ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 62, कुल 272 में से
संदर्भ में पढ़ें३४ ललितासहस्रनाम ।
निजसंलापमाधुर्यविनिर्भत्सितकच्छपी ।
मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ॥ ६२ ॥
अनाकलितसादृश्यचिबुकश्रीविराजिता ।
कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ॥ ६३ ॥
कनकाङ्गदकेयूरकमनीयभुजान्विता ।
तपरिमल एवाहंपूर्विकया यौगपद्येन समाकृष्य सर्वाभिर्गृह्यते । तल्लिप्सयैव हि ता आ-
वृत्य परितोऽदृश्यवेषेण स्थिता इति तात्पर्यगत्योत्प्रेक्षाध्वननादिह वस्तुनालंकारध्वनिः ।
अथवा यस्या वीटिकामोदेन परिमलातिशयेन समाकर्षीणि सुरभिलानि दिगन्तराणि सेति ।
‘आमोदः सोऽतिनिर्हारी वाच्यलिङ्गलमागुणात् । समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पण’
इत्यमरः ॥ ६१ ॥ निजस्य स्वकीयस्य स्वतःशोभनस्य ब्रह्मविषयकस्य वालापस्य वर्णात्मक-
शब्दस्य माधुर्येण मञ्जुलतया विशिष्य निःशेषेण भर्त्सिता तिरस्कृता कच्छपी वीणा यया
सा । समासान्तविधेरनित्यत्वा‘न्नद्यृतश्चे’ति न कप् । कच्छपस्य स्त्री कच्छपीति तु कश्चित् ।
तन्न, ‘कच्छपी महतीवीणे’त्यादिकोशदर्शनात् । अमरकोशशेषोपि वीणामधिकृत्याह । ‘वि-
श्वावसोः सा बृहती तुम्बरोस्तु कलावती । सा नारदस्य महती सरस्वत्यास्तु कच्छपी’ति ।
लोके हि वर्णाभिव्यक्तेरभावेऽपि षड्जादिस्वराभिव्यक्तिमात्रेण ज्ञातचरानेव वर्णानुन्नीय
माञ्जुल्यमात्रलिप्सयैव हि वीणानादे रुचिरित्यनुभवः । कच्छप्यास्तु सारस्वतत्वादेव
शुकसारिकादिवदीषत्स्पष्टवर्णाभिव्यक्तिरप्यस्ति । स्पष्टतरवर्णाभिव्यक्तितदधिकमाधुर्यशा-
लिनः संलापस्यतु सर्वातिशायत्वे नास्ति विवाद इति । अतएव सौन्दर्यलहर्यां । ‘विपञ्च्या
गायन्त्या विविधमपदानं पशुपतेस्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने । तदीयैर्मा-
धुर्यैरपलपिततन्त्रीकलरवां निजां वीणां वाणीं निचुलयति चोलेन निभृतमि’ति । स्मित-
मीषद्धासः सोऽपि मंदः तस्य प्रभापूरे लावण्यप्रवाहे मज्जतीति मज्जत् । नतु मग्नं ।
एकत्र मग्नस्यावयवान्तरसंचारविलोपापत्तेः । इदं त्ववयवान्तरसंचारार्थं यतते तस्मान्निः-
सर्तु नाभिवाञ्छति चेति वर्तमाननिर्देशेन ध्वनितं । कामः कलाशरीरघटको बिन्दुरग्नी-
षोमाख्यो रविः । तदुक्तं कामकलाविलासे ‘बिन्दुरहंकारात्मा रविरेतन्मिथुनसमरसा-
कारः । कामः कमनीयतया कला च दहनेन्दुविग्रहौ बिन्दु’रिति । स एवेश्वरो राजराजे-
श्वरस्तस्य मानसं यस्याः सा तथोक्ता । मीमांसकमते विभुनोपि मनसो मज्जनकथनेन
प्रभापूरस्य निरवधिकाधिक्यं ध्वन्यते ॥ ६२ ॥ वाग्देवतामारभ्याद्य यावद्वर्णयितुं प्रवृत्तैः
कविभिरनाकलितं आसमन्तादभिव्याप्य न कल्पितं सम्यक् न लब्धं सरसोपमान-
स्यालाभात् । अपितु मुखमुकुरवृन्तरूपयत्किंचिदुपमानेन लब्धप्रायं यत्सा दृश्यमौपम्यं
यस्यास्तादृश्या चिबुकश्रिया विराजिता । कामेशेन परमशिवेन बद्धं यन्माङ्गल्यसूत्रं
कामोजीवनहेतुभूतं सौभाग्याभरणं तेन शोभिता कन्धरा शिरोधरा यस्याः ॥ ६३ ॥
अङ्गं ददातीत्यङ्गदं शरीरघटकमित्यर्थः । कनकमेवाङ्गदं येषां तैः सुवर्णैकशरीरकैः । के-