ये अनुल्लङ्घ्ये संधे प्रतिज्ञामर्यादे यस्याः ।
सागराः समुद्रा एव मेखला काञ्ची यस्या भूमेः सा ॥ १८६ ॥ धियं ज्ञानं क्षिणोति

सौभाग्यभास्करव्याख्या । १४५
सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ॥ १८७ ॥
देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।
प्रापयतीति दीक्षा । 'अथातो दीक्षा कस्य स्विद्धेतोर्दीक्षित इत्याचक्षत'इत्यारभ्य 'तं
वा एतं दीक्षितं सन्तं दीक्षित इत्याचक्षत'इत्यन्तादाथर्वणब्राह्मणात् । 'शिष्येभ्यो मन्त्र-
दानेन पापं क्षपयतीति वा । दीयते कृपया शिष्ये क्षीयते पापसंचयः । तेन दीक्षेति
कथिते'ति परानन्दतन्त्रात् । सा अस्य संजातेति दीक्षितस्तदभिन्ना । दैत्यानां भण्डा-
दीनां शमनी नाशिका । सर्वान् लोकान्स्ववशे कुरुते । वशमिति मान्तमव्ययम् ।
सर्वेषां चतुर्णामर्थानां पुरुषाथानां दात्री । तृन्नन्तयोगे 'न लोके'ति षष्ठ्या एव निषे-
धात्कृद्योगलक्षणषष्ठ्याः 'तृजकाभ्या'मिति समासनिषेधेऽपि शेषषष्ठ्या समासः । उक्तंच
देवीपुराणे 'धर्मादींश्चिन्तितार्थान्सर्वलोकेषु यच्छति । अतो देवी समाख्याता सर्वैः
सर्वार्थसाधनी'ति । सवितुर्जगत्प्रसूतेः परशिवस्येयं सावित्री । 'प्रजानां च प्रसव-
नात्सवितेति निगद्यत'इति विष्णुधर्मोत्तरात् । 'सवितृप्रकाशकरणात्सावित्रीत्यभिधा-
भवेत् । जगतः प्रसवित्रीति हेतुनानेन वापिचे'ति भारद्वाजस्मृतेश्च । 'सावित्री
प्रसवस्थिते'रिति वासिष्ठरामायणाच्च । देवीपुराणे तु 'त्रिदशैरर्चिता देवी वेदयोगेषु
पूजिता । भावशुद्धस्वरूपा च सावित्री तेन सा स्मृते'त्युक्तम् । देवीभागवते तु
‘स्रवणं स्यन्दनार्थे च धातुरेष निपात्यते । स्रवणे तेजसोत्पत्तिः सावित्री तेन कथ्यत'
इत्युक्तम् । इयंच पुष्करतीर्थाधिष्ठात्री देवता । तदुक्तं पद्मपुराणे 'सावित्री पुष्करे
नाम्ना तीर्थानां प्रवरे शुभ'इति ॥ अथ परिभाषायां षट्त्रिंशन्नामानि विभजते ।
देहगुणाङ्गव्लेशाद्विस्तेरूपं दिवाभूरि । वारिगणेभाविगुणास्त्रिपदलता-
भावजववादाः ॥ २६ ॥ सत्वं चित्त्वमानन्दश्च रूपं स्वरूपमत एव विद्यान्तरे-
ऽपसंहार्यमस्या इति सच्चिदानन्दरूपिणी ॥ १८७ ॥ इति भास्कररायेण कृते
सौभाग्यभास्करे । सप्तमेन शतेनाभूदष्टमी भोगदाकला ॥ ७०० ॥ इति
सप्तमशतकं नामाष्टमीकला ॥ ८ ॥ ॥ देशकालाभ्यामपरिच्छिन्ना तत्कृतपरिच्छे-
दाभाववती । उक्तंच योगसूत्रे 'स पूर्वेषामपि गुरुः कालेनानवच्छेदा'दिति । स ईश्वरः
पूर्वेषां ब्रह्मादीनामपि गुरुः पिता । कालेनानवच्छिन्नत्वादित्यर्थः । इह नास्तीति प्रतीति-
