सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 158, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 158

ह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्य’मिति श्रुतौ
दहराकाशस्यैव परब्रह्मत्वनिरूपणात् । प्रतिपत्तिथिर्मुख्या आद्या यस्मिन् राका पूर्णिमा-
तिथिरन्ते यस्मिंस्तस्मिंस्तिथिमण्डले पञ्चदशतिथि समूहे पूजिता । तिथिभेदेन पूजाभेदस्य
तन्त्रेषु कथनात्तादृशप्रकारविशेषैरर्चितेत्यर्थः । यद्वा प्रतिपदाद्याशब्दौ कामेश्वरीचित्रापरौ ।
तिथिशब्दो नित्यापरः । तेन नित्यामण्डलेन पूजिता त्रिकोणरेखात्रयरूपेणावृता ।
अथवा प्रतिपन्मुख्या राकान्ताश्च तिथयो यासां देवतानां तासां मण्डलेन समूहेन
पूजिता । ताश्च वराहपुराणे ‘कथमग्नेः समुत्पत्तिरश्विनोर्वा महामुने । गौर्या
गणपतेर्वापि नागानां वा गुहस्य च । आदित्यस्य च मातृणां दुर्गाया वा
दिशां तथा । धनदस्य च विष्णोर्वा धर्मस्य परमेष्ठिनः । शंभोर्वापि पित