ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 164, कुल 272 में से
संदर्भ में पढ़ें१३६ ललितासहस्रनाम ।
विश्वगर्भा स्वर्णगर्भावरदा वागधीश्वरी ।
ध्यानगम्यापरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ १७८ ॥
सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ।
वा । देवीपुराणे तु 'योगाग्निना तु या दग्धा पुनर्जाता हिमालयात् । शङ्खकुन्देन्दु-
वर्णा चेत्यतो गौरीति सा स्मृते'त्युक्तं । इयं च कान्यकुब्जपीठाधिष्ठात्री । 'कान्यकुब्जे
तथा गौरी'ति पाद्मात् । गन्धर्वैर्विश्वावसुप्रभृतिभिः सेविता । गन्धर्वैरैश्वर्या सेविता-
ऽश्वारूढाख्या देवी वा । दिव्यगानमेव वा गन्धर्वः ॥ १७७ ॥ विश्वं प्रपञ्चजातं गर्भे
यस्याः । स्वर्णं हिरण्यं गर्भे यस्याः । स्वर्णस्य गर्भभवा वा । तदुक्तं वायुपुराणे 'हिरण्य-
मस्या गर्भोऽभूद्धिरण्मस्यापि गर्भजः । यस्माद्धिरण्यगर्भः स पुराणेऽस्मिन्निरुच्यत' इति ।
यद्वा अर्णानां वर्णानां