ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 171, कुल 272 में से
संदर्भ में पढ़ेंयस्याः । भाषाभिर्निरूप्यत इति वा । तदुक्तं 'संस्कृतेनैव केप्याहुः केचिन्म्लेच्छादि-
भाषया । साधारण्येन केपि त्वां प्राकृतेनैव केचने'ति । बृहती अपारा सेना चतु-
रङ्गबलं यस्याः । बृहतसेनाख्यराजविशेषरूपा वा । भावा द्रव्यगुणादयोऽभावाः प्राग-
भावादयस्तैरभयैरपि विवर्जिता । ननूभयेषामभावस्याप्यभावत्वेन तद्बत्त्वे कथमभाव-
विवर्जितत्वं । किंच प्रागभावध्वंसात्यन्ताभावादयोऽपि द्रव्यगुणादिप्रतियोगिका एव
वक्तव्याः । प्रकारान्तरायोगात् । ततश्च द्रव्याभावाभावे द्रव्यत्वं द्रव्याभावे च द्रव्या-
भावत्वमेवापद्यत इति कथं भावाभावविवर्जितत्वमिति चेत् । न । व्यासपादैरेव
परिहृतत्वात् । तदुक्तं स्कान्दे यज्ञवैभवखण्डे 'अधिष्ठानावशेषो हि नाशः कल्पितव-
स्तुनः । भावस्यैव ह्यभावत्वं नाशो भावस्य भावता ।