विषयोऽत्यन्ताभावो देशतः परिच्छेदः । पूर्वं नासीदग्रे न भविष्यतीति प्रतीतिविषयौ
प्रागभावध्वंसौ कालतः परिच्छेदः । अधुना नास्तीति त्वत्यन्ताभाव एव । देशे
वृत्तौ कालस्य काले वृत्तौ देशस्य चावच्छेदकत्वनियमादिदानीं गोष्ठे गौर्न मन्दुरायामिति
प्रतीतेरिहाधुनेत्यनयोरेकस्याधिकरणत्वेनान्यस्यावच्छेदकत्वेनोल्लेखान्न प्रयोग इति ग्रन्था-
न्तरेषु विस्तरः । ईदृशपरिच्छेदाभावो नाम तत्प्रतियोगित्वाभावः प्रतियोगित्वसं-
बन्धेन तयोरभावो वा । तद्वतीत्यर्थः । तदुक्तं सौरसंहितायां 'पुमानाकाशवंव्यापी
खातिरिक्तं मृषा यतः । देशतः कालतश्चापि ह्यनन्तो वस्तुतः स्मृत' इति । अनन्तश-
१३

१४६ ललितासहस्रनाम ।
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥ १८८ ॥
न्दस्य परिच्छेदाभाववानित्यर्थः । नन्वत्र वस्तुतः परिच्छेदाभावोऽपि स्मर्यते । अस्तिहि
अयमयं नेति प्रतीतिविषयोऽन्योन्याभावो नाम वस्तुतः परिच्छेदः । तत्प्रतियोगित्वा-
भावः किमिति नोक्त इति चेत् । तस्य वादविप्रतिपत्तिविषयत्वेन बहुभिर्नामभिः
समर्थयिष्यमाणत्वेन पृथङ्निर्देश्यमानत्वादिति गृहाण । तदेवाह सर्वगा । सर्वे वस्तुमात्रं
गच्छत्यभेदेन प्राप्नोतीति सर्वगा । 'अन्तात्यन्ताध्वे'त्यादिना डः । तदुक्तं वराह-
पुराणे 'त्रिमूर्तिषु सृष्टिनामिकां श्वेतपर्वते तपश्चरन्तीं प्रति ब्रह्मणा वरो व्रियतामित्युक्ते
देव्या वचनं 'भगवन्नेकदेशेऽहं नोत्सहे स्थातुमञ्जसा । अतोऽर्थं त्वां वरं याचे
सर्वगत्वमभीप्सती । एवमुक्तस्तदा ब्रह्मा सृष्ट्यै देव्यै प्रजापतिः । उवाच सर्वरूपे त्वं
सर्वगासि भविष्यसी'ति । अत्र सर्वगत्वविवरणरूपस्य सर्वरूपे इति संबोधनस्य
सर्वाभिन्ने इत्यर्थकत्वात्परिकराङ्कुरालंकारः । सर्वाभिन्नत्वं च सिद्धमेवेत्यसीत्युक्तम् ।
अतएव साध्यत्वद्योतकस्य भविष्यसीत्यस्य सर्वक्षेत्रेषु तव सगुणमूर्तयो भविष्यन्ती-
त्येतत्परत्वम् । अतः सर्वक्षेत्रेषु विद्यमानेत्यप्यर्थः । सर्वान्तर्यामिणीति वा । ईदृशार्थत्र-
यमप्यभिप्रेत्योक्तं देवीपुराणे 'देव्या वा एष सिद्धान्तः परमार्था महामते । एषा
वेदाश्च यज्ञाश्च स्वर्गाश्चैव न संशयः । देव्या व्याप्तमिदं सर्वं जगत्स्थावरजंगमम् ।
ईज्यते पूज्यते देवी अन्नपानात्मिका च सा । सर्वत्र शांकरी देवी तनुभिर्नामभिश्च
सा । वृक्षेषूर्व्यां तथा वायौ व्योम्न्यप्स्वग्नौ च सर्वगा । एवंविधा ह्यसौ देवी सदा
पूज्या विधानतः । ईदृशीं वेत्ति यस्त्वेनां स तस्यामेव लीयत'इति । ननु नित्यत्वा-
