सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 57, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 57

सौभाग्यभास्करव्याख्या । २९
चिदग्निकुण्डसंभूता देवकार्यसमुद्यता ॥ ५२ ॥
उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता ।
नामीश्वरीमित्यनेन मन्त्रोद्धारः। एवं त्रिभिर्नामभिः सृष्टिस्थितिलयकर्तृत्वेन ब्रह्म लक्षयित्वा
प्रकृतपुराणोक्तमातृप्रादुर्भावादिकथाक्रमं प्रायेणाश्रयन्नेव तिरोधानानुग्रहपरपर्यायबन्धमो-
क्षप्रदत्वेनापि सप्रपञ्चं लक्षयितुमुपक्रमते—चिदग्नीत्यादिना शिवशक्त्यैकरूपिणीत्यं-
तेन । चित्केवलं ब्रह्म तदेवाग्निकुण्डं अविद्यालक्षणतमोविरोधित्वात् । 'अन्तर्निरन्तरनिरि-
न्धनमेधमाने मोहान्धकारपरिपन्थिनि संविदग्ना'वित्यादौ चिद्वह्निरूपकप्रयोगदर्शनात् ।
शक्तिसूत्रमपि । 'चिद्वह्निरवरोधपदे छन्नोपि चिन्मात्रयामेयेंधनं पुष्यती'ति । तद्भाष्यं च
चितिरेव विश्वग्रसनशीलत्वाद्वह्निरिति । तत्र सम्यक् अभेदेन भूतस्थितचैतन्याख्यधर्म-
रूपेणावस्थिता नतु जाता । 'तत्र जातः' 'तत्र भवः' इति पाणिनिना भूजनिधात्वोर्भेदेन
कीर्तनात् शक्तिशक्तिमतोर्भेदाच्च । तदुक्तं संक्षेपशारीरकाचार्यैः 'चिच्छक्तिः परमेश्वरस्य
विमला चैतन्यमेवोच्यते' इति । यद्वा प्रसिद्धमग्निकुण्डमेव चित्। चिदग्निपदयोरेव वोपमित-
समासः । 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुने'त्यादौ रूपकदर्शनात् । तस्य कुण्डा-
त्संभूता प्रादुर्भूता उत्पन्नेत्यर्थः । 'धुंधुमारस्ततोऽभवदि'त्यादौ भवतेरुत्पत्तावपि प्रयोगात् ।
तदुक्तं रेणुकापुराणे 'रेणुनामाभवत्पुत्र इक्ष्वाकुकुलवर्धनः' इत्यारभ्य तस्य तपो देवीवरं च
वर्णयित्वा । 'एतस्मिन्नन्तरे यज्ञे वह्निकुण्डाच्छनैर्द्विजा। दिव्यरूपान्विता नारी दिव्याभ-
रणभूषिते'त्यारभ्य 'वह्नेः शीतांशुबिम्बाभा सहसा निर्गता बहिः । एकैव तु जगद्धात्री
द्वितीया नास्ति काचने'त्यन्तेन । ब्रह्माण्डपुराणेऽपि भण्डासुरपीडितं शक्रं निर्वर्ण्य 'कुण्डं
योजनविस्तारं सम्यक्कृत्वातिशोभनमि'त्यादिना चिदग्निकुण्डे देवैः कृतं स्वस्वमांसहोममु-
क्त्वोक्तम् 'होतुमिच्छत्सु देवेषु कलेवरमनुत्तमम् । प्रादुर्बभूव परमं तेजःपुंजमयं म-
हत् । कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् । तन्मध्यतः समुद्भूच्चक्राकारमनौ-
पमम् । तन्मध्यतो महादेवीमुदयार्कसमप्रभाभि'त्यारभ्य'तां विलोक्य महादेवीं देवाः सर्वे
सवासवाः । प्रणेमुर्मुदितात्मानो भूयोभूयोऽखिलात्मिका'मित्यन्तम् । नित्याया उत्पत्त्य-
संभवमाशंक्य समाधत्ते—देवकार्येति । देवानां कार्याणि भण्डासुरमहिषासुरवधादीनि
तदर्थमुद्यता आविर्भूता । प्रकृतिविकृतिभावाभावेन तादर्थ्यचतुर्थ्यंतेन सह समासायो-
गेऽपि शेषषष्ठ्या समासः । तदुक्तं मार्कण्डेयपुराणे । 'देवानां कार्यसिद्ध्यर्थमाविर्भवति
सा यदा । उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते' इति । कूर्मपुराणेऽपि हिमव-
न्तं प्रति भगवत्योक्तं । 'अहं वै याचिता देवैः संस्मृता कार्यगौरवात् । विनिन्द्य दक्षं
पितरं महेश्वरविनिन्दकम् । धर्मसंस्थापनार्थाय तवाराधनकारणात् । मेनादेहात्समुत्पन्ना
त्वामेव पितरं श्रिते'त्यादि ॥ ५२ ॥ एवं चिद्रूपत्वेन प्रकाशात्मकतामुक्त्वा विमर्शात्मकं
रूपमाह—उद्यदिति । भानूनां किरणानां सहस्रं यस्य स भानुसहस्रः सूर्यः । तस्यो-
द्यत्त्वं विशेषणं । वर्तमानकालिकोदयवत्त्वं तदर्थः । वर्तमाने लटः शतृशानचोर्विधानात् ।
तेन लौहित्यं ध्वन्यते । उद्यतां भानूनां रक्तसूर्याणां यत्सहस्रमानन्त्यं तेन तुल्येति वा ।