ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 159, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । १३१
आदिशक्तिरमेयाऽत्मा परमा पावनाकृतिः ।
अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ॥ १७५ ॥
कारणभूता च सा शक्तिश्च । मातुमशक्या अमेया । न विद्यते मेयं यस्या इति वा ।
यदपेक्षयाऽतिरिक्तं मेयं नास्तीत्यर्थः । तदुक्तं लिङ्गपुराणे 'खर्गपाताललोकान्तब्रह्मा-
ण्डावरणाष्टके । मेयं सर्वमुमारूपं माता देवो महेश्वर' इति । आत्मशब्देन जीवः
परमशब्दोत्तरं चात्मानुषङ्गात्परमात्मा चेति नामद्वयेन कथ्यते । उक्तंच लैङ्गे
'विष्णुर्लिङ्गा यथा तावदग्नौ च बहुधा स्मृताः । जीवाः सर्वे तथा शर्वाः परमात्मा
च स स्मृत'इति । शिवपुराणेऽपि 'आत्मा तस्याष्टमी मूर्तिः शिवस्य परमा तनुः ।
व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मक'मिति । अस्मिन्पक्षे आत्मने नमः परमाया-
त्मने नम इति नामद्वयप्रयोगः । 'नमो भवाय च रुद्राय च नम'इत्यादिमन्त्राणा-
मप्युभयतोनमस्कारत्वपक्षे सकृत्पठितस्यापि नमःशब्दस्य रुद्रशब्दस्य सर्वशब्दोभय-
शेषत्वेन पुनरावृत्तिवदात्मशब्दस्य वृत्तिः । यद्वा । आत्मशब्देन ब्रह्मैव । 'यच्चाप्नोति
यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सततो भावस्तस्मादात्मेति कीर्त्यत' इति
वचनात् । आत्मशब्देन शरीरमेवोच्यते । तथाच वासिष्ठलैङ्गे 'गौरीरूपाणि सर्वाणि
शरीराणि शरीरिणाम् । शरीरिणस्तथा सर्वे शंकरांशा व्यवस्थिता'इति । एवं आत्मा
देहमनोब्रह्मस्वभावधृतिबुद्धिष्वि'ति विश्वप्रकाशोक्तान्यर्थान्तराण्यपि योज्यानि । 'या
देवी सर्वभूतेषु बुद्धिरूपेण संस्थिते'त्यादिवचनात् । परं ब्रह्म माति परिच्छिनत्तीति
परमा । परस्य शिवस्य मा लक्ष्मीर्वा । यद्वा परब्रह्मणो रूपचतुष्टयमस्ति तस्मात्परमो-
त्कृष्टा । तदुक्तं विष्णुपुराणे 'परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विजाः । व्यक्ताव्यक्ते
तथैवान्ये रूपे कालस्तथा परम् । प्रधानपुरुषव्यक्तकालानां परमं हि यत् । पश्यन्ति
सूरयः शुद्धं तद्विष्णोः परमं पदम् । प्रधानपुरुषव्यक्तकालास्तु प्रविभागशः । रूपाणि
स्थितिसर्गान्तव्यक्तिसद्भावहेतव'इति । पावनी पावयित्री आकृतिः शरीरं चरित्रं वा
ज्ञानं वा यस्याः । तथाच याज्ञवल्क्यस्मृतिः 'भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम् ।
क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मते'ति । अनेका अनन्ताः कोटयो ये ब्रह्माण्डास्तेषां
जननी जनयित्री । यद्वा अनेककोटयो ब्रह्माण्डा येषां ते तथा । अभिमन्य-
मानत्वादिरूपः संबन्धः षष्ठ्यर्थः । तेषां विराडादीनां जननी । विकारषोडशान्त-
र्वर्तिपञ्चीकृतस्थूलभूतकार्यो हि ब्रह्माण्डः । तदभिमानी विराडुच्यते । ब्रह्माण्डान्त-
र्वर्तिसमष्टिलिङ्गशरीराभिमानी खराट् । तदुभयकारणाव्याकृताभिमानी सम्राट् ।
तदुक्तं 'प्राधान्येन विराडात्मा ब्रह्माण्डमभिमन्यते । स्वराट् स्वरूपमुभयं सम्राडि-
त्यब्रवीच्छ्रुति'रिति । दिव्यो रमणीयो विग्रहो देहो यस्याः । दिव्यन्तरिक्षे भवो
दिव्यो विग्रहो रणो यस्यां वा । 'तत्रापि सा निराधारा युयुधे तेन चण्डिके'ति
मार्कण्डेयपुराणवचनात् । विस्तारः प्रविभागो वा विग्रहपदार्थः । 'विग्रहः समरे