नित्यत्वजडत्वचित्त्वादिविरुद्धधर्मसमावेशात्कथमन्योन्याभावप्रतियोगित्वस्य ब्रह्मण्यभाव
इत्यत आह । सर्वमोहिनी सर्वान्प्राकृतजनान् भेदभाने सत्यत्वं मन्यमानान् मोहयति
अद्वैतविषयकज्ञानविधुरान् कुरुते इति तथा । ब्रह्मणो जगतश्च भेदभानस्य मोहमात्र-
त्वाद्वस्तुतोऽपरिच्छेद्यत्वे न कापि क्षतिरिति भावः । उक्तंच कूर्मपुराणे शिवेन 'इयं
सा परमा शक्तिर्मन्मयी ब्रह्मरूपिणी । माया मम प्रियानन्ता ययेदं मोहितं जगत् ।
अनयैतज्जगत्सर्वं सदेवासुरमानुषम् । मोहयामि द्विजश्रेष्ठाः सृजामि विसृजामि चे'ति ।
अत्रैव हिमवन्तंप्रति देवीवचनम् 'यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन्विविधानि तु ।
श्रुतिस्मृतिविरुद्धानि द्वैतवादरतानि च । कापालं भैरवं चैव शाकलं गौतमं मतम् । एवं-
विधानि चान्यानि मोहनार्थानि तानि तु । ये कुशास्त्राभियोगेन मोहयन्तीव मानवान् ।
मया सृष्टानि शास्त्राणि मोहायैषां भवान्तर'इति । सूतसंहितायामपि 'प्रसादहीनाः पा-
पिष्ठा मोहिता मायया जनाः । नैव जानन्ति देवेशं जन्मनाशादिपीडिता'इति । सर्वे
त्रैलोक्यं मोहयतीति वा । त्रैलोक्यमोहनचक्रविद्योभयरूपेति यावत् । ननु घटपटयोर्भ-
दभानस्यापि तुल्यन्यायेन मोहमात्रत्वात्तयोरप्यभेद एवास्त्वत. आह—सरस्वती ।
ज्ञानाभिमानिनी देवता ज्ञानसमुद्ररूपेत्यर्थः । विषयानवच्छिन्नज्ञानरूपेति यावत् । घटा-
दिजडपदार्थनिर्णये मोहस्यायोगेपि 'अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव' इति वच-

...
Wait! Where is 'वि'?
Is there a 'वि' at all?!
Let's look at the letters before 'कारेत्यप्यर्थः':
Wait! Look at the letters:
Is it: "विकारेत्यप्यर्थः"?
Letters:
? - ? - क - ा - र - े - त् - य - प ्य - र्थ - ः
Wait: ... क - ा - र - े - त् - य - प ्य - र्थ - ः = ...कारेत्यप्यर्थः!
What is before 'कारेत्यप्यर्थः'?
There are TWO syllables before 'कारेत्यप्यर्थः'!
Wait, let's look:
There is a letter, then 'वि'?
No! Look at:
Letter 1, Letter 2:
Wait! Is Letter 2 'वि'?
No, look at Letter 2: it has 'क', 'ा': 'का'!
Before 'का', what is there?
There is: 'वि'!
Before 'वि', what is there?
There is: a letter!
Wait! Let's look really closely at L14:
First glyph: a loop on the left, then... wait!
Could it be 'ख'?
If it's 'ख', then 'खविकारेत्यप्यर्थः' or 'खविकार...'?
