ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 157, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । १२९
देवेशी दण्डनीतिस्था दहराकाशरूपिणी ।
प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ॥ १७३ ॥
निवर्तक' इति । अन्यत्रापि । 'गुकारः सदिति प्रोक्तो रुकारो ज्ञानवाचकः ।
ब्रह्मज्ञानैकरूपत्वाद्गुरुरित्यभिधीयत'इति । 'तामिच्छाविग्रहां देवीं गुरुरूपां विभावये'-
दिति । नित्याहृदयोऽपि । गुणानां निधिः शेवधिः । 'कर्मण्यधिकर-
णेचे'ति किः । सत्त्वादिगुणानां सत्त्वत्वादिजातिभिश्चित्वेऽपि व्यक्त्यानन्त्यमिति सांख्य-
सिद्धान्तात् । अतएव सांख्यप्रवचनसूत्रं 'लघुत्वादिधर्मैरन्योन्यं साधर्म्यं वैधर्म्यं च
गुणाना'मित्युपपद्यते । सत्त्वादयश्च द्रव्यत्वेऽपि पुरुषोपकरणत्वादुणा इत्युच्यन्ते ।
ईदृशानां गुणानां निधिर्वा । यद्वा गुणा व्यूहरूपा निधिसंख्या यस्याः । नवव्यूहा-
त्मकत्वरूपगुण