Wait! Look at L13:
"-लाञ्छा-" and L14: "खविकारेत्यप्यर्थः

१४८ ललितासहस्रनाम ।
सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता ।
संप्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ॥ १८९ ॥
इति वा । तदुक्तं कौर्मे विभूतियोगवर्णनावसरे 'सर्वोपनिषदां देवि गुह्योपनिषदुच्यसे'
इति ॥ १८८ ॥ ननु तर्हि शास्त्रद्वयप्रामाण्यात् भेदाभेदप्रसक्तिरिति नाद्वैतं सिध्ये-
दित्यत आह । सर्वैः स्कन्दजनकत्वच्छायातपत्त्वादिभिरुपाधिभिः सखण्डैरखण्डैश्च
धर्मैर्विशिष्य निःशेषेण मुक्ता त्यक्ता धर्मसंबन्धशून्या । ततश्च धर्माणां स्वसंबन्धा-
भाववति भासमानः संबन्धः शुक्तौ रजततादात्म्यमिव मिथ्यैवेति शास्त्रस्य सत्यावे-
दकत्वरूपप्रामाण्यनिर्वाहाय सर्वेषां वेदान्तानामद्वैते पारमार्थिके परब्रह्मणि साक्षा-
त्परंपरया वा तात्पर्यस्य वक्तव्यत्वाद्भेदप्रतिपादकशास्त्रस्य पञ्चषाङ्गुलग्रासावेदकोपरा-
गशास्त्रस्येव व्यावहारिकदृष्ट्यैव प्रवृत्तिरिति न भेदाभेदयोः समकक्ष्यतेति भावः ।
तार्किकप्रसिद्धोपाधिशून्या तादृशसद्धेतुगम्येति वा । नन्वेवंसति त्रिपुरसुन्दर्याः शक्ति-
रूपत्वात्तस्याश्च पराहन्ताधर्मरूपत्वाविशेषेण मिथ्यात्वप्रसङ्ग इत्यत आह—सदेति ।
शिव एव पतिरिति व्रतं नियमः सदा सार्वकालिको यस्याः । शिवस्य पत्नीत्वं
शिववदेव सदातनं कालत्रयाबाध्यमिति यावत् । इतरे तु पदार्थाः कल्पितास्तेषु
धर्मत्वमपि दृश्यत्वाविशेषात्कल्पितमेव । शक्तौ तु धर्मत्वमात्रं कल्पितं नतु शक्ति-
रपि कल्पिता । अतएव सा ब्रह्मकोटिरिति भावः । सदाशिवस्य पतिव्रतेति वा ।
ननु कथमेतदवगम्यते । पराहन्तातिरिक्ता एव धर्माः कल्पिता इति । प्रत्युत विनि-
गमनाविरहेण सर्वेषामेव धर्माणां मिथ्यात्वमेव वा (ऽसत्यत्वमेव) वा स्यादित्यत आह ।
सम्यक् शिष्येभ्यः प्रदीयते इति संप्रदायः । तत्रेश्वरी समर्था समर्थनक्षमा ।
न्यायैः संप्रदायेन चैतदवगम्यत इत्यर्थः । यथा हि निर्धर्मके ब्रह्मणि वियदादयो
धर्माः कल्पिताः वियदाद्यवच्छिन्नेऽपि चैतन्ये पुनःशब्दविषयत्वद्रव्यत्वधर्मत्वादयस्तद-
वच्छिन्नचैतन्येऽपि पुनर्धर्मत्वादयः कल्पितास्तथा धर्मत्वस्यापि धर्मित्वस्येव दृश्यस्य
निर्धर्मकेऽपि ब्रह्मणि सुकल्पत्वादेकस्यैव धर्मधर्मिभावे न्यायेनैव सिद्धे तत्र शिवएव
धर्मी शक्तिरेव धर्म इति तु संप्रदायादवगन्तव्यमिति भावः । ब्रह्मैव शक्यप्रपञ्च-
प्रतियोगित्वेन शक्तिरित्युच्यत इति सांप्रदायिकाः । संप्रदायसंज्ञको मन्त्रार्थोऽपि
योगिनीहृदये दत्तात्रेयसंहितायां च प्रसिद्धः । सच कादिविद्यायामेव स्वरस इति तु वरि-
वस्यारहस्य एवोपपादितमस्माभिः । तदीश्वरीत्यर्थो वा । युक्तं चैतदित्याह । साधु
उचितं । दाहकत्वादिशक्तेर्वह्निधर्मताया एव लोके दर्शनात्पराहन्ताशक्तेर्धर्मत्वमेव
वक्तुमुचितमिति भावः । नपुंसकमिदं नाम । तेन साधुनेदम् इति प्रयोगः । तेन
साध्वी सद्गतिदायिनीत्यनेन न पौनरुक्त्यम् । तस्य धर्मस्य द्वे रूपे इत्याह । ई तुर्यस्व-
रूपमेकाक्षरं कामकलासंज्ञकमिदं नाम । विष्णुपरात्प्रथमस्वररूपादकारात् अस्य
भगिनी ई इति विग्रहे पुंयोगलक्षणे ङीषि 'यस्येतिचे'त्यकारलोपेऽवशिष्टात्प्रत्ययमात्